SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ उद्देशकः २, मूलं-५२, [भा. ३३७९] २८५ भवन्ति । अथ महिला काचित् तत्र धान्यं नयति ततस्ता महिला तथा भणन्ति यथा तद् वचनमन्यः शृणोति ॥ इदमेव व्यक्तीकरोति[मा.३३८०] साहूणं वसहीए, रत्तिं महिला न कप्पती एंती। बहुगं च नेसि धन्नं, किं पाहुणगा विकालो य ।। पृ-साधूनां वसतौ रात्रौ 'महिला' स्त्री न कल्पते “एंती" आगच्छन्ती, त्वं च बह्विदं धान्यं गृह्णासि किं प्राघुणकाः समायाताः? विकालश्च सम्प्रति वर्तते ततो नेदानीं ते ग्रहीतुमवसर इति॥ [भा.३३८१] तेनेसु निसट्टेसुं, पुव्वा-ऽवररत्तिमल्लियंतेसु । तेनबियरक्खणट्ठा, वयणमिणं बेति गीतत्था । - निसृष्टेषु आक्रान्तिकेषु स्तेनेषु पूर्वरात्रमपररात्रं वा तत्राऽऽलीयमानेषु स्तेनेभ्यः सकाशाद् बीजानां रक्षणार्थं गीतार्था उच्चशब्देनेदं वचनं ब्रुवते ॥ किं तत् ? इत्याह[भा.३३८२] जागरह नरा ! निच्चं, जागरमाणस्स वदते बुद्धी । जो सुवति न सो धन्नो, जो जग्गति सो सया धन्नो ॥ वृ-भो नराः ! नित्यं 'जागृत' जाग्रतस्तिष्ठत, यतो जाग्रतो बुद्धि सूत्रा-ऽर्थानुप्रेक्षादिना वर्द्धते, अत एव यः स्वपिति नासौ 'धन्यः' ज्ञानादिधनार्हः, यस्तु जागर्ति स सदा धन्यः ।। [मा.३३८३] सीतंति सुवंताणं, अत्था पुरिसाण लोगसारत्था । तम्हा जागरमाणा, विधुनय पोराणयं कम्मं ॥ कृ-स्वपतां पुरुषाणाम् ‘अर्था ज्ञानादयः 'लोकसारार्था' त्रैलोक्यप्रधानप्रयोजनभूताः सीदन्ति' हानिमुपगच्छन्ति । यत एवं तस्माद् जाग्रतः सन्तः पुरातनं कर्म विधूनयत ।। [भा.३३८४] सुवति सुवंतस्स सुतं, संकित खलियं भवे पमत्तस्स । जागरमाणस्स सुतं, थिर-परिचितमप्पमत्तस्स ।। वृ- 'स्वपतः' निद्रायमाणस्य 'श्रुतम्' आचारादिकं 'स्वपिति' विस्मरति । 'प्रमत्तस्य' विकथादिप्रमादनिमग्नस्य 'शङ्कितं' 'किमत्र प्रदेशे इदमालापकपदमर्थपदं वा भवति? उतन?' इति संशयक्रोडीकृतम्; स्खलितं वा भवति, न परावर्तयतः शीघ्रमागच्छति किन्तु संस्मरणेनेति भावः । 'जाग्रतस्तु विकथादिप्रमादेनाप्रमत्तस्य श्रुतं स्थिर-परिचितं भवति।स्थिरं नाम-निशङ्कितम् अविस्मरणधर्मकं वा, परिचितं नाम-परावर्तयमानं क्रमेणोक्रमेण वा समागच्छति द्रुतं वा समाप्ति याति।। [भा.३३८५] नालस्सेण समं सुखं, न विज्जा सह निद्दया । न वेरग्गं ममत्तेणं, नारंभेण दयालुया ।। वृ-नालस्येन समं सौख्यं, न विद्या सह निद्रया। न वैराग्यं ममत्वेन, नारम्भेण दयालुता ॥ इति ।। अपि च[भा.३३८६] जागरिया धम्मीणं, आहम्मीणं च सुत्तया सेया । वच्छाहिवभगिणीए, अहिंसु जिनो जयंतीए। वृ-धार्मिकाणां जागरिका श्रेयसी, अधार्मिकाणां तु सुप्तता श्रेयसी, एवं वच्छाधिपस्यशतानीकनृपतेर्भगिन्याः जयन्तीनामिकायाः 'जिनः' वर्द्धमानस्वामी कथितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy