________________
उद्देशकः-१०, मूलं-२५५, [ भा. ४५६९]
मू. ( २५५) चत्तारि पुरिसज्जाया पन्नत्ता तं जहा-गणसोहकरे नाम एगे नो मानकरे एगे मानकरे नो गणसोहकरे, एगे गणसोहकरे विमानकरेवि, एगेनो गणसोहकरे नो मानकरे।। भा.[४५७०] एवं गणसोहंमि वि चउरो पुरिसा हवंति नायव्या।
सो भावेत्ति गणं खलु इमेहिं ते कारणेहिं तु ।। द. एवमुक्तेन प्रकारेण शोभायामपि कर्तव्यायां चत्वारः पुरुषा भवन्ति ज्ञातव्याः। तच्च सूत्रपाठसिद्धा एव । गणशोभाकरो नाम यो गणं शोभयति ते च गणं शोभापयन्ति शोभा खलु एभिर्वक्ष्यमान: कारणैः प्रयोननैर्वादादिभिस्तानेव वाद्यादीन् दर्शयतिभा.[४५७१] गणसोभी खलु वादी उद्देसे सो उ पढमए भणितो।
धम्मकहि निमित्ती वा विज्जातिसएण वा जुत्तो॥ व.गणं वादप्रदानतः शोभीयतीत्येवं शीलो: गणशोभी खल वादी। सच वादेन यथा गणं शोभयति तथा प्रथमे उद्देशके भणितः न केवलं वादी गणशोभी किन्तु धर्मकथी । तथाहिधर्मकथायां यथोक्तं स्वरूपमाक्षेपतः कथयतो जनयपि गणस्य महती शोभा तथा निमित्ती अतीतादिनिमित्त कथयतो विद्यातिशयेन वा युक्तो गुणशोभी महतोऽपि सङ्घप्रयोजनस्य विद्याप्रभावतः साधनात् ।।
मू.( २५६)चत्तारिपुरिसज्जाया पन्नत्ता। तं जहा-गणसोही करे नामंएगे नो मानकरे एगे मानकरे, नो गणसोहीकरे। एगे गणसोहिकरेवि मानकरेवि, एगे नो गणसोहि नो मानकरे।। भा.[४५७२] एयं गणसोहीकरा चउरो पुरिसा हवंति विनेया।
किह पुण गणस्स सोहि करेज्ज सो कारणेमेहिं ।। वृ. एवमुक्तेन प्रकारेण गणशोधिकाराश्चत्वारः पुरुषा भवन्ति विज्ञेयाः। कथं पुनः स प्रथमस्तृतीयो वा गणस्य शोधि कुर्यात्। सूरिराह-एभिर्वक्ष्यमानैः कारणैरोजस्वित्वादिभिस्तान्येवाहभा.[४५७३] एगदव्वेगघरएगालोअणाए सकाउ।
उयस्सि सम्मओ संथुओ य तं दुप्पवेसंच।। वृ.एकस्मिन् गृहेऽनेकैः संघाटकैः एक द्रव्यं लब्धं । तद्यथा एकेन संघाटकेन एकस्मिन् गृहे पूपलिका लब्धा । अन्येनापि संघाटकेन तस्मिन्नेव गृहे तादृश्य एव पूपलिका लब्धाः । एवं तृतीयेन चतुर्थेन पञ्चमेन वा लब्धाः । तैः सन्निवृत्तैर्गुरुसमीपमागत्यालोचितं दर्शिताश्च पूपूलिकास्ततो जाता सर्वेषां शङ्का जाता उद्गमाऽशुद्धा भवेयुः एवं शङ्किते गत्वा तद्गृहं द्रष्टव्यम्। किं युष्माकं गृहेऽद्य संखडिभत्तलाभनकं समागतमथवा प्राघूर्णकाः समागता यदि वा साधूनामर्थाय कृतः क्रीता वा । तेऽन्न च गृहे भिक्षावेलायां न कोऽपि प्रवेशं लभते । तत्र साधुरेक ओजस्वी गृहमानुषाणां संस्तुतः । संस्तुततया च तस्मिन् गृहे संमतो अनिवारितप्रसरस्तत् दुःप्रवेश गृहं प्रविशति । प्रविश्य च नि:शंकितं करोति। अत्र योऽप्रेषितो गत्वा निःशङ्की(क)त्य समागच्छति स प्रथमपुरुषजात: यस्तु मानेन गच्छति ।।
मू.(२५७)चत्तारिपुरिसज्जाया तंजहा-रूवं नामेगे जहइ नो धम्म, धम्मनामेगे जहइ नो रूवंएगे रूवपि जहइ धम्मपि जहइ, एगे नो रूवं जहइ नो धम्मं जहइ ।।
वृ.अस्य सम्बन्धमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org