________________
उद्देशकः-१०, मूलं-२८५, [ भा. ४६८८ ] प्रधानमैहिकामुप्मिकफलप्राप्तिकारणमिति स्थितं, इति जोउवदेस सो नयो नाम इति, एवमुक्तेन प्रकारेण य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । उक्तो ज्ञाननयः । सम्प्रति क्रियानयावसरः । तदर्शनं चेदं क्रिकैव ऐहिकामुष्मिकफलप्राप्तिकारणं प्रधानं युक्तियुक्तत्वात्। तथा चायमप्युक्तस्वरूपामेव स्वपक्षसिद्धये गायामाह-नायम्मिगिहियब्वे इत्यादि अस्याः क्रियानयदर्शनानुसारेण व्याख्या जति गृहीतव्ये चार्थे ऐहिकाष्पिकफलप्राप्ति कारणं अर्थिना यतितव्यमेव यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण न ज्ञानवतोऽपि अभिलषितार्थावाप्तिरुपजायते। तथा चोक्तमन्यैरपि
क्रिचैव फलदा पुंसां न ज्ञानं फलदं मतम्।
यतःस्त्री भक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ।। तथा आमुष्मिकफलार्थिनापि क्रियैव कर्तव्या। तथा च भगवद्वचनमप्येवमेव व्यवस्थितं ।
चेइय कुलगणसंघे आयरियाण च पवयणसुए य ।
सव्वेसुवि तेन कयं तवसंजममुज्जमंतेन। इतश्चेदमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्।
सुबहुपी सुयमहियं किं काहीचरणविप्पहीनस्स।
अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ।। दृशि क्रिया विकलत्वात्तस्येत्यभिप्राय: । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं चारित्रंक्रियेत्यनान्तरत्वात्। क्षायिकमङ्गीकृत्यविशिष्टफलसाधकत्वंतस्यैव यस्मादहतो भगवतः समुत्पन्नकेवलज्ञानस्यापि तात्मुक्त्यवाप्ति: संभवति यावदखिलकर्मेन्धनानल भूता हस्वपञ्चाक्षरोद्रणकालमात्रा सर्वसंवररूपा चारित्रक्रिया नावाप्येत ततः क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति । इति जो उपदेसो सो नयो नाम इति एवमुक्तेन प्रकारेण यः उपदेशः क्रियाप्राधान्यख्यापनपर: स नयो नाम क्रियानयः इत्यर्थः । उक्तः क्रियानयः । इत्थं ज्ञाननयक्रियानयस्वरूपं श्रुत्वा विदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्वं पक्षद्वयेऽपि युक्तिसंभवात्। आचार्य सहभा.[४६८९] सव्वेसि पि नयानं बहुविहवत्तव्वयं निसामित्ता।
तं सव्वनयविसुद्धं जंचरणगुणठितो साहू॥ वृ.सर्वेषामपि मूलनयानामपिशब्दात्तद्देदानामपि नायानां द्रव्यास्तिकादीनां बहुविधवक्तव्यां सामान्यमेव विशेष एव उभयमेव परस्परनिरपेक्ष्यमित्यादिरूपाथवा नामादिनयानां मध्ये को नयः कं साधुमिच्छतीत्यादि रूपां निशम्य श्रुत्वा तत्सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितश्चारित्रज्ञानस्थितः साधुर्यस्मात्सर्वे नया भावतो भावनिक्षेपमिच्छन्ति । तदेवं नयवक्तव्यतापिकृता भाष्यस्तुतिरायणमिदं गम्यकर्तृकत्वं गाथाद्वयम् -
कप्पववहाराणं भासं मुत्तूणं वित्थरंसव्वं । पुव्वायरिएहिं कयं सीसाणहिओवएसत्थं ।। भवसयसहस्समहणं एवंतो यति जे उ काहिति। कम्मरसयविप्पमुक्का मुक्खमविग्घेण गच्छंति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org