SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ उद्देशक :-४, मूल - १०६, [भा. १९८१] पृथग्भावे यथावटात् पटः पृथक्, एवमाकाशास्तिकायाद्धर्मास्तिकायोऽपीति; एकत्वे यथायमेतद्गुण एवमेषोऽपि अत्र ह्येवंशद्वस्तयोरेकरूपतामभिद्योतयति, अवधारणयथाकेनापिपृष्टमिदमित्थं भवति। इतरः प्राह-एवंइत्थमेवेतिभावः एवमेवंशब्दएतेष्वर्थेषुवर्तते । पुनरेकत्वेभवतिवर्तते । एकत्ववृत्तिमेव भावयति[भा.१९८२] एगत्तंउउबद्धे जहेव गमनंतुभंगचउरोय । तह चेवय वसासुंनवरि इमं तत्थनाणत्तं ।। वृ- एकत्वं तथा एवंशब्द प्रकाश्यमित्थं यथा ऋतुबद्धेऽन्यत्र गच्छान्तरे गमनं यथा च तत्र भङ्गाश्चत्वारः । शुद्धस्य शुद्धगमनमित्येवमादयः तथाच तेनैव प्रकारेणगमनं भङ्गचतुष्टयंचज्ञातव्यं । नवरं केवलमिदंतत्र वर्षासु, भिक्षायां वसतौ शंकायांच नानात्वम् ।। तत्र भिक्षामधिकृत्याह-- [भा.१९८३] पउरन्न पानगमनं इहरा परितावएसणाघातो | खेत्तस य संकमणेगुरुगा लहुगाय आरुवणा ।। वृ- यो गच्छः प्रचुरानपाने स्थितः तत्र गन्तव्यं, इतरथा यदि पुनरप्रचुरान्नपाने गच्छे प्रविशति ततस्ते असंस्तरत' क्षुधा परिताप्यन्ते, ।परितापनांवाऽसहमानैः एषणाघातः क्रियते, अनेषणीयमपि गृह्णीयरित्यर्थः, अथासंस्तरन्तः क्षेत्रसंक्रमणं कुर्वन्ति,तदा प्रावृषिक्षेत्रस्य संक्रमणेआरोपणाप्रायश्चित्तं चत्वारो गुरुकाः, वर्षारात्रे भाद्रपदाश्चयुम्मासद्वयलक्षणे चत्वारो लघुकाः ।। गतंभिक्षाद्वारमधुना वसतिद्वारमाह-- [भा.१९८४] वारग जग्गणदोसा सागारादी हवंतिअन्नासु । तेनादिसंकलोएभाविणमत्थंपवासंतिवपासंति ।। वृ- यस्मिन् गच्छे वसतिः सङ्कटा तत्रनोपसंपत्तव्यं, यदि पुनरुपसम्पद्यतेतत इमे दोषाः संकटायां हि वसतावमान्तास्ते बारकेण क्रमेण जागरणं कुयुरके जाग्रत्यन्ये स्वपन्ति, तदनन्तरं ते जाग्रत्यन्ये स्वपन्ति । एवं क्रमेणजागरणेऽजीर्णत्वादयो दोषाः अथ अन्यासुवसतिषु केचित्स्वपनायव्रजन्तितर्हि ये पाक् अभिशय्यायां सागरिकादयो दोषाः ते अत्रापि भवन्ति ।। गतं वसतिद्वारमिदानीं शङ्काद्वारमाहभिक्षायाअभावतोवसतिसङ्कटत्वदोषतोवातेक्षेत्रसंकमणंकुर्युस्तांश्चगच्छतोदृष्ट्रालोकस्य स्तेनादिशंकाउपजायते, यथानकल्पतेसाधूनांगमनंतन्नूनमेतेहेरिकाः स्तेनावासाधुवेषेणाहिण्डन्ते । अथवाभाविणमत्थंचपासंतित्तिएतेभाविनमर्थंउत्पातरूपं, यदिवाननिष्पत्स्यतेसस्यमित्येवंलक्षणं, ततोऽनागते नश्यति । तस्माद्वयमपि यलं कुर्मः । तदेव प्रचुरान्नपाने सङ्कटवसतिस्थितेच गच्छे प्रवेशे इमे दोषाः तस्माद्ये प्रचुरानपानग्रामे स्थिता येच सावकाशायां वसतौ तत्रोपसम्पत्तव्यम् । तत्र चानया यतनयागन्तव्यं तामेवाह[भा.१९८५] आसन्नखेत्तभाविय खेत्तादपरोप्परं मिलतेसु । जा अठमंअभावियमानं अडतंबहूपासे ।। वृ-ये आसन्ने अनन्तरे क्षेत्रे स्थिता गच्छास्तत्र गन्तव्यं ।। असत्यनन्तरक्षेत्रे ये परक्षेत्रे स्थिता यैर्भिक्षादिनिमित्तमागच्छभिश्च परस्परं मिलद्भिः, गाथायां सप्तमी तृतीयार्थेऽपान्तराले पथि भाविता ग्रामास्तत्र गन्तव्यम् तेषामप्यभावे दूरेऽपि गम्यते ।। तत्र पुनर्भिक्षामहिण्डमानो गच्छति । किं कारणमत आह-'मानं अडतं बहूपासे,' माणमिति वाक्यालङ्कारे, भिक्षामन्टतं बहुलोकोऽभावितः तु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy