________________
बृहत्कल्प-छेदसूत्रम् -१
चेद् अत आह- उत्सर्गाद् अध्वा ऽवमौदर्यादिषु विनिपतितं' प्रच्युतं ज्ञानादिसालम्बमपवादो धारयति ॥
८४
ननु स उत्सर्गादपवादं गतः सन् कथं न भग्नव्रतो भवति ? उच्यते[भा. ३२०] धावंतो उव्वाओ, मग्गन्नू किं न गच्छइ कमेणं ।
किं वा मउई किरिया, न कीरये असहुओ तिक्खं ।।
वृ- सर्वोऽप्यस्माकं प्रयासो मोक्षसाधननिमित्तम्, स च मोक्षं तथा साधयति नेतरथा । दृष्टान्तोऽयम्-यथा कोऽपि पाटलिपुत्रं गच्छन् धावन् 'उद्वातः' श्रान्तो भवति तदा किं न 'क्रमेण' स्वभावगत्य मार्गज्ञः सन् गच्छति ? गच्छत्येवेति भावः, केवलं चिरेण तत् पाटलिपुत्रमवाप्नोति, यदि पुनः श्रान्तोऽपि धावति तदा अपान्तराल एव नियते; एवमत्राप्यध्वादौ ताशे कार्येऽपवादमप्रतिपद्यमानो विनश्यति । किं वा रोगिणस्तीक्ष्णां क्रियामसहमानस्य मृद्वी क्रिया न क्रियते ? क्रियत एवेत्यर्थः । यथैतद् एवमत्राप्युत्सर्गात् परिभ्रष्टस्यापवादगमनम् ॥
ननु किमुत्सर्गादपवादप्रसिद्धि ? उतापवादादुत्सर्गस्य ? तत आह
[ भा. ३२१] उन्नयमविक्ख निन्नस्स पसिद्धी उन्नयस्स निन्नाओ । इय अनुन्नपसिद्धा, उस्सग्गऽववायमो तुल्ला ||
वृ- यथोन्नतमपेक्ष्य निम्नस्य प्रसिद्धि निम्नानोन्नतस्य प्रसिद्धि 'इति' एवम् 'अन्योऽन्यप्रसिद्धौ' उत्सर्गादपवादो ऽपवादादुत्सर्ग प्रसिद्ध इति द्वावप्युत्सर्गा ऽपवादौ तुल्यौ ॥ तदेवमुत्सर्गापवादद्वारमुक्तम् ॥ इदानीमत्पद्वारमुच्यते । शिष्यः पृच्छति-भगवन् ! किमुत्सर्गा अल्पे ? उतापवादाः ? उच्यते- तुल्याः । यत आह
[भा. ३२२] जावइया उस्सग्गा, तावइया चेव हुंति अववाया । जावइया अववाया, उस्सग्गा तत्तिया चेव ॥
वृ- यावन्त उत्सर्गास्तावन्तोऽपवादाः, यावन्तोऽपवादास्तावन्त उत्सर्गा । कथम् ? इति चेद् उच्यते-सर्वस्यापि प्रतिषेधस्यानुज्ञाभवाद् द्वयेऽपि तुल्याः ॥ सम्प्रति "सेय-बलवंते" इति द्वारद्वयं व्याचिख्यासुराह
[भा. ३२३] सङ्घाणे सट्टाणे, सेया बलिणो य हुंति खलु एए। सट्टा - परट्ठाणा, यहुंति वत्थूतो निष्पन्ना ॥
वृ- शिष्यः पृच्छति किमुत्सर्ग श्रेयान् बलवाँश्च ? उतापवादः ? | सूरिराह- 'एते खलु' उत्सर्गा अपवादाश्च स्वस्थाने स्वस्थाने श्रेयांसो बलिनश्च भवन्ति, परस्थाने परस्थानेऽ श्रेयांसो दुर्बलाश्च । अथ किं स्वस्थानम् ? किं वा परस्थानम् ? अत आह-स्वस्थान- परस्थाने वस्तुतो निष्पन्ने || अथ वस्त्वेव न जानामि, किं तद् वस्तु ? इति उच्यते -पुरुषो वस्तु । तथा चाहसंधरओ सहाणं, उस्सग्गो असहुणो परट्ठाणं ।
[भा. ३२४]
इय सट्टा परं वा न होइ वत्थू विना किंचि ॥
वृ- 'संस्तरतः ' निस्तरत उत्सर्ग स्वस्थानम् अपवादः परस्थानम्, ‘असहस्य' असमर्थस्ययः संस्तरीतुंन शक्नोति तस्यापवादः स्वस्थानमुत्सर्गपरस्थानमिति । एवममुना प्रकारेण पुरुषलक्षणं वस्तु विना न किञ्चत् स्वस्थानं परस्थानं वा, किन्तु पुरुषो वस्तु संस्तरति न वेति अतः पुरुषात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org