SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ६ व्यवहार - छंदसूत्रम् - १ एएसिं तु पयाणं, पत्तेयं परुवणं वोच्छं ।। वृ-व्यवहार उक्तशब्दार्थः, व्यवहरतीत्येवंशीलो व्यवहारी व्यवहारक्रियाप्रवर्त्तकः, प्रायश्चित्तदायीति यावत्, तथा ये पुरुषा पुरुषग्रहणं पुरुषोत्तमो धर्म इति ख्यापनार्थमन्यथास्त्रियोपिदृष्टव्यास्तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात्, यथा येन वक्ष्यमाणेन प्रकारेण व्यवहर्त्तव्या व्यवहारक्रियाविषयीकर्त्तव्यः, पाठांतरं जे जहा काले अस्यायमर्थः, ये यथा यस्मिन् काले व्यवहर्त्तव्यास्तद्यथा यदा आगम व्यवहारिणः संति, तदा तदुपदेशेनैव व्यवहर्त्तव्यास्तेषु व्यविच्छिन्नंषु श्रुतज्ञानव्यवहार्युपदेशेन तदेवचाज्ञयापि तदेव धारणया तदेवतु जीतव्यवहारेणापि व्यवहर्तव्या इति, एतेषां व्यवहारव्यवहारिव्यवहर्त्तव्यरुपाणां त्रयाणां पदानां तु विशेषणे स चैतद्विशिनष्टि, संक्षेपप्ररूपणार्थमिदमाह ॥ | भा. २ ] ववहारी खलुकत्ता ववहारो होइ करणभूती उ । ववहरियव्व कज्ज कुंभादितियस्स जह सिद्धी || वृ-ववहारी खलुकत्तति व्यवहारस्य कर्ता व्यवहारस्य छेत्ताभिधीयते इति शेषः, व्यवहारः पुनर्भवति करणभूतः व्यवहार च्छेदक्रिया प्रतिकरणत्व प्राप्तः, तु शब्दः पुनरर्थे व्यवहरितसंबंधश्च, स च यथा स्थानयोजित एव स च व्यवहारः करणभूतः पंचधा १ आगमः २ श्रुतमा ३ धारणा ५ जीतश्च आह चूर्णिकृत, पंचविधो व्यवहारः करणमिति, तेन च पंचविधेन व्यवहारेण करणभूतेन व्यवहरन् कर्ता यन्निष्पादयति कार्यं, तद् व्यवहर्त्तव्यमित्सुच्यते, तथा चाह वयहरियव्वाय जे जहा पुरिसा इति, अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते, न खलु देवदत्तग्रहणेन यज्ञदत्तस्य सूचा भवतीति तत आह कुंभादितियस्य जह सिद्धि कुंभ आदिंरपामिति कुंभादयस्तेषां त्रिकं कुंभादित्रिकं, तस्य यथा सिद्धिः कुंभग्रहणेन तथा कुंभइत्युक्ते सकृतक इति तस्य कर्ता कुलालः करणं मृच्चक्रादिसामर्थ्यात् तन्यते, कृतकस्यासतः कर्तृकरण व्यतिरेकणासंभवात् एवमत्रापि, व्यवहार इत्युक्तेव्यवहारि व्यवहर्त्तव्यश्च सूच्यते करणस्यापि सकर्मकक्रिया साधकतमरुपस्य कर्मकर्तृव्यतिरेकेणासंभवादिति त्रितयसिद्धिः तदेवमेकग्रहणे सामर्थ्यादितरस्य द्वयस्य ग्रहणं भवत्येतत् सामान्येन सनिदर्शनमुक्तं, संप्रतिकरणग्रहणेऽवश्यकर्तुकर्म्मग्रहणं भवतीत्यर्थे निदर्शनमाह || [भा. ३] नाणं नाणीनेयं, अन्ना वा मग्गणा भवेतितए । विविहं वा विहिणा वा ववणहरणं च ववहारो ।। बू - मार्गणा भवति तामेवाह, नाणीनाणं नेयमिति, तत्र ज्ञायतं वस्तु परिच्छिद्यतं अनेनेति ज्ञानं, तत्रयथा ज्ञानमित्युक्ते ज्ञानिनां ज्ञानक्रिया कर्तुर्ज्ञेयस्य च ज्ञानक्रियाविषयस्य परिच्छेदस्य सिद्धिर्भवति, तद्वितयसिद्धिमंतरेण ज्ञानस्य ज्ञानत्वस्यैवासंभवादेवमत्रापि व्यवहार ग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते इति भवति त्रितयस्याप्युपज्ञेपः एका तावन्मार्गणा त्रितयविपया कुंभादित्रिकसिद्धिदृष्टांते प्रागभिहिता, वा शब्द प्रकारांतरे अथवा इयमन्या त्रितया विषया तदेव संज्ञेपतो व्यवहारादिपदत्रयस्य प्ररूपणा कृता, संप्रति यथाक्रमं विस्तरेण तां चिकीर्षुः प्रथमतो व्यवहारपदस्य निरुक्तं वक्तुकाम इदमाह विविहं वा इत्यादि विविधं तद्योग्यतानुसारेण विचित्रं विधिना वा सर्वज्ञोक्तेन प्रकारेण वपनं तपः प्रभृत्यनुष्टानविशेपस्य दानं टुवप बीजतंतुसंताने इति वचनात् हरणमतीचारदीपजातस्य अथवा संभूय द्वित्र्यादिसाधुनां क्वचित्प्रयोजने प्रवृत्तीयत् वस्मिन्वा भवति तस्य तस्मिन् वपनमितरस्माच्च हरणमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy