________________
१८८
बृहत्कल्प-छेदसूत्रम् -२-१/४२ वृ-“उद्दूढं"ति देशीवचनत्वाद् मुषितं तस्य यत् शेषं-लुण्टाकैर्मुक्त्वा ग्रामादेवहि परित्यक्तं तद् जघन्यमष्टं प्रथमतो गृह्णन्ति, तस्यासति ग्रामादेरन्तः प्रान्तमेवाष्टम, तदभावे ग्रामादेहि प्रान्तं दृष्टम्, ततो ग्रामादेरन्तरपि प्रान्तं दृष्टं गृह्णन्ति । तदभावे मध्यममप्येवमेव चारणीयम् । तदप्राप्तावुत्कृष्टमप्यनयैव चारणिकयाग्रहीतव्यम्।।अथवा किमनेनजघन्यादिविकल्पप्रदर्शनन?. [भा.२९१७] तुलम्मि अदत्तम्मी, तं गिण्हसुजेण आवई तरसि ।
तुल्लो तत्थ अवाओ, तुच्छबलं वजए तेणं ।। वृ-जघन्यमध्यमोत्कृष्टेषु 'तुल्ये' समानेऽदत्तदोषे सति 'तद्' विकृत्यादिकं द्रव्यं गृहाण येन 'आपदम्' असंस्तरणलक्षणां 'तरसि पारं प्रापयसि, यतस्तुल्य एव तत्र संयमात्मविराधनारूपोऽपायः तेन हेतुना 'तुच्छबलं' दोषान्नादिद्रव्यं वर्जयेत् ।।
गतं शून्यग्रामद्वारम् । अथ "रुक्खाईण पलोयण"त्ति पदं व्याख्यानयति[भा.२९१८] फासुग जोनिपरित्ते, एगट्ठि अबद्ध भिन्न भिन्ने य।
बद्धट्ठिए वि एवं, एमेव य होइ बहुबीए॥ वृ-'प्राशुकम्' अचित्तीभूतम्, परीत्ता योनिरस्येति परीत्तयोनिकम्, गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, 'एकास्थिकम् एकबीजम्, 'अबद्धास्थिकं नाम' अद्याप्यबद्धबीजम् अनिष्पन्नमित्यर्थः, 'भिन्न विदारितम्, एतेन प्रथमो भङ्गः सूचितः, “अभिन्ने य"त्ति अभिन्नम्' अविदारितम्, अनेन द्वितीयो भङ्ग उपात्तः। उन्चारणविधि पुनरेवम्-प्राशुकंपरीत्तयोनिकमेकास्थिकमबद्धास्थिकं भिन्नम् १, प्राशुकं परीत्तयोनिकमेकास्थिकमबद्धास्थिकमभिन्म २, एवं बद्धास्थिकेऽपि द्वौ भनौ वक्तव्यौ ४ । एते एकास्थिके चत्वारो भङ्गा लब्धाः, बहुबीजेऽप्येवमेव चत्वारोलभ्यन्ते,जाताअष्टौ भङ्गाः। एतेपरीत्तयोनिपदममुञ्चता लब्धाः, एवमेवानन्तयोनिपदेनाप्यष्टौ भङ्गाः प्राप्यन्ते, जाताः षोडशभङ्गाः। एतेप्राशुकपदेन लब्धाः, एवमेवाप्राशुकपदेनापिषोडशावाप्यन्ते,सर्वसङ्ख्ययाजाताद्वात्रिंशद् भङ्गाः। एतेचवृक्षस्याधस्तात्पतितंप्रलम्बमधिकृत्यमन्तव्याः।। [भा.२९१९] एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए।
साहारणं सभावा, आदीए बहुगुणं जं च ॥ कृ-एवमेव वृक्षस्योपर्यपिएकास्थिकपदेतथैव बहुबीजपदे उपलक्षणत्वात्प्राशुकादिशेषपदेषु च द्वात्रिंशद् भङ्गाः कर्त्तव्याः । अत्र च यो यः पूर्वो भङ्गकः स स प्रथममासेवितव्यः । सर्वथा वाऽधस्तात् पतितानां प्रलम्बानामप्राप्तौ वृक्षोपरिवर्तिप्रलम्बविषया अपि द्वात्रिंशद् भङ्गका यथाक्रममेवासेवितव्याः । अथापवादस्याप्यपवाद उच्यते-“स्वभावात्' प्रकृत्यैव ‘साधारणं' शरीरोपष्टम्भकारकंद्रव्यमेकास्थिकमनेकास्थिकंवा बद्धास्थिकमबद्धास्थिकंवापरीत्तमनन्तंवा तद् उक्रमेणापि 'आदत्ते' गृह्णाति, 'यद्' यस्मात् तस्यामवस्थायां तदेव 'बहुगुणं' संयमादीनां बहूपकारकमिति ।। अथ द्वारगाथाऽन्तर्गतं नन्दिपदं व्याख्यानयति[भा.२९२०] नंदति जेन तव-संजमेसु नेव य दर त्ति खिजंति ।
जायंति न दीना वा, नंदि अतो समयतो सन्ना ।। वृ- अध्वनि वर्तमानाः साधवो येन द्रव्येणाभ्यवहतेन तपः-संयमयोः 'नन्दन्ति' समाधिसमृद्धिमनुभवन्ति तद् नन्दि । यद्वा येन द्रव्येणोपमुक्तेन नैव “दर"त्ति द्रुतं 'क्षीयन्ते' न
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org