SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ ४०६ बृहत्कल्प-छेदसूत्रम् -२-३/८८ [भा. ३९७९] उन्नियं उट्टियं चेव, कंबलं पायपुंछणं । रयणीपमामित्तं, कुज्जा पोरपरिग्गहं ॥ वृ- 'और्णिकम्' ऊर्णामयं 'औष्ट्रिकं वा' उष्ट्ररोममयं यत् कम्बलं तत् 'पादप्रोञ्छनं' रजोहरणं कर्तव्यम् | 'रनिप्रमाणमात्रं ' हस्तप्रमाणायामदण्डकं 'पर्वपरिग्रहम्' अङ्गुष्ठपर्वलग्नप्रदेशिनीशुषिरपूरकम् एवंविधं रजोहरणं कुर्यात् । औपग्रहिकोपधिविशेषभूतानां संस्तारकादीनांप्रमाणमाह[ भा. ३९८० ] संथारुत्तरपट्टा, अड्डाइज्जा उ आयया हत्थे । तेसिं विक्खंभो पुन, हत्यं चतुरंगुलं चैव ॥ वृ- संस्तारकोत्तरपट्टकावर्धतृतीयान् हस्तान् 'आयती' दीर्धी भवतः, तयोः 'विष्कम्मः' विस्तारः पुनरेकं हस्तं चतुरङ्गुलं च भवति, चतुर्भिरङ्गुलैरधिको हस्त इत्यर्थः ॥ . दुगुणो चतुग्गुणो वा, हत्थो चतुरंसो चोलपट्टो उ । एगगुणा उ निसेज्जा, हत्थपमाणा सपच्छाया ॥ [ भा. ३९८१] वृ- द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्त्र भवति तथा चोलपट्टकः कर्त्तव्यः । तत्र द्विगुणः स्थविराणाम्, चतुर्गुणस्तरुणानाम् । तथा रजोहरणपट्टस्यौर्णिकी निषद्या 'एकगुणा' गुणनया एकत्वसङ्ख्यायुक्ता प्रमाणेन च हस्तप्रमाणा 'सप्रच्छादका' तावत्प्रमाणयैव सौत्रिकया प्रच्छादकनिषद्यया सहिता भवति ॥ मुखवस्त्रिकाप्रमाणमाह [भा. ३९८२ ] चउरंगुलं विहत्थी, एवं मुहणंतगस्स उ पमाणं । बितियं पिय प्पमाणं, मुहप्पमाणेण कायव्वं ॥ वृ- 'चतुरङ्गुलं' चत्वार्यङ्गुलानि वितस्तिश्चैका एतद् 'मुखानन्तकस्य' मुखवस्त्रकायाः प्रमाणम्। द्वितीयमप्यत्र प्रमाणं भवति, किम् ? इत्याह- मुखप्रमाणेन मुखानन्तकं कर्त्तव्यम् । किमुक्तं भवति ? - वसतिं प्रमार्जयन् रजःप्रवेशरक्षणार्थं कोणद्वये गृहीत्वा नासिकां मुखं च प्रच्छाद्य कृकाटिकायां यावता ग्रन्थिं दातुं शक्रोति तावव्यमाणा मुखवस्त्रका कर्त्तव्या ॥ [भा. ३९८३] गोच्छक पडिलेहणिया, पायट्टवणं च होइ तह चेव । तिण्हं पिय प्पमाणं, विहत्थि चउरंगुलं चेव ॥ वृ- गोच्छक: पात्रप्रत्युपेक्षणिका पात्रकस्थापनं च तथैवात्र प्रमाणतो निरुपणीयं भवति । कथम् ? इत्याह- 'त्रयाणामपि' गोच्छकादीनां प्रमाणं वितस्तिश्चतुरङ्गुलं च भवति, षोडशाङ्गुलप्रमाणानि चतुरस्त्राणि त्रीण्यपि भवन्तीति भावः ॥ तदेवमुक्तं पात्र मात्रकवर्जितानां शेषोपकरणानां प्रमाणम्, पात्र मात्रकयोस्तु वस्त्रधिकारादत्र न क्रियते, पुरस्ताद् विद्यास्यते । इह स्थविरकल्पिकानां त्रयः प्रच्छादका भवन्तीति पूर्वमुक्तं तदिदानीं द्रढयन्नाह [भा. ३९८४] जो वि तिवत्थ दुवत्थो, एगेन अचेलगो व संथरइ । न हु ते खिंसंति परं, सव्वेण वि तिन्नि घेत्तव्वा ॥ वृ-योऽपि साधुः त्रिवस्त्र द्विवस्त्र वा संस्तरति, त्रिभिर्द्वाभ्यां वा कल्पैरित्यर्थः, स त्रीन् द्वौ वा कल्पान् परिभुङ्कताम्, योऽप्येकेन कल्पेन संस्तरति स एकमेव परिभुताम्, यो वा जिनकल्पिकादिरचेलकः संस्तरति स एकमपि कल्पं मा गृह्णातु, परं 'नहि' नैव 'ते' स्वल्पतरवस्त्र अचेलका वा 'परम्' अन्यमधिकतरवस्त्र खिंसन्ति । कृतः ? इति चेद् उच्यते सर्वेणापि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy