________________
व्यवहार - छेदसूत्रम् - २- ४ /१०२
न विरुद्ध इति कुत्रेत्युक्तम् ।। अथवान्येन प्रकारेण सूत्रसम्बन्धः, तमेवाहपारायणे समत्ते व निग्गतो, अत्थओ भवे जोगो ।
[भा. १७२७]
बहुकायव्वे गच्छे एगेन समं बहिं ठाति ।।
वृ- पारायणं नाम सूत्रार्थतदुभयानां पारगमनं तस्मिन् पारायणे समाप्ते वाशब्दः सम्बन्धस्य प्रकारोपदर्शनार्थः । निर्गत आत्माद्वितीय इति वाक्यशेषः । कस्मान्निर्गत इति चेदत आह - बहुकायव्वे इत्यादि, गच्छःसबालवृद्धाकुलस्ततस्तस्मिन् बहुवैयावृत्त्यं कर्तव्यमतो गच्छे बहुकर्तव्ये तिष्ठतो मा सूत्रार्थतदुभयानां स्मरणे विध्नो भूयादित्येकेन समं गच्छाद्बहिः पृथक् तिष्ठति, यदि पुनरेकाकी स्थातुमिच्छति तदा न कल्पते । एतदर्थप्रतिपादनार्थमादिसूत्रद्विकं तत्प्रसङ्गतः शेषाण्यपि सूत्राणीत्येषोऽर्थतो योगसम्बन्धः । । अनेन सम्बन्धे नायातस्यास्य व्याख्या, न कल्पते आचार्यश्चोपाध्यायश्च समाहारो द्वन्द्वः आचार्योपाध्यायं तस्य आचार्योपाध्यायस्य चेत्यर्थः, एकाकिनो हेमन्तग्रीष्मयोः शीतकाले उष्णकाले वेत्यर्थः, चरितुं विहर्तुं कल्पते आचार्योपाध्यायस्यात्मद्वितीयस्य हेमन्तग्रीष्मयोश्चरितुम् । एवं द्वे सूत्रे गणावच्छेदकस्यभावनीये, नवरमत्राद्यसूत्रे आत्मद्वितीयस्य प्रतिपेधो द्वितीयसूत्रेत्वात्मतृतीयस्यानुज्ञा । एवममीषां चत्वारि सूत्राणि वर्षाविपयाण्यपि वेदितव्यानि, नवरमत्र प्रथमसूत्रे आचार्यस्योपाध्यायस्य चात्मद्वितीयस्य प्रतिषेधो द्वितीयसूत्रेत्वात्मतृतीयस्यानुज्ञा, तृतीयसूत्रे गंणावच्छेदकस्यात्मतृतीयस्य प्रतिषेधश्चतुर्थसूत्रे त्वात्मचतुर्थस्यानुज्ञेति । इहोत्सर्गती द्वयोस्त्रयाणां वा जघन्यतोऽपि विहारो न कल्पते यत इदं जधन्यादिभेदतो विहारपरिमाणम् ।।
[ भा. १७२८]
"
पनगो व सत्तगो वा कालदुवे खलु जहन्नतो गच्छो । बत्तीसईसहस्सो उक्कोसो, सेसओ मज्झो ।।
वृ- कालद्विके ऋतुबद्धे काले वर्षाकाले च जघन्यतः खलु यथाक्रमं गच्छो भवति पञ्चकः सप्तकश्च, पञ्च परिमाणमस्य पञ्चकः, एवं सप्तकः, वाशब्दः समुच्चये, किमुक्तं भवति, ऋतुबद्धे काले पञ्चको वर्षाकाले सप्तकः, कथमिति चेदुच्यते, ऋतुबद्धे काले आचार्य आत्मद्वितीयो, गणावच्छेदकस्त्वात्मतृतीयः एवं पञ्चकः । वर्षाकाले जधन्यतः आचार्यआत्मतृतीयो, गणावच्छेदक आत्मचतुर्थ एवं सप्तक इति, उत्कर्षतः कालद्विकेऽपि द्वात्रिंशत्सहस्त्राणि, तथा च भगवत ऋषभस्वामिनो ज्येष्ठस्य गणधरस्य पुण्डरीकनाम्नो द्वात्रिंशत्सहस्त्रो गच्छोऽभूत, शेषकः शेषपरिमाणो गच्छो मध्यमः । । सम्प्रति जधन्यतः पञ्चकसप्तकाभ्यां हीनतायां प्रायश्चित्तमाह
[ भा. १७२९]
उउ वासे लहु लहुगा एए गीते, अगीते गुरु गुरुगा ।
अकयसुयाण बहूण विलहुओ लहुया वसंताणं ।।
वृ- उउत्ति ऋतुकाले पञ्चकाद् हीनानां गीतार्थानां विहस्तां प्रायश्चित्तं लघुको मासः, वासेत्ति वर्षाकाले सप्तद् हीनानां गीतार्थानां विहरतां चत्वारो लघुमासाः, एते लघु लघुका गीते गीतार्थविषया द्रष्टव्याः, अगीते अगीतार्थविषयाः पुनर्गरु गुरुकाः, किमुक्तं भवति-ऋतुकाले पञ्चकाद हीनानामगीतार्थानां वसतां प्रायश्चित्तं गुरुको मासः, वर्षाकाले सप्तकाद् हीनामगीतार्थानां चत्वारो गुरुका मासाः । अकृतश्रुतानामगृहीतोचितसूत्रार्थतदुभयानां बहूनामपि पञ्चकसप्तकादीनामपि वसतां यथाक्रममृतुकाले प्रायश्चित्तं लघुको मासः । वर्षाकाले चत्वारो लघुकाः । । अत्र चोदक आहएवं सुत्त विरोहो अत्थे वा उभयतो भवे दोसो ।
[ भा. १७३० ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org