SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १, मूलं-१४, [भा. २३४७) मारयेद्वा, ‘स वा' स्तेनो मैथुनार्थी वा सागारिकं मारयेत । सागारिके च मारिते सति तदीयाः संज्ञातकाः 'प्रतिषेध' तद्रव्या-ऽन्यद्रव्यव्यवच्छेदं कुर्युः । स्तेनादयः शय्यातरेण गृहीताः सन्तः संयतीनां “छोभं"ति अभ्याख्यानं दद्यु-अस्माकं भाटिरेताभिर्गृहीता आसीत् । “झामण' त्ति प्रद्विष्टा वा सन्तः शय्यातरगृहं संयतीनां वा प्रतिश्रयं प्रदीपयेयुः । प्रद्वेषतो वा यदन्यदपि ते करिष्यन्ति तनिष्पन्नमापद्यते । तस्मात् 'कः?' इति न वक्तव्यम् ।। कथं पुनस्तर्हि वक्तव्यम् ? इत्याह[भा.२३४८] संकियमसंकियं वा, उभयट्टि नच्च बेंति अहिलिंतं । छुत्ति हडि त्ति अनाहा!, नत्यि ते माया पिया वा वि ।। वृ-उभयं-स्तैन्यं मैथुनं च तदर्थिनं शङ्कितमशङ्कितं वा 'ज्ञात्वा' अवगम्य 'अभिलीयमानम्' आयान्तमेवंब्रुवते-“छुत्तिहडि त्ति" अनुकरणशब्दावेतौ,छुछुरितिवाहडिरिति वा वक्तव्यमित्यर्थः। यद्वा 'हे अनाथ !' निस्वामिक ! किं ते नास्ति माता वा पिता वा यदेवमस्यां वेलायां पर्यटसि? इति ॥ [भा.२३४९] भंजंतुवस्सयंणे, छिनाल जरग्गगा सगोरहगा। नथिइहं तुह चारी, नस्सस किं खाहिसि अहन्ना! | - 'भञ्जन्ति' विध्वंसन्ते "ने" 'अस्माकमुपाश्रयं छिनालाः' तथाविधा दुष्टजातीयाः 'जरद्गवा'जीर्णबलीवर्दा सगोरथकाः' कल्होडकयुक्ताः, अतोनास्त्यत्रत्वद्योग्याचारि, 'नश्य' पलायस्व, किमत्र खादिष्यसि अधन्य!' हे निर्भाग्य! त्वम् ? ।प्राकृतत्वाद् गाथायां दीर्घत्वम् । एतेनान्यव्यपदेशभङ्गया तस्य प्रविशतः प्रतिषेधः कृतो भवति ॥ द्वितीयपदमाह[भा.२३५०] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए। दव्वस्स व असईए, ताओ व अपच्छिमा पिंडी। वृ-अध्वनिर्गतादयः संयत्यः ‘त्रिकृत्वः' त्रीन्वारान् वसतिमार्गयित्वा 'असति' अलभ्यमाने गुप्तद्वारे उपाश्रयेऽपावृतद्वारेऽपि वसन्ति । तत्र यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यतेततः “द्रव्यस्य' कपाटस्यासति कण्टिकादिकमप्यानीयद्वारंपिधातव्यम्।यावद् 'अपश्चिमा' सर्वान्तिमा यतना “ताओ व पिंडि"त्ति ताः सर्वा अपि पिण्डीभूय परस्परं करबन्धं कृत्वा दण्डकव्यग्रहस्तास्तिष्ठन्तीति ॥ एनामेव नियुक्तिगाथां व्याचष्टे[भा.२३५१] अन्नत्त व कवाडं, कंटिय दंड चिलिमिलि बहिं किढिया। पिंडीभवंति सभए, काऊणऽनोन्नकरबंधं ।। वृ. कपाटयुक्तस्य द्वारस्याभावेऽन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् । अथ याच्यमानमपि तन्न लब्धं ततो वंशकटो याचितव्यः । तस्यालाभे 'कण्टिकाः कण्टकशाखाः। तासामप्राप्तौदण्डकैस्तिरश्चीनैश्चिलिमिलिका क्रियते। तावतां दण्डकानामभावे वस्त्रचिलिमिलिका बध्यते। बहिरिमूले किढिकाः' स्थविराः क्रियन्ते। अथ कोऽपितत्र तासामभिद्रवणंकरोतिततस्ताशे "समये' सोपसर्गे सत्यन्योन्यं करबन्धं कृत्वा पिण्डीभवन्ति ।। कथं पुनः ? इत्यत आह{भा.२३५२] अंतो हवति तरुणी, सदं दंडेहि ते पतालिंति । अह तत्थ होति वसभा, वारिति गिही व ते होउं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy