SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१ सुप्तादीनि वक्ष्यमाणार्थानि भवन्ति ।। तान्येवार्थतो व्याख्यानयति[भा.३१२] पासुत्तसमं सुत्तं, अत्थेनाबोहियं न तं जाणे । लेससरिसेण तेनं, अत्था संघाइया बहवे ।। वृ- यथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन् न किञ्चित्तासां कलानां जानाति, एवमर्थेनाबोधितंन किञ्चिदर्थविशेषंजानाति ।यदात्वर्थेन प्रबोधितं भवति तदा सर्वेषां तदन्तर्गतानां भावानां ज्ञायकमुपजायते, यथा सएव पुरुषः प्रबोधितस्तासांकलानाम्, अतः प्रसुप्तसमंसूत्रम्। अथवा श्लेषसशंतत् सूत्रं, तथाहि तेन श्लेषसध्शेन' तन्तुसहक्षेण बहवोऽर्था सङ्घातितास्ततः श्लेषसध्शम् ।। सम्प्रति अर्थस्य सूचनात्' इति व्याख्यानयति[भा.३१३] सूइज्जइ सुत्तेणं, सूई नहा वि तह सुएणऽत्यो। सिव्वइ अत्थपयाणि व, जह सुत्तं कंचुगाईणि ॥ वृ-यथा सूची नष्टा 'सूत्रेण सूच्यते' सूत्रेणैवोपलक्ष्यते तथा श्रुतेनार्थः सूच्यत इति अर्थस्य सूचनात्सूत्रम् । एतेन 'सूचयति' इति निरुक्तंव्याख्यातम्। अधुना ‘सीव्यति' इति व्याख्यानयतियथासूत्र कञ्चकादीनि सीव्यतिएवमर्थपदान्यनेकानि सीव्यतीत्यर्थःस्य सीवनात्सूत्रम् ।। "सुवति त्ति" अस्य व्याख्यानमाह[मा.३१४] सूरमणी जलकंतो, व अत्थमेवं तु पसवई सुत्तं । पणियसुबंध कयवरे, तदनुसरंतो रयं एवं ॥ वृ-यथा सूर्यकान्तोऽग्नौ जलकान्तो जले दीप्ति श्रवति एवं सूत्रमर्थं प्रसवतीति सूत्रम् । अनुसरणं द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतो वणिक्सुतोऽन्धः कचवरे दृष्टान्तः एकस्य वणिजः पुत्रोऽन्धः । वणिजा चिन्तितम्-मा एष वराकोऽनिर्विष्टं भक्तं भुङ्काम्, 'परिभवस्थानमन्यथा गाढतरं भविष्यति' इति द्वौ स्तम्भौ निहत्य तत्ररज्जुर्बद्धा । ततः सोऽन्धपुत्रो रज्ज्वनुसारेण कचवरं बहिस्त्याज्यते ।। एष दृष्टान्तोऽयमर्थोपनयः-वणिक्स्थानीय आचार्यः, अन्धस्थानीयाः साधवः, रज्जुस्थानीयं सूत्रम्, कचवरस्थानीयमष्टप्रकारं कर्म । तथा चाह-एवं' वणिक्सुतान्धदृष्टान्तप्रकारेण 'तत्' सूत्रमनुसरन् ‘रजः' अष्टप्रकारं कर्म कचवरस्थानीयमपनयति, ततः सरणात् सूत्रम् । सुष्टुक्तं सूक्तमिति नाम तु सुप्रतीतमिति न व्याख्यातम् ।। अथ तत् सूत्रं कतिविधम् ? इत्यत आह[भा.३१५] सन्नाय कारगे पकरणे यसुत्तं तु तं भवेतिविहं। उस्सग्गे अववाए, अप्पे सेए य बलवंते ।। वृ-सूत्रं त्रिविधम्, तद्यथा-सञ्जञासूत्रं कारकसूत्रप्रकरणसूत्रं च ।अथवा द्विविधं सूत्रम्"उस्सग्गे"त्ति औत्सर्गिकं "अववादि"त्तिआपवादिकम्।तत्रकिं उत्सर्गाअल्पे? उतअपवादाः? तथा उत्सर्गोऽपवादो वा स्वस्थाने श्रेयान् बलवाँश्च, अपरस्थानेऽबलवाँश्चाश्रेयाँश्च । एष द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुः प्रथमतः संज्ञासूत्रमाह[मा.३१६] उवयार अनिद्गुरया, कजित्थीदाणमाहु नित्यक्का । जे छेए आमगंधादि, आरं सन्ना सुयं तेनं ।। वृ- यत् सामयिक्या संज्ञया सूत्रं भण्यते तत् संज्ञासूत्रम् । यथा-"जे छेए से सागारियं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy