________________
उद्देशक : १, मूलं : १४, [भा. ४०४]
१४५ ततस्तदनंतरमवधिज्ञानेन जिना अवधिज्ञानजिनाः, जिनशब्दो विशुद्धावधिप्रदर्शकः, विशुद्धावधिज्ञाना इत्यर्थः । । ततश्चतुर्दशपूर्विणी, दशपूर्विणी नवपूर्विणश्चइहासतां नवपूर्विणः, न परिपूर्णनवपूर्वधराः, किंतु नवमस्य पूर्वस्य यत् तृतीयमाचारनामकं वस्तु तावन्मात्रधारिणोपि नवपूर्विणः, तथा कल्पधराः कल्पव्यवहारधारिणः प्रकल्पो निशीथाध्ययनं तद्धारिणः च शब्दोऽनुक्तसमुच्चयार्थः, तदेवानुक्तं चशब्देन सूचितंदर्शयति - [भा.४०५] घेप्पंति चसद्देणं, निजुत्तीसुत्तपेढियधराय ।
आणाधारण जीएहोति पहणो उपच्छित्ते ।। वृ- चशब्देन गृह्यते नियुक्तिसूत्रपीठिकाधराः, तत्र नियुक्तिर्या भद्रबाहुस्वामिकृता, सूत्रपीठिका निशीथकल्पव्यवहारप्रथमपीठिका गाथारूपाः तथा आज्ञायां धारणे जीते च ये व्यवहारिण
आज्ञाव्यवहारिणो धारणाव्यवहारिणो जीतव्यवहारिणश्च एते प्रायश्चित्तदाने प्रभवः, तदेवं गतं प्रभुद्वारमिदानीं कियंति सिद्धानि प्रायश्चित्तस्थानानीति द्वारावसरः, तत्र शिष्यः पृच्छति कियंति खलु प्रायश्चित्तानि? आचार्य आह, | अर्थत अपरिमितानि, सूत्रतः पुनरिदंपरिमाणं ।। [भा.४०६) आनुग्घाझ्यमासाणंदाचेव सवा हवंतिबावन्ना ।
तिन्निसया बत्तीसा होतिअउग्घाइयाणंपि ।। भा.४०७] पंचसया चुलसीया सव्वेसिं मासियाण बोधव्वा ।
तन परं बोच्छामी चाउमासाणसंखेवं ।। वृ- अनुद्घातिता नाम गुरवः, उद्घातिता लघवः, निशीथनाम्नि अध्ययने प्रथमोद्देशके अनुद्घातितागुरवो मासा अभिहितास्तेषामेकत्रसंक्षिप्ता नाम द्वेशतेद्वापंचाशद्विपंचाशदधिकंभवतः, द्वितीयतृतीयचतुर्थपंचमोद्दशकेषुउद्घातितामासा उक्तास्तेषामुद्घातितानांमासानामेकत्रसंक्षिप्तानां त्रीणिशतानिद्वात्रिंशानि भवंति, एतेषां सर्वेषामप्युद्घातितमासानामनुयातितमासानां चैकत्रमीलने मासानां प्रायश्चित्तानां बांधव्यानि पंचशतानिचतुरशीतानि । तेन परमित्यादिअतः परं चातुर्मासिकानां संक्षेपं वक्ष्ये, प्रतिज्ञातमेव निहियति । भा.४०८] छच्चसया चोयाला चाउमासाण होति अनुग्घाया ।
सत्तसया चउवीसाचाउमासाण उम्घाया ।। [भा.४०९]
तेरसय अट्टापट्टा, चाउमासाण होतिसव्वेसिं ।
तेन परंवांच्छामी सव्वसमासेणसंखेवं ।। वृ- षष्ठसप्ताष्टमनवमदशमैकादशोद्देशकेषु अनुयातितानि चातुर्मासिकान्युक्तानि, एतेषामेकत्र संक्षिप्तानां भवंति षट्शतानिचतुश्चत्वारिंशानि ।। गाथायां होति अनुग्धाया इत्यत्र पठ्यर्थे प्रथमा प्राकृतत्वात् एवमुत्तरार्धपि द्वादशत्रयोदशचसुर्दशपंचदशषोडशसप्तदशाष्टादशैकोनविंशतिमेष्वष्टसूद्देशकेषुउद्घातिता चतुर्मासिका उक्तास्तेषामेकत्रसंक्षिप्तानांसप्तशतानि चतुर्विशानि ।।उद्घातितानामनुयातितानां सर्वेषां चतुर्मासानामेकत्रमीलितानां भवंति त्रयोदशशतानि अष्टषष्ठानि ।। तेन परमित्यादिततः परं सर्वेषांमासिकानांचातुर्मासिकानांचयः समासामीलनंतेनसंक्षेपंसर्वसंख्या संग्रह वक्ष्ये, प्रतिज्ञातमेव निवार्हयति ।। 21[10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org