SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १४ [भा. ४६२ ] १६३ षाण्मासिकं तपः, यदि पुनरकोविदोप्युपेत्य पंचेन्द्रियवातं करोति, दर्पेण वा मैथुनं प्रतिसेवते, तदा तपः छेदो मूलं वा दीयते, विकोविदस्य पन्नां मासानामुपरि बहुष्वपि प्रतिसेवितेषु मासेषु प्रथमवेलायामुद्धातिताः षण्मासादीयंते, द्वितीयवेलायामनुद्घातितास्तृतीयवेलायां छेदो मूलं बा इति, अथ कीदृशी विकोविदः कीदृशो वा अविकोविद इत्यत आह [भा. ४६३] गीतोविकोविदो खलु कयपच्छित्तोसिया अगीतोवि । छमासियपट्टवणाए तस्स सेसाण पक्खेवी ।। बृ- गीती गीतार्थः खलु कृतप्रायश्चित्तो विकोविदः, योप्युक्तो यथा आर्य यदीयं भूयः सेविष्यसे, ततः छेदं मूलं वा दास्यामः, सोपि कोविदः, तद्विपरीतोऽगीतार्थः यश्च प्रथमतया प्रायश्चित्तं प्रतिपद्यते, यश्चोक्तोपि तथा न सम्यक् परिणमयति, स स्याद् भवेदकोविदः, तत्र यदि कोविदः षट्मासेषु तपसा कर्त्तुमारब्धेष्वंतरायदिवा मासादिकं प्रतिसेविते तत् तस्य पूर्वप्रस्थापितपण्मासस्य ये शेषा मासा दिवसा वा तिष्ठति तेषां मध्ये प्रक्षिष्यंते, न पुनः षण्मासपरिपूर्णानंतरं तद्विपयं भिन्नं प्रायश्चित्तं दातव्यमिति तथा चाह पण्मासप्रस्थापनायां षण्मासेषुतसाकर्तुमारब्धेषुइत्यर्थः तस्यमासिकादेरपांतराले प्रतिसेवितस्य षण्मासस्ययेशेषामासा स्तिष्ठंति, तेषांमध्ये अनुग्रह कृत्स्नेननिर नुग्रहकृत्स्नेन वा प्रक्षेपः, आह, एतत् तपः छेदमूलाई प्रायश्चित्तं कुत उत्पद्यते; सूरिराह [भा. ४६४ ] मूलातिचारे चेयं, पच्छितं होइ उत्तरेहिं वा । तम्हा खलु मूलगुणेऽनतिक्कमे उत्तरगुणे वा ।। वृ- एतत्तपः छेदमूलाई प्रायश्चित्तं यस्माद् भवति, मूलातिचारमूलगुणतिचारे प्राणातिपातादि प्रतिसेवने इत्यर्थः, उत्तरैर्वा उत्तरगुणैर्वा पिंडविशुद्धयादिभिरतिचर्यमाणैर्भवति प्रायश्चित्तं, तस्मात् मूलगुणात् प्राणातिपातादिसेवनया उत्तरगुणाद्वा उद्गमादिदोषासेवनया नातिक्रमेत्, अत्र पर आहमूलव्वयाइयारा जयाऽसुद्धाचरणभंगा होति । उत्तरगुणातियारा, जिनसासने किं पडिकुट्ठा ।। [भा. ४६५ ] वृ- यदि मूलगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवंति, ततः साधूनामुत्तरगुणातिचाराश्चरणस्याभ्रंशकाः प्राप्ता मूलगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात् ततः किमुत्तरगुणा जिनशासने प्रतिक्रुष्टाः न युक्तस्तेषां प्रतिषेधो दोषाकारित्वादितिभावः । [ भा. ४६६ ] उत्तरगुणातियारा जयसुद्धा चरणभसया होति, मुलब्वयातियारा, जिनसासने किं पडिकुड्डा ।। वृ- यदि उत्तरगुणातिचारा अशुद्धा इति कृत्या चरणभ्रंशका भवंति, ततः मूलव्रतातिचारांञ्चरणभ्रंशकान् प्राप्नुवंति, उत्तरगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात् तथाच सति मूलव्रतातिचाराः किं जिनशासने प्रतिक्रुष्टाः दोषाभावात् अत्र सूरिराह [भा. ४६७ ] = Jain Education International मूलगुणउत्तरगुणा जम्हा भंसंति चरणसेढितो । तम्हा जिनेहिं दोनिवि, पडिकुड्डा सव्वसाहूणं ।। वृ- यस्मात् मूलगुणा उत्तरगुणा वा पृथक् पृथक् युगपद् वा अतिचर्यमाणाश्चरणश्रेणीसंथमश्रेणीतो भंशयति साधून ततो जिनैः सर्वज्ञैर्द्वयोरषि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रतिक्रुष्टाः अन्यच्च मूलगुणेष्वतिचर्यमाणेषु मूलगुणास्तावद्धता एव किंतूत्तगुणा अपि हन्यंते, उत्तरगुणेष्वतिचर्यमाणेषूत्तर For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy