________________
२१६
बृहत्कल्प-छेदसूत्रम् -२-१/४६ वृ-द्विविधश्च भवति पन्थाः, तद्यथा-छिन्नाध्यान्तरमच्छिन्नाध्यान्तरं च । छिन्न-ग्रामादिरहितमध्वलक्षणं यदन्तरम्-अपान्तरालं यत् छिन्नाध्यान्तरम्, तद्विपरीतमच्छिन्नाध्वान्तरम् । तत्र च्छिन्ने पथि ग्राम-नगर-पल्ली-वजिकानां किञ्चिदेकतरमपि नास्ति, सर्वथैव शून्यत्वात् । यः पुनरच्छिन्नः पन्थाः स पल्लीभिजिकाभिर्वा युक्तो भवति।। [भा.३०५२] छिनेण अछिनेण व, रत्तिं गुरुगा यदिवसतो लहुगा।
उद्दद्दरे पवजण, सुद्धपदे सेवती जंच॥ वृ-अनन्तरोक्तेनच्छिन्नेनाच्छिन्नेन वापथा व्रजतोरात्रौ चतुर्गुरुकाः, दिवा गच्छतश्चतुर्लघुकाः। अत एव यत्रोवंदराः पूर्यन्ते तत्र यद्यध्वानं प्रतिपद्यन्ते तदा शुद्धपदेऽप्येतत् प्रायश्चित्तम्, यच्चाकल्पनीयादिकं किमपि सेवते तनिष्पनं पृथक् प्रायश्चित्तमापद्यते ।। इदमेव स्फुटतरमाह[भा.३०५३] उद्दद्दरे सुभिक्खे, खेमे नरुवद्दवे सुहविहारे।
जइ पडिवज्जति पंथं, दप्पेण परंन अन्नेणं ।। वृ-'ऊर्ध्वदरे' अनन्तरोक्ते 'सुभिक्षे' सुलभभैक्षे क्षेमे' स्तेन-परचक्रादिभयरहिते 'निरुपद्रवे' आशिवायुपद्रववर्जिते ‘सुखविहारे' सुखेनैव मासकल्पविधिना विहर्तुं शक्ये, एवंविधे जनपदे सति यदि पन्थानं छिन्नमच्छिन्नं वा प्रतिपद्यते । कथम् ? इत्याह- परं' केवलं 'दर्पण' देशदर्शनादिनिमित्तं न ‘अन्येन' ज्ञानादिना पुष्टालम्बनेन ॥ ततः किं भवति? इत्याह[भा.३०५४] आणा न कप्पइ त्ति य, अणवत्थ पसंगताए गणणासो।
वसणादिसभावम्णे, मिच्छत्ताराधना भणिया॥ वृ-'आज्ञा' 'न कल्पतेऽध्वानं गन्तुम्' इति लण्णा भगवतां विराधिता भवति । 'अनवस्था' 'यद्येष वहुश्रोतऽप्येवमध्वानं प्रतिपद्यते ततः किमहंन प्रतिपद्ये?' एवमनवस्था।अतः 'प्रसङ्गेन' परम्परया सर्वस्यापि गणस्य 'नाशः' चारित्रव्यवच्छेदः प्राप्नोति । तथाऽध्वानं प्रतिपन्नः सन् यदा 'व्यसनं' द्रव्याद्यापदम् आदिशब्दादपरं वा कमपि प्रत्यपायं समापन्नः-प्राप्त भवति तदा मिथ्यात्वस्याराधना-अनुसजना भणिता । तथाहि-साधूनध्वनि व्यसनादिसमापन्नान् इष्टवा लोको ब्रूयात्-अहो! अमीषांतीर्थकरेणैतदपिन ईष्टम्, यदेवंविधो बहुप्रत्यपायः पन्धानप्रतिपत्तव्यः॥ अथ विराधना भाव्यते, सा च द्विधा-आत्मनि संयमे च । तत्रात्मविराधनामाह[भा.३०५५] वाच खलु वाय कंडग, आवडणं विसम-खाणु-कंटेसु।
वाले सावय तेणे, एमाइ हवंति आयाए । वृ-अध्वानं गच्छतः ‘खलुकाः' जानुकादिसन्धयो वातेन गृह्यन्ते, “वाय कंडय"त्ति जवायां वातेन कण्डकान्युत्तिष्ठन्ते,विषमे वा स्थाणौवा 'आपतनं प्रस्खलनं बवति, कण्टका वा पादयोलगेयुः, व्याला वा श्वापदा वा स्तेना वा उपद्रवेयुः । एवमादिका आत्मविराधना मन्तव्या ।।
संयमविराधनामाह[भा.३०५६] छक्कायाण विराधन, उवगरणं बाल-वुड्ड-सेहा य।
पढमेण व बिइण व, साबय तेने य मिच्छा य ।। वृ.अस्थण्डिले स्थान-निषदनादि कुर्वन् पृथिव्यादीनां षण्णां कायानां विराधनां करोति । 'उपकरणम्' अध्वप्रायोग्यं नन्दीप्रतिग्रहादि यदि गृह्णन्ति ततो मारेण वेदनादयो दोषाः । अथ न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org