________________
३०४
[भा. ३२७७]
पंचण्ह दोण्हिी हारा भवणा आरेण पालहारेसु । ते चेव य कुसपडिमा नयंति हारावहारो वा ।।
वृ- यदि सप्तानामधस्तात् षट् भवन्ति तदा त्रयो विश्रम्य द्वौ द्वौ भूत्वा वहन्ति, एको वसतिपाल एकस्तृणानि मात्रकं च गृह्णाति पञ्चानां विधिं साक्षादाह-पञ्चानां साधूनां संभवे द्वो हारौ वहत इत्यर्थः । तृतीयः कुशादिनयति, चतुर्थी वसतिपालः पञ्चमः कालगतः पञ्चानामारतो ये चतुः प्रभृतयस्तेषां वसति रक्षणे वहने च विकल्पना, किमुक्तं भवति, यथा संभवमशून्यां वसतिं कृत्वा शय्यातरस्य वा निवेद्य शून्यामपि कृत्वा यथा शक्नुवन्ति तथा परिष्ठापयन्ति, तथा चाह, तएव हरा मृतवाहकाः कुशप्रतिमा नयन्ति, इयमत्र भावना शय्यातरस्य वसति निवेदने कृते विश्रम्य विश्रम्य वहति, यस्तु विश्राम्यति सकुशादि नयतीति । अथवा एक एव यः समर्थः स हरो भवेत्स वहतीतिभावः । एक्को व दो व उवहिं रत्तिं वेहा सदि य असुणंमि ।
[भा. ३२७८ ]
एकरस य तह चेवा छठ्ठणे गुरुगाय आणादी ।।
बृ- यदि त्रयः साधवो भवेयुस्तदा एकः कालगतो ये च द्वौ तौ रात्रावुपधिं विहायसि कृत्वा एकौ द्वौ वा वहतो, अथ दिवा परिष्ठाप्यते तदा एकस्य मोचनेन शय्यातरभालनेन वा अशून्ये उपाश्रये कृते सति द्वाभ्यामेकेन वा उडवा परिष्ठापयितव्यः । एकस्यापि परिष्ठापने विधिः तथैव द्रष्टव्यो यथा द्वयोरनन्तर मुक्तः । किमुक्तं भवति ? रात्रावुपधिं विहायसि कृत्वा परिष्ठापयति । दिने शय्यातंरभालनेन वसतिमशून्यां कृत्वा परिष्ठापयेत् । यद्येकद्वित्रिप्रभृतयः स्तोका वयं कथं वीक्ष्याम इति विचिन्त्य न परिष्ठापयन्ति । किन्तु त्यक्त्वा गच्छन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः न केवलं प्रायश्चित्तमेव किन्त्वाज्ञादयश्च दोषास्तन्निमित्तमपि तेषां प्रायश्चित्तमिति भावः । इमे चान्ये दोषाः । गिहिंगोणमल्लराउल निवेयणा पाणकट्टणुड्डाहो । छक्कायाण विराधन ज्झावणसुक्खेय वावन्ने । ।
[ भा. ३२७९ ]
व्यवहार- छेदसूत्रम् - २- ७/१८०
वृ- साधूनामभावे गृहिणस्तं त्यजन्ति यदि वा गावौ बलीवर्दीयोक्त्रयित्वा ताभ्यां गृहस्थाः कर्षयन्ति । अथवा मल्लैः परित्याजयन्ति यदि वा गृहस्था राजकुले निवेदयन्ति । तत्र पाणैराकर्षणे प्रवचनस्योङ्काहः । यथा प्राप्तमीदृशेन धर्मेण यत्रेदृशी अवस्था प्राप्यते, एते प्रवचनविराधना विरूपा दोषा इयं संयम विराधना असंयतैर्नीयमानैः षट्कार्याविराधना, ध्यामनादहनं तस्य कलेवरस्य गृहस्थैः क्रियते । ततस्तत्रापि षट्कायविराधना तथा व्यापन्ने कुथिते कृमिजालसंसक्ते शुष्के शोषमुपगते द्वीन्द्रिय विराधनातम्हा उवहितं चोढुं जे जई पच्चला नयंति । दोवि निद्दोवे सद्दोवे ठावए निसिं ।।
[भा. ३२८० ]
- यस्मादेते अनन्तरोदिता दोषास्तस्मात् स्तोकैरपि परिष्ठापयितव्यं । तत्र विधिः प्रागुक्त एवं यथा यदि चत्वारस्तदा एको वसतिपालः शेषास्त्रयो विश्रम्य विश्रम्य तत्कलेवरं वहन्ति । यस्तु विश्राम्यति स तृणानि मात्रकं च वर्हति । अत्र योजना यदि वा द्वौ तदा यदि रात्रौ निर्भयं तर्हि निद्दोच्चे निर्भये ये बतय 'उपधिंकलेवरं वोढुं प्रत्यलाः समर्थास्ते द्वावपि नयतः उपधिं तच्च कलेवरं नयन्तीत्यर्थः । नीत्वा च कलेवरं स्थगयित्वा परिष्ठापयन्ति । अथ बहिरुपकरणस्तेन भयं तदा रात्रावुपकरणं विहायसि विलम्ब्य द्वारं बध्वा परिष्ठाप्य प्रत्यागच्छन्ति । यदि वा सद्दोच्चे समये रात्रौं तत्कलेवरं स्थापयन्ति स्थापयित्वा बन्धनच्छेदनजागरणादिकां यतनां कुर्वन्ति ततो दिवसे यदि शक्नुवन्ति । तदा उपकरणं गृहीत्वा परिष्ठापयति ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International