________________
बृहत्कल्प-छेदसूत्रम् -9बुद्धीविवद्धणकरं, होहिइ कालेन सो निउणो । वृ-निपुणे निपुणर्थं कथयेत्, स्थूले स्थूलमर्थं कथयेत् । कथम्भूतम् ? इत्याहबुद्धिविवर्द्धनकरम् । एवं सति स कालेन निपुणओभवति, अन्यथा बुद्धिभङ्गप्रसङ्गतो न स्यात् ।। साम्प्रतमादिशब्दसूचितान् हस्त्यादीन् दृष्टान्तानाह[भा.२३१] सिद्धत्थए वि गिण्हइ, हत्थी थूलगहणे सुनिम्माओ।
सरवेह-छिज्ज-पवए, घड-पड-चित्ते तहा धमए॥ वृहस्ती स्थूलग्रहणे सुनिर्मातः सन् पश्चात् सिद्धार्थकानपि गृह्णाति । तथाहि-नवको हस्ती शिष्यमाणः प्रथमं काष्ठानि ग्राह्यते, तदनन्तरं क्षुल्लकान् पाषाणान्, ततो गोलिकाः, ततो बदराणि, तदनन्तरंसिद्धार्थकानपि । यदिपुनःप्रथमत एव सिद्धार्थकान् ग्राह्यते ततो न शक्नोति ग्रहीतुमिति। एवं स्वरवेध-पत्रच्छेद्य-प्लवक-घटकारक-पटकारक-चित्रकारक-धमकाच दृष्टान्ता भावनीयाः । ते चैवम्-प्रथमंधानुष्कः स्थूलद्रव्यंव्यर्द्धशिक्षति, पश्चात्स वालम्, पश्चादतिसुनिर्मातः स्वरेणापि विध्यति । तथा पत्रच्छेद्यकार्यपि प्रथममकिञ्चित्करैः पत्रैः शिक्ष्यते, ततो यदा निर्मातो भवति तदा ईप्सितं पत्रच्छेद्यं कार्यते । तथा प्लवकोऽपि प्रथमं वंशे लगयित्वा प्लाव्यते, ततः पश्चादभ्यस्यन् आकाशेऽपि तानि तानि करणानि करोति । घटकारोऽपि प्रथमतः शरावादीनि कार्यते, पश्चात् शिक्षितो घटानपि रोति । पटकारोऽपि प्रथमतः स्थूलानि चीवराणि शिक्ष्यते, ततः सुशिक्षितः शोभनानपि पटान् वयति । चित्रकारोऽपि प्रथममण्डकं चित्रयितुं शिक्ष्यते, ततः शेषानवयवान्, पश्चात् सुशिक्षितः सर्वंचित्रकर्मसम्यक् करोति।धमकोऽपिपूर्वं श्रङ्गादीनि धमति, पश्चाच्छवम् । अत्रैवोपनयन्त्राह[भा.२३२] जत्थ मई ओगाहइ, जोग्गंजंजस्स तस्स तं कहए।
परिणामा-5ऽगमसरिसं, संवेगकरं सनिव्वेयं ।। वृ- यथैते हस्त्यादयः क्रमेण निर्माप्यन्ते एवं शिष्यस्थापि यत्र मतिरवगाहते यस्य च यद् योग्यं शास्त्र तस्य तत् कथयति । कथम्भूतम् ? इत्याह-'परिणामा-ऽऽगमसशं' यस्य याशः परिणामोयस्य चयावानागमस्तत्सशम्, यथा-ईशपरिणामस्येदम् एतावदागमस्य पुनरिदमिति। पुनः किंविशिष्टं कथयितव्यम् ?, अत आह-संवेगकरं' सिद्धिर्देवलोकः सुकुलोत्पत्तिरित्यादेरभिलाषः संवेगस्तत्करणशीलंसंवेगकरम्, तथा नारकः तिर्यग्योनि कुमानुषत्वमित्यादेविरक्तता निर्वेदस्तत्करणशीलं निर्वेदकरम् ॥ तदेवं योग्येऽपि क्रमेण दाने राग-द्वेषाभाव उक्तः। 'सम्प्रति शिष्येष्वाचार्येण परिणाम कत्वं परीक्ष्यानुयोगः कर्त्तव्यः, शिष्यैरप्याचार्य परीक्ष्य तस्य सकाशे श्रोतव्यम्' इति शिष्याचार्यपरसपरविधिमतिदेशत आह[भा.२३३] गिण्हंत-गाहगाणं, आइसुएसु उ विही समक्खाओ।
सो चेव य होइ इहं, उनोगो वन्निओ नवरं ॥ वृ- गृह्णतां-शिष्याणां ग्राहकस्य-आचार्यस्य 'आदिसूत्रेषु' सामायिकादिषु यो विधिः समाख्यातः “गोणी चंदण" इत्यादिलक्षणः स एवेह निरवशेषो वक्तव्यः । यस्तुशिष्याणामनुयोगकथने उद्योगः' उद्यमो यथा तिसृभि परिपाटीभिरथवा सप्तभिकर्तव्यः, सनवरंसप्रपञ्चमुपवर्णितः।। गतं विधिद्वारम् । अधुना प्रवृत्तिद्वारं वक्तव्यम् । प्रवृत्ति प्रवाहः प्रसूतिरित्येकार्था । कथमनुयोगः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org