________________
उद्देशक :-४, मूल - १०२, [भा. १७८५]
१७ मध्ये प्रविष्टो, गुप्तःसन्, सबालकोदोतकैतवेनवा केचित्युर्मन्दभाग्य!नश्यप्रदीपनकंलग्नं वर्तते । एवमुक्तेस उपकरणंबहिर्निष्काशयितुमारभतेततोऽपहरन्ति ।। ___ भङ्गे मालवतेनत्तिमालवा म्लेच्छविशेषाः शरीरापहारिणः,स्तेना उपकरणापहारिणस्तैर्भङ्गेस बालको भयतोजनेनसार्धनश्यति,नचसारमुपधिंगृह्णाति । यदिवाउपधिप्रतिबद्धः सन्स वसतावेव तिष्ठेत्, ततःसमालवैरपहियतेस्तेनैर्वा उपकरणमिति । अथवा केचित् कैतवेनब्रूयुर्मालवाः स्तेनावाक्षुल्लक! समापतितास्तस्मात् पलायस्व जनेन सामिति, एवमुक्तेस बालकस्तत्त्वमजानानो नश्यति, इतरे उपकरणमपहरन्ति ।। नातित्ति ज्ञातयः स्वजनास्ते समागतास्तैरेकाकी दृष्टस्ततो नीयते, अन्ये वोपधिमपहरन्ति । अथवाऽन्येन केनचित् आगच्छन्ति दृष्टाः तेन कथितं क्षुल्लक ! तव ज्ञातयः समागच्छन्ति । ततःस पलायतेइतस्श्चोपकरणमपहरति । अथवाकोऽपिधूर्तःकैतवेन ब्रूयात, क्षुल्लक ! क ते निजकाः, क्षुल्लकः प्राह-अमुके ग्रामे नगरे वा, सोऽन्यस्मै कथयति, ततस्तेषां सजातीनां नामचिन्हान्चवगम्य तस्य क्षुल्लकस्य समीपमागत्यभणति-अमुकस्य त्वं निजकः । क्षुल्लकः प्राह-कथं त्वं जानासि । ततः स तन्मातापित्रादीनां नामवर्णादि कथयति । ततः क्षुल्लकस्य प्रत्यय उपजायते, ततोवक्ति सत्यमहंतेषां निजकः । ततोधूर्तो ब्रूते-आगतास्तव निमित्तं, मया अमुकप्रदेशे दृष्टा इति, ततः स पलायते, इतरे हृत्युपकरणम् । एवं यथा बालेऽकल्पिके दोषास्तथा अव्यक्ते निद्राप्रमत्ते कथाप्रमत्ते वाकल्पिके वेदितव्याः । [भा.१७८६] तम्हापालेइगुरुपुव्वंकाउंसरीरचिंतंतु ।
इहरा आउवहीणं विराहधनाधरंतरमधरते ।। वृ-यतस्तरुणे बालकादौ वाऽकल्पिके वसतिपाले स्थितेऽनन्तरोक्त दोषा आचार्येतुन भवन्ति, तस्माद्गुरुराचार्योवसतिपालयति,कथमितिचेदतआह-पूर्वशरीरचिन्तांकृत्वासंज्ञाभूमिंगत्वा इत्यर्थः, अयशरीचिन्तांनकरोतिततःप्रायश्चित्तंमासलघु, इमेचदोषाः । 'इहराउ' इत्यादि, इतरथाशरीरचिन्ताया अकरणेयदिसंज्ञांधारयतिततआत्मविराधना मरणस्यग्लानत्वस्य चावश्यं तन्निरोधेभावात् । अथन धारयति किन्तु मात्रके व्युत्सृजति ततः श्राद्धादीनामागतानां गन्धागमन उड्डाहः । अथ बहिर्याति च तत्रोपधेर्विराधनातस्करापहाररूपयेचैकाकिनोदोषास्तेचभवन्ति ।।एषसंस्तरणंविधिरुक्तोऽसंस्तरणे पुनराचार्यो वसतिंप्रलोकमानस्तस्मिन्नेव पाटके प्रत्यासन्नेषु गृहेषु भिक्षार्थ हिण्डते । तथा चाह[भा.१७८७] जइसंघाडो तिण्ह विपज्जत्तानेइतो गुरुन नीति ।
अहनवि आणेताहेवसहिआलोगहिंडणया ।। . वृ- यदि सङ्घाटकः साधुयुग्मं त्रयाणामपिआत्मद्विकस्य गुरोश्चेत्यर्थः पर्याप्तं परिपूर्णमानयति ततो गुरुर्भिक्षार्थनन्येति निर्गच्छति । अथ नैव त्रयाणां पर्याप्तमानयत्यलाभादशक्तेर्वा, तदा वसतेरालोको यथाभवत्येवमाचार्यस्य प्रत्सन्नेषु गृहेषु हिण्डनम् ।। कियत्पुनस्तत्रगृह्णातीतिचेदतआह[भा.१७८८] आसन्नेसुंगेण्हइजत्तियमेत्तेण होइपज्जत्तं ।
जावइएयऊणंइयराणीयंतुतंगेण्हे ।। वृ-तस्मिन्नेवपाटके प्रत्यासन्नेषु गृहेषु गृह्णातितावन्मात्रंयावन्मात्रेण पर्याप्त परिपूर्णभवति । अथ तावन्नलभ्यतेतर्हि यावताऊनंतत्तावत् इतराभ्यामानीतं गृह्णाति ।नच त्रयोऽपि परिपूर्णभुजते किं [222]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org