________________
उद्देशक : २, मूलं-६३, [भा. ३५७९]
बहिर्वर्तन्ते ततस्तद्विषयं ग्रहणविधिमहं वक्ष्यामि || प्रतिज्ञातमेव निर्वाहयति[भा.३५८०] निजंतं मोत्तूणं, वारग भति दिवसए भवे गहणं ।
छिन्नं भतीय कप्पति, असती य धरम्मि सो चेव ॥ वृ-गोकुला दुग्धादिपञ्चकं शय्यातरगृहे यद् नीयते स शय्यातरपिण्डो भवति, अतस्तद् दुग्धादिकं नीयमानं मुक्त्वा यदन्यत् तत्रैव गोकुले परिभुज्यते तन्न भवति शय्यातरपिण्डः, परं तदपि भद्रक-प्रान्तदोषपरिहारार्थन गृह्यते । यस्मिन् पुनर्दिवसे 'भृतकस्य गोपालस्य वारकस्तस्मिन् दुग्धादिकं शय्यातरपिण्डो न भवति,परं शय्यातरस्यापश्यतो ग्रहणं भवेद् न पश्यतः । तथा भृतिनाम-गोपालकस्य दुग्धचतुर्थभागादि परिभाषिता दिवसदैवसिकी वृत्ति तया 'छिन्नं विभक्तं यद् दुग्धादिकं तद् गोपालसत्कमिति कृत्वा कल्पते ग्रहीतुं यदि शय्यातरो न पश्यति । तथा यदि साधूनां शय्यां समर्प्य शय्यातरः सपुत्र-दारो व्रजिकायां गच्छेत् ततो गृहे।विद्यमानोऽपि स एव शय्यातरो भवति ॥ अथास्या एव विषमपदानि विवृणोति[भा.३५८१] बाहिरखेत्ते छिन्ने, वारगदिवसे भतीय छिन्ने य ।
सो उन सागरिपिंडो, वज्जो पुन दिदि भद्दादि ।। वृ-सक्रोशयोजनक्षेत्रस्य बहिर्यश्छिन्नो विभागः शय्यातरगृहे न नीयते, गोपालकवारकदिवसे वा यः सर्वोऽपि दोहो गोपसत्कः, प्रतिदिवसलभ्यो वा भृत्या छिन्नो यो दुग्धचतुर्थभागादिरूपो विभागः स एष सर्वोऽपि सागारिकपिण्डो न भवति, परं 'भद्रक-प्रान्तकृता दोषा दृष्टे सति मा भूवन्' इति कृत्वा शय्यातरस्य पश्यतः सोऽपि वर्जनीयः॥अथ यदुक्तं सूत्रे-“एगंतत्य कप्पागं ठवइत्ता अवसेसे निव्विसिज्जा" तदेतद् विभावयिषुराह[भा.३५८२] एगंठवे निब्बिसए, दोसा पुन मद्दए य पंते य।
निस्साए वा छुभणं, विनास गरहं व पावंति॥ वृ-यद्यनेकेषु शय्यातरेषु निष्कारणे एकं सागारिकंस्थापयन्ति शेषान् ‘निर्विशन्ति' उपभुञ्जते ततो भद्रक-प्रान्तविषया दोषा भवन्ति । भद्रको निर्विश्यमानशय्यातरस्य निश्रया तदीय-भक्तपानमध्ये प्रक्षेपंकुर्यात्, ‘मम गृहे तावदमी न गृह्णन्ति अतो मदीयमिदं भवद्भि संयतानां दातव्यम्' इति कृत्वा । यस्तु प्रान्तः स एक एव स्थाप्यमानः प्रद्वेषं यायात्, प्रद्विष्टश्च वसतेर्निष्काशनं कुर्यात्, निष्काशिताश्च स्तेन-श्वापदादिभिर्विनाशं लोकाद् वा गर्हामासादयन्ति । कारणे पुनरेकमपि स्थापयन्तो निर्दोषाः । कथम् ? इत्याह[भा.३५८३] सद्देहि वा वि भणिया, एग ठवेत्ताण निविसे सेसे ।
गणदेउलमादीसु व, दुक्खं खु विवजिउं बहुगा॥ . वृ- वाशब्द उत्सर्गपदे तावन्न कल्पते एकः सागारिकः स्थापयितुम्, द्वितीयपदे तु कल्पतेऽपीत्यस्यार्थस्य सूचनार्थः । ये श्राद्धाः-साधुसामाचारीकोविदास्तैः साधवो भणिता:आर्या ! एकं शय्यातरं स्थापयित्वा शेषान् निर्विशत, मा सर्वानपि परिहरत । एवमुक्ता एकं स्थापयित्वा शेषान् निर्विशन्ति । अथवा गणस्य-बहुजनसमूहस्य सामान्ये देवकुल-सभादौ स्थिता अनुक्ता अप्येकं स्थापयित्वा शेषान् निर्विशन्ति । कुतः ? इत्याह-'दुःख' दुष्करं तत्र बहून वर्जयितुम् ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org