________________
व्यवहार-छेदसूत्रम् - २६ / १४९
१७४
लोकोत्तरिको विनयो बलिकः । अत्रैवापवादमाह[ भा. २५५४ ]
[भा. २५५५ ]
बितियपयं असतीए अन्नाए उवरस्य व सागारो । न पवत्तति संते वी जे य समत्था समं तेहिं ।। कुप्पहादीनिग्गमणं नातिगभीरे अपच्चवायंमि । वोसरियं मिय गुरुणा निसिरंति महंतदण्डधरा ।। वृ- द्वितीयपदमपवादपदमधिकृत्य संज्ञाभूमिमाचार्यो व्रजेत् । तदेव द्वितीयपदमाह-उपाश्रयश्च पश्चात्कृते संज्ञाभूमिर्नास्ति । ततस्तस्या असति बहिर्व्रजेत् । अन्नाएत्ति यत्र न ज्ञायते । एष आचार्यस्तत्रापिबहिर्व्रजेत् । अथवा उपाश्रये सागारिको विद्यतेततो बहिर्याति, कस्यापि पुनरुपाश्रयस्य पश्चात्कृते विद्यमानेऽपि संज्ञान प्रवर्ततेसोऽपि बहिर्याति । एतैः कारणैर्बहिर्गमने जाते ये समर्थास्तरुणाः साधवः तैः समं याति । तत्र यानि कुपधादीनि कुरथ्यादीनि तैर्गन्तव्यं तैर्गच्छतोऽपि प्रायः पूर्वोक्ता दोषा न भवन्ति । तत्रापियन्नातिगंभीरं नातिविषमप्रत्यवायं प्रत्यवायविर्हितं तत्राचार्यः संज्ञां व्युत्सृजति येषां च सहायानां हस्ते महान्तो दण्डकास्ते महादण्डधराश्चतसृष्वपि दिक्षु संरक्षणपरायणास्तिष्ठिन्ति । व्युत्सृष्टे च गुरुणा पुरीषे ते महादण्डधरा वनस्तरन्ति कस्मादेवं रक्षा क्रियते इति चेत् कुलस्य तदायत्तत्वात् । उक्तं च जंमि कुलं आयत्तं तं पुरि सं आयरेण रक्खाहि । । इत्यादि कथं पुनः स रक्षितव्य[ भा. २५५६ ] जहराया तोसलिओ मणिपडिमा रक्खए पयत्तेण । तह होइ रक्खियव्यो सिरिधरसरिसो उ आयरितो ।।
वृ-यथा राजा तौसलिको मणिप्रतिमे च प्रयत्नेन रक्षति तथा भवत्याचार्यो रक्षितव्यो यतः श्रीगृहसदृश एष आचार्य अथ के ते प्रतिमे इत्यत आह
[भा. २५५७ ]
पडिमुप्पत्ती वणिए उदही उप्पातो उवायणभीतो । रणदुगे जिनपडिमा करेमि जइ उत्तरे विग्धं ।। उप्पाउवसमउत्तरणमविग्घं एक्कपडिमकरणं वा । देवयच्छंदेन ततो जाया बितीए विपडिमा तो
[भा. २५५८]
बृ- प्रतिमायारुत्पत्तिर्वक्तव्या सा चैवमेकस्य वणिज समुद्रं प्रवहणेनावगाढस्योत्पात उपस्थितस्ततः स वणिक् भीतः सन् औपयाचितिकं करोति । यथा यदेतदौत्पादिकमुपशाम्यति अविघ्नेनोत्तरामि च ततोऽनयोर्द्वयोर्मणिरत्नयोर्द्धे मणिमय्यौ जिनप्रतिमे कारयिष्यामि । एवमौपयाचितिके कृते देवतानुभावेनोत्पातिकमुषशान्तमविध्नं समुद्रोत्तरणमभूत् । स चोत्तीणः सन् लोभेन एकसिममणिरत्ने एकां जिनप्रतिमां कारयति । ततो देवतया द्वितीयेपि मणिरत्ने द्वितीया जिनप्रतिमा कारिता । तथा चाह-देवताच्छन्देन ततो जाता द्वितीयेऽपि मणिरत्नप्रतिमा || तो भत्तीए वणितो सुस्ससइ ता परेण जत्तेणं ।
[भा. २५५९]
ता दीवएणपडिमा दीसंति हरा उरयणाई ।।
वृ- ततः प्रतिमाद्वयकारापणानन्तरं ते प्रतिमे वणिग् भक्त्या परेण यत्नेन शुश्रूषते । ततस्तयोश्च प्रतिमयोरिदं प्रातिहार्यं ते प्रतिमे यावद्दीपकः पार्श्वे ध्रियते तावद्दीपकेन हेतुना प्रतिमे दृश्येते । इतरथा दीपकभावे प्रकाशेऽपि प्रकाशे मणिरत्ने दृश्येते ।।
[ भा. २५६० ]
सोऊण पाडिहेरं राया घेतूण सिरिहरे छुहति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org