________________
उद्देशक :
:- ४, मूल- १२६, [ भा. २२२०]
अथ समकप्राप्ततया साधारणे क्षेत्रे स्थितानां मध्ये एकः कश्चनापि तं पश्चादागतमन्यमाचार्य बहुश्रुतमुपसम्पन्नस्तदा यस्तस्य भागः स तत्र कथयति सङ्क्रान्तः । निक्खित्तगणाणं वा तेसिं वि य होइ तंतु खेत्तं तु । खेत्त भया या कोई, माइठाणेण सुण एवं ।।
[भा. २२२१]
वृ- यदि क्षेत्रवतां शिष्य आगन्तुकमाचार्यमुपसम्पन्नो यदिवाचार्याः गणं शिष्ये गीतार्थे निक्षिप्य तमुपसम्पन्नास्तदा तेषामेव निक्षिप्तगणानां वाशाब्दादुपसम्पन्नस्तदेकशिष्याणां तत् क्षेत्रम् । किमुक्तं भवति ? यत्ततः क्षेत्रात्सचित्तादिकमुत्पद्यते तत्तेषामाभवति प्रवाचयन्नागन्तुवो न लभते । कोऽपि पुनर्मा ममागन्तुकस्य पार्श्वे शृण्वतः क्षेत्रं यायादिति क्षेत्रभयादेवं वक्ष्यमाणप्रकारेण मातृस्थानेन शृणोति तमेवं प्रकारमाह
१०९
[भा. २२२२] कुट्टेण चिलिमिलीए व अंतरितो सुणइ कोइ मानेन । अहवा चंकम्पणीयं करेंतो पुच्छागमो तत्थ ।।
वृ- कुड्येन यदि वा चिलिमिलिन्या जवनिकान्तरितः सन् कोऽपि मानेन ममेदं क्षेत्रमाभवति तन्मा हस्तादुत्तरत्विति क्षेत्रगर्वेण शृणोति । अथ वा मानेनैव यथोक्तरुपेण चंक्रमणिकां कुर्वन् कोऽपि शृणोति । तत्र यद्यपि स न शृणोति तथापि तत्र पृच्छागमो भवति, पृच्छा कर्तव्या भवति, ततः पृच्छा कर्तव्या भवति, ततः पृच्छातोऽपि तस्य तस्य भवति क्षेत्रं, । अथ कतिभिः पृच्छाभिः कियन्तं कालं तस्याभवति क्षेत्रमत आह[ भा. २२२३]
पुच्छाहिं तीहिं दिवसं, सत्तहिं पुच्छाहिं मासियं हरेइ । अहवा विसेसमन्नो इमो उ तहियं अहिञ्जते ।।
वृ- तिसृभिः पृच्छाभिरेकं दिवसं यावत् तत्क्षेत्रं हरति, पृच्छादिवसे यत्तस्मिन् क्षेत्रे सत्तादिकमुत्पद्यते तत् कथयन् लभते नेतर इति भावः । सप्तभिः पृच्छाभिः पुनर्मासिकं पृच्छादिवसादारभ्य मासं यावत्सचित्तादिकमपहरति । तदेवं खेत्तभया वा कोइ इत्यादि गाथा पश्चार्ध व्याख्यातमिदिनीं निक्खित्तगणाणं चेत्यादि पूर्वार्धव्याख्यानयति । अथवाऽयं वक्ष्यमाणोऽन्यविशेषस्तस्मिन्नधीयापनेऽध्यापयतरि तमेवाह[भा. २२२४]
जति निक्खिविऊणं गण उवसंपाए हवावि सीसं तु । ता तेसिं चियखेत्तं वाएतो लाभो खेत्तबहिं ।।
वृ- यदि गीतार्थे गणं निक्षिप्य तमागन्तुकमुपसम्पद्यते अथवा शिष्यं प्रेषयति तदातेषाभेव पूर्वस्थितानां तत्क्षेत्रमाभवति न तु वाचयतो वाचयति लाभस्तस्मात्क्षेत्राद्बहिः ।।
[भा. २२२५]
अह बेती वायंतो लाभेन नत्थि हं ति वच्चामो ।
इयरे हिंय सो रुद्धो मा वच्चसु अम्ह साहारं ।।
वृ- अथ ब्रूते वाचयन् यथा नोऽस्माकमिह नास्ति लाभ इति व्रजाम एवमुक्ते इतरैः पूर्वस्थितैः स रुद्धो यथा माव्रजत यूयं युष्माकमस्माकं च साधारणं क्षेत्रमिति । अथ साधारणेऽपि क्षेत्रे स्थिता न संस्तरति तत्र विधिमाह
[भा. २२२६]
Jain Education International
निगमने चउभंगो निट्टिय सुह कक्खयं जति करेंति । निड्डिय पहावितो वा रुद्धो पच्छाय वाघातो ।।
For Private & Personal Use Only
www.jainelibrary.org