________________
४००
बृहत्कल्प-छेदसूत्रम् २-३/८८ भावः ।। अथ सूरि प्रथमं परोक्तमाद्यप्रकारं दूषयत्राह[भा.३९५४] भन्नइ दुहतो छिन्ने, उभतो दसियाई किन्न जायंति।
कुप्पासए करेंति व, अदसाणि व किं न भुंजंति ॥ वृ-भण्यते अत्रोत्तरम्-त्वदुक्तनीत्या द्विधा छिन्ने वस्त्र किमुत्कीर्यमाणा उभयतो दशिका न जायन्ते य जायन्त एव । अथवा तेनोभयतश्छिन्नेन वाससा ते स्तेनाः 'कूपसिकान्' कञ्चकान् कुर्वन्ति । अथवा ते किमदशाकानि वस्त्रणि न भुञ्जते ? येनैवमुच्यते-उभयतश्छेत्तव्यमिति ॥ अथ द्वितीयं प्रकारमङ्गीकृत्य परिहरनाह[भा.३९५५] उद्धप्फालाणि करेंति अणिहुआ दुब्बलं च तं होति।
कजंतंच न पुस्सति, असिब्ब-सिव्वंतदोसा य ।। वृ-इह 'अनिभृता नाम' त्रिदण्डिनः, त एव प्रय ऊर्द्धवफालानि वस्त्रणि वसितुं प्रावरीतुं वा कुर्वन्ति नान्ये । तथा 'तद्' ऊर्ध्वफालितं वस्त्र दुर्बलं भवति । दुर्बलत्वादेव च 'तद्' विवक्षितं 'कार्य' प्रावरणादिकं 'नपुष्यति' न पूरयति, परिभुज्यमानमचिरादेवस्फटतीति भावः । स्फटितं च यदि नसीव्यतेततो बहुतरं स्फटति, ततश्च वस्त्रमावे येतृणग्रहणादयो दोषास्तान्प्राप्नुवन्ति। अथ सीव्यते ततः सूत्रा-ऽर्थपरिमन्थादयो दोषाः ।। अपि च[मा.३९५६] छिन्नम्मि माउगते, अलक्खणं मज्झफालियं चेव ।
गुणबुद्धा जंगहियं, न करेति गुणं अलं तेनं ॥ वृ- 'मातृकान्ते' उभयपार्श्वरूपे छिन्ने सति वस्त्रमलक्षणं भवति । मध्यस्फाटितमपि तदलक्षणमेवोपजायते । अलक्षणे च वस्त्र प्रत्युत ज्ञानादीनामुपधातो भवति, न पुनः कोऽपि गुणः । अतो गुणबुध्या यद् वस्त्र गृहीतं सत् तमेव गुणं न करोति अलं तेन' वस्त्रेण, न तद् ग्रहीतुमुचितमिति भावः ।।अथ भूयोऽपि परः प्रेरयति[भा.३९५७] किं लक्खणेण अम्हं, सव्वणियत्ताण पावविरयाणं ।
लक्खणमिच्छंति गिही, धण-धने-कोसपरिवुष्टी ।। दृ-अस्माकं सर्वस्माद्-धन-धान्यादिपरिग्रहाद निवृत्तानांपापात्-प्राणातिपातादेर्विरतानां किं वस्त्रदिलक्षणेनान्वेषितेन ? न किञ्चिदित्यर्थः । येतु गृहिणः सारम्भाः सपरिग्रहास्ते धन-धान्यकोशपरिवृद्धिनिमित्तं लक्षणमिच्छन्ति, अस्माकं तु धन-धान्यायभावान किमपि वृद्धिं प्रापणीयमस्तीति परस्याभिप्रायः ॥ सूरिराह[भा.३९५८] लक्खणहीनो उवही, उवहणती नाण-दंसण-चरित्ते।
तम्हा लक्खणजुत्तो, गच्छ दमएम दिद्रुतो॥ वृ-लक्षणैः-प्रशस्तवर्ण-संस्थानादिमिहीन उपधि साधूनां ज्ञान-दर्शन-चारित्राण्युपहन्ति, तस्माद् लक्षणयुक्तोऽसौ धारयितव्यः । तेन हि धार्यमाणेन गच्छे महती ज्ञानादिस्फातिरुपजायते।तथा चात्र द्रमकेण दृष्टान्तः क्रियते ॥ तमेवाह[भा.३९५९] थाइणि वलवा वरिसं, दमओ पालेति तस्स भाएणं।
चेडीघडण निकायण, उविट्ठ दुम चम्म भेसणया ।। [भा.३९६०] दुण्ह वि तेसिं गहणं, अलं मि अस्सेहि अस्सिगं भणइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org