________________
२६६
व्यवहार-छेदसूत्रम् -२-७/१७४ बहुशोऽनेकप्रकारं मुखनयनकक्षाहस्तपादादीनामुच्छोलनं प्रक्षालनं कुर्वन्ति । तथा कल्पस्थानिडिम्भरूपाणिरमयन्ति मण्डयन्ति ममीकुर्वन्तिवा तथा स्थल्यो देवद्रोण्यस्तासु भिक्षार्थं व्रजन्ति, । तत्र घोटाडिंगरास्ते निरुद्धा बलादपि गृह्णन्ति स्थल्यां वा समवसृतः प्रत्यासन्ने य उपाश्रयस्तत्र वसन्ति वेश्यागृहाणिवा हिण्डन्ते । तत्पाटकेवावसतौ तिष्ठन्ति,शाला हस्तिशालाअश्वशालावातासुहिण्डन्ते तासां वा समीपे उपाश्रये तिष्ठन्ति, । यन्त्राणि इक्षु यन्त्रतैलयंत्रादि गृहाणि तानि हिण्डन्ते, तन्मध्ये वा उपाश्रये वसन्ति तथा व्रजान् गोकुलानि व्रजन्ति, काथिकादिकत्वं वा कुर्वन्ति, गृहनिषद्यां वा बाधन्ते एष द्वारगाथाद्वयसमासार्थः । साम्प्रतमेतदेव विवरिषुः प्रथमत आलोचनाद्वारंसच्छन्दद्वारंचाह[भा.३०६१] जाजतोगया साउ, नालोए दिवसपक्खियंवा वि ।
सच्छंदातो क्यणे, महतरियाएनठायति ।। वृ-यायत्रगतासाततः प्रत्यागतानालोचयति, नापिकाचन दैवसिकंपाक्षिकं अपिशब्दातात्रिक वातीचारमालोचयति । तथास्वच्छन्दाः सर्वा अपिवर्तन्तेनमहत्तरिकाया उपलक्षणमेतत् । नाप्याचार्योपाध्याययोर्वचनेन तिष्ठन्ति । अधुना बिंटलादिद्वार चतुष्टयमाह[भा.३०६२] विटलानि पशुंजंति, गिलायाणाविन पडितप्पंति ।
आगाढेवा अनागाढं करेंति अनागाढे आगाढं ।। [भा.३०६३] अजयणाएव कुव्वंती पाहुणगादिअवच्छला ।
चित्तलाणिय नियसंति वित्तायहरणा तहा ।। वृ- विंटलानि खिटिका चप्पुटिकादीनी प्रयुञ्जते, नापि ग्लानायाः प्रति तर्पयन्ति प्रतिचरन्ति यदि वा आगाढे अनागाढं कुर्वन्ति, अनागाढे वा आगाढमयतनया वा कुर्वन्ति, तथा प्राघूर्णिकायामवत्सलास्तथा चित्रलानि विचित्ररेखोपेतानि वस्त्राणिनि वसने परिदधति | चित्राणि वा नानाप्रकाराणि रजोहरणानि धारयन्ति ।सम्प्रति सविकारद्वारमाह[भा.३०६४] गइविन्भमादिएहिं आगार विगारा तहापदंसंति ।
जह किढगाणा विमोहो समुदीरति किंतुतरुणाणं ।। वृ- गतिविभ्रमादिभिराकार विकारास्तथा प्रदर्श्यन्ते, यथा किटकानामपि वृद्धानामपि मोहः समुदीर्यते, । किं पुनस्तरुणानामिति बहुशः । उच्छोलन द्वारंकल्पस्थद्वारंचाह[भा.३०६५] बहुसो उच्छोलंती मुहनयने हत्थ पायकक्खादी।
गेण्हणमंडणरामणभोयतिव तातो कप्पढे ।। वृ-ता मुखनयनानि हस्तपदाकक्षादिकं च बहुशोऽनेकवारमुच्छोलयन्ति, प्रक्षालयन्ति, तथा गृहस्थबालकानां ग्रहणं कुर्वन्ति, । मण्डनं वा रामणं वा क्रीडनं यदि वा ताः कल्पस्थान् गृहस्थदारकान भोजयन्ति, स्थलीघोटद्वारंवेश्याद्वारं चाह[भा.३०६६] थलि घोडादिठाणेवयंतिते वावि तत्थ समुवेति ।
वेसित्थी संसग्गी उवासतो वा समीवंमि ।। वृ-स्थलीघोटादिस्थाने अत्रादिशब्दस्तेषामेव देवडिंगराणामनेकभेदख्यापनार्थता व्रज्रन्ति, ते वा स्थली घोटादेवडंगरापरपर्यायास्तत्रार्यि कोपाश्रये स्थली समीपे समुपयन्ति गच्छन्ति, तथा वेश्यास्त्रीसंसर्गिः सदैव तासां यदि वा वैश्यागृहसमीपेतासामुपाश्रयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org