________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४५१४] भा. [४५१४] सो तंपि चेव दव्वे खेते काले य कारणे पुरिसे।
तारिसयं चिय भुया, कुव्वं आराहगो होइ॥ वृ. अथवेति प्रकारान्तरे येनान्यदा परस्य शोधिः क्रियमाणा दृष्टा स तत् सर्वं स्मरति । यथा एवं भूतेषु द्रव्यादिष्वेवं भूते कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति पुनरन्यदास्य पुरुषस्योपलक्षणमेतदन्यस्य वा तादृशमेव पुन: कारणं समुत्पन्नं ततो यदि तस्मिन्नेव तादृश एवेत्यर्थः । द्रव्ये क्षेत्रे काले चशब्दाद्भावे च तादृश एव कारणे तस्मिन्नेव तादृशे वा पुरुषे तादृशः कुर्वन् रागेण वा दोषेण वा अन्यथा प्रायश्चित्तं ददानो वर्तते। तदा स न हु नैवं आराधको भवति । अथ स तस्मित्रैव द्रव्ये क्षेत्रै काले भावे च कारणे पुरुषे च तादृशं करोति, स तदा आराधको भवति, धारणा व्यवहारस्यैव पुनरन्यथा प्रकारमाहभा.[४५१५) वेयावच्चकरो वा सीसो वा देसहिंडगो वावि।
दुम्मेहत्ता न तरइ आराहेउ बहुं जो उ॥ भा.[४५१६] तस्स उ उद्धरिऊण अत्थपयाई देंति आयरियो।
जेहिं उ करेइ कज्जं आहारेन्तो उ सो देसं ।। वृ. यथाचार्याणां वैयावृत्यकारो यो वा संमतः शिष्यो यस्तु वा देशहिण्डको देशदर्शनं कृर्वतः सहाय आसीत्। स समस्तच्छेदश्रुतार्थं दुर्मेधस्त्वान्नावधारयितु शक्नोति, ततस्तस्योधत्यानुगृहात् कानिचिदर्थपदान्याचार्या ददति यः स च्छेदश्रुतस्य देशमवधारयन् कार्यं करोति, एष धारणाव्यवहारः । उपसंहारमाहभा. [४५१७] धारणाववहारो सो जहक्कम वनितो समासेन ।
जीएणं ववहारं सुण वच्छ जहक्कम वुच्छं ।। वृ. एष धारणाव्यवहारो यथाक्रमं समासेन वर्णितः साम्प्रतं जीतेन व्यवहारं यथाक्रम वक्ष्ये, तं वत्स वक्ष्यमाणं शृणु। तथा चाहभा.[४५१८] वत्तनुवत्तपवत्तो बहुसो अनुवत्तिउ महाजनेनं ।
एसो य जीयकप्पो पंचमओ होइ ववहारो॥ वृ.यो व्यवहारो वृत्त एकवारंप्रवृत्तो भूयः प्रवृत्तो वारद्धयं प्रवृत्त इति भावः तथा बहुशोऽनेकवारं प्रवृत्तः महाजनेन चानुर्तिते एष पञ्चमको जीतकल्पो व्यवहारो भवति ।
वृत्तादिपदानां व्याख्यानमाहभा.[४५१९] वत्तोनाम एक्कसि अनुवत्तो जो पुणो बितिय वारं,
तइयवारं पवत्तो परिग्गहितो महाजणेण ।। वृ. एक्कसिमेकवारं यः प्रवृत्तः स प्रवृत्तो नाम, यः पुनर्द्वितीयवारं प्रवृत्तः सोऽनुवृत्तः तृतीयवारं वृत्तः प्रवृत्तोऽनुवृत्तः प्रवृत्तोऽनुवतितो स परिगृहीतो महाजनेनात्र परस्य प्रश्नमाहभा.४५२०] चोदेती वोच्छिन्नो सिद्धपहे तइयगम्मि पुरिसजुगे।
वोच्छिो तिविहे संजमंमि जीएण ववहारो॥ वृ. परश्चोदयति कि तृतीये पुरुषयुगे जम्बूस्वामिनाम्नि सिद्धिपथे व्यवच्छिन्ने च त्रिविधे संयमे परिहारविशुद्धप्रभृतिके जीतेन व्यवहारः । अत्र केचिदुत्तरमाहु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org