________________
२४२
व्यवहार - छेदसूत्रम्-१-१/२० द्विरात्रात्रिरात्राद्वा परं यदि वसति, ततस्तस्य प्रायश्चित्तं च्छेदः परिहारो वा; यदि पुनः सूत्रार्थ प्रतिपृच्छादानादिलक्षणं कारणंभवेत्, तर्हि ततः परमपि वसेत्यावत्प्रयोजनपरिसमाप्तिस्तथा चाह[भा.७१०] सुत्तत्थ पाडिपुच्छं, करोतसाहूउतस्समीवंमि ।
आगादभिव जोगे, तेसिंगुरुहोज्जकालगतो ।। वृ-सूत्रार्थप्रतिपृच्छां कुर्वन्तितस्य समीपंसाधवः यदिवाआगाढे योगे व्यवस्थितानांतेषांसाधूनां गुरुरपलक्षणमेतत्, यो वा वाचनाप्रदानेन तेषां निस्तारकोभवति सोऽपि कालगतः ततः स तान सूत्रार्थप्रदानादिना निर्वाहयति । ततो यावत्सूत्रार्थ प्रतिपृच्छा यावच्च तेषामागाढ योगानां परिसमाप्तिस्तावदवतिष्ठते । ततः परं तु नेति । अथ सूत्रे सेंसंतरा च्छेदे वा परिहारे वा इत्युक्तं तत्र परिहाराच्छेदो गरीयान् । प्रथमं च लघु वक्तव्यं, पश्चात् गुरु । ततः सेसंतरापरिहारे वा च्छेदे वा इति वक्तव्ये किमर्थं प्रथमतश्छेदग्रहणं अत आह|भा.७११] बंधानुलोमयाए उक्कमकरणंतुहोतिसुत्तस्स ।
आगादमिय कब्जे दप्पेणवितेभवेच्छेदो ।। वृ-एवं रूपो हि पाठो ललितपदविन्यासतस्तो बन्धानुलोमतया, तथा अगाढे प्रयोजनेसमुपस्थिते यदि कथमपि दर्पण सनगच्छतितस्मिन् दर्पण स्थितेच्छेद एव प्रायश्चित्तं तस्य भवतिनपरिहारतपइति एतदर्थंचसूत्रस्याप्युत्क्रमकरणमिति । तत्रयदिप्रद्विष्टंराजानंनसमूलमुत्पाटयितुमीशःतर्हिस लब्धिकः समस्तंसङ्घनिस्तारयेत् । अथनसमस्तंसङ्घ निस्तारयितुमीष्टेत, ततइमान् पञ्च निस्तारयेत् । तानेवाह[भा.७१२] आयरिए अभिसेए भिक्खुखुढेतहेव थेरेय ।
गहणं तेसिंइणमोसंजोगगमंचवोच्छामि ।। वृ-आचार्योगच्छाधिपतिः, अभिषेकः सूत्रार्थतदुभयोपेतः आचार्यपदस्थापनार्हः, भिक्षुः प्रतीतः, क्षुल्लको बालः, स्थविरो वृद्धः । एतेषां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमन. संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयति[भा.७१३] तरुणो निष्फन्नेपरिवारे लद्धिजुत्तेतहेव अब्भासे ।
अभिसेयंमि यचउरो सेसाणं पंचचेवगमा ।। वृ-यदिशक्तिरस्तिततः पञ्चापिआचार्यादीन्युगपन्निस्तारयेत् । अथनशक्तिस्ततः स्थविरजर्वान् चतुरस्तत्राप्यशक्तौ क्षुल्लकस्थविखर्जान्त्रीन् तत्राप्यसामर्थ्य आचार्यमेकं । सोऽप्येकः स्थविरो यदि वर्तते अपरस्तरुणस्तर्हितोस्थविरतरुणयोर्मध्ये तरुणोनिस्तारणीयः ।द्वयोस्तरुणयोरतरुणयोर्वामध्ये निष्पन्नः सम्यक् सूत्रार्थकुशलः, द्वयोरनिष्पन्नयोर्वा सपरिवारः, द्वयोः सपरिवारयोरपरिवारयोर्वा मध्येलब्धियुक्तः द्वयोर्लब्धियुक्तयोर लब्धियुक्तयोर्वा अभ्यासे समीपे स्थितः । अत्र सम्प्रदायः । द्वयोरभ्यासे स्थितयोर्यो नष्टुमशक्तः स निस्तारणीयः । एते पञ्चगमा आचार्ये भवन्ति, अभिषेकस्तु नियमानिष्पन्न एव भवति । अन्यथा तत्यत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः ततस्तस्मिन्नभिषेके निष्पन्ना निष्पन्नगमाभावात्, शेषास्तु चत्वारो गमास्तद्यथा-स्थविरतरुणगोर्मध्ये तरुणाः, द्वयोस्तरुणयोरतरुणयोर्वा सपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा लब्धियुक्तः द्वयोर्लब्धियुक्तयोरलब्धियुक्तयोर्वाभ्यासे स्थितः; इति शेषाणां भिक्षुक्षुल्लकस्थविराणां पञ्चेव गमा भवन्ति । ते च यथानन्तरमाचार्ये भावितास्तथाभावनीयाः । तथाचैतदेव व्याचिख्यासुर्गार्थाद्वयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org