________________
उद्देशक : ३, मूलं : ६६, [भा. १४३३]
इदमपि व्याख्यातं बुद्धि चतुष्टयं नीतं प्रापितमात्मनि येन स बुद्धिविनीतः सुखादिदर्शनात्क्लान्तस्य (चतुष्कस्य) पाक्षिकः परिनिपातः । अथवा बुद्धित्ति बुद्धिचतुष्कोपेतो विनीतो गुर्वादिषु विनीतः । दव्वाई जं जत्थ ओजम्मि वि किच्चं तु जस्स वा जंतु । किच्चइ अहीन कालं जियकरणविनीय गच्छ ।।
[ भा. १४३४ ]
४११
वृ- यद्यत्र द्रव्याद्युपयोगि यस्य या यत्र यत् कृत्यं तत्सर्वमहीनकालं जितकरणः करोति कारयति जितकरणो विनीत इति द्वावप्येकार्थौ तत्पर्यं विश्रान्त्या शब्दार्थस्तु परस्परं भिन्नो जितकरणो नाम करणदक्ष उच्यते । विनीत इति विनयकरणशीलः ।।
[भा. १४३५ ]
एवं जुत्तपरिच्छा जुत्तो ये तेहिमेहिउ अजोगो । आहारादि धरतो तितिणिमाईहिं दोसेहिं ||
वृ- एवमेतैरनन्तरोदितैः शूरत्वादिभिगुणैर्युक्ता उचिता या परीक्षा तथा युक्तोऽपि निश्चित एभिर्वक्ष्यमाणदोषैः अयोग्यस्तानेवाह- आहारादि आहारोपधिपूजानिमित्तं गुणंधारयन् तिन्तिणादिभिश्च दोषैरयोग्यः । तिन्तिणी नाम यत्र तत्र वा स्तोकेऽपि कारणे करकरायणं । आदि शब्दाच्चलचित्ततादिपरिग्रहः । एतदेव व्याख्यानयति
[ भा. १४३६ ]
बहुसुते गीयत्थे, धरेइ आहारपूयणठाई । तिंतिणि चल अनवठिय, दुब्बलचरणा अजोगाउ ।।
वृ- बहुकालोचित्तं सूत्रं आचारादिकं यस्य स बहुसूत्रो गीतार्थो विदितसूत्रार्थः । एतेन युक्तः परीक्षायुक्तोऽपीत्येतद्व्याख्यानयति । एवंभूतोऽपि यो गणं धारयति आहारपूयणठाई उत्कृष्टो मे आहारो भविष्यति, पूजनं वा स्वपक्षतः चेत्येवमर्थं आदिशब्दादुपधिरन्यद्वोपकरणमुत्कृष्टं मे भविष्यतीत्येवमर्थ परिग्रहः । सोऽयोग्यस्तथा यो तिंतिणः स्वल्पेऽपि प्रयोजने करकरायमानः चलश्चलचित्तोऽनवस्थितः स्वप्रतिपन्नार्थाऽनिर्वाही दुर्बलश्चरणचारित्रविषये दुर्बलः । एतेऽप्ययोग्याः ।
[भा. १४३७]
एवं परिक्खिवयंमी पत्ते दिज्जति अपत्ते पडिसेहो । दुपरिक्खियपत्ते पुणचारिय हावेति मा मेरा ।।
वृ- एवमनन्तरोदितेषु गुणेषु च यदि परीक्षया निर्वटितो भवति, गुणैरुपेता दोषैश्चविप्रयुक्त इत्यर्थः, तदा स पात्रमिति कृत्वा तस्मिन् परीक्षिते पात्रे गणो दीयते । यस्तु प्रागुक्तैर्दोषैरुपेतो गुणैश्च विप्रमुक्तः सोऽपान्नमिति तस्मिन्नपात्रेगणदानस्य प्रतिषेधः । तस्मै गणो न दातव्य इतिभावः । दुपरिक्खिय इत्यादि । अथ कदाचित्सुदुः परीक्षितः कृतो भवेत् गणश्च तस्मै दत्तः । स च गणः सीदति । तं दृष्ट्वा अन्येऽपि गच्छवर्तिनः केचित् सामाचारी शिथिला भवितुं प्रवृत्तास्ततः परीक्षिते प्राप्ते पात्रे गणे प्रदत्ते सति गणे च सीदति ये तत्र गच्छे अन्य तीव्रधर्मका न सीदन्ति, तैरुपायेन प्रतिबोध्य वारयितव्यः । तत्र यदि वारणानन्तरमावृत्योद्यच्छति ततः समीचीनमथ वारितोऽपि किञ्चित्कालमुद्यम्य पुनः सामचारी हापयति तत इयं मर्यादा कर्तव्या । अयं विधिः प्रयोक्तव्य इत्यर्थः । तमेवाह-
[भा. १४३८]
दिठोवसमोसरणे अहवा थेरा तहिं तु वच्च॑ति ।
परिसाय घट्टमट्टा चंदण खोडि खरंटणाय ।।
वृ-यत्र समवसरणेज्ञायते, आचार्योऽत्रप्रवेक्ष्यति, तत्र गच्छोऽनुलोमवचसा प्रवेशनीयः । प्रवेश्य तत्र गत्वाचार्यस्य कथयति । त्वं सीदन् तिष्ठसि नैव च तद्युक्तं, तस्माद्भवत्यावर्त्तस्व । अथवा कुलानि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International