________________
उद्देशक : १, मूलं - १२, [भा. २२९९]
५१
अहवा जत्तो पवहइ, रच्छा रच्छामुहं तं तु ॥
वृ- 'तत् पुनः' गृहं रथ्यायाः पार्श्वे वर्त्तमानं रथ्याया अभिमुखं वा भवेद् 'बहिर्मुखं वा' रध्या तस्य पृष्ठतो वर्त्तते इत्यर्थः, 'उभयतोमुखं वा यस्यैकं द्वारं रध्यायाः पराङ्मुखमेकं तु रथ्याया अभिमुखमित्यर्थः, अथवा यतो गृहाद् रथ्या प्रवहति तद् रथ्यामुखमुच्यते ॥ सिंघाडगं तियं खलु, चउरच्छसमागमो चउक्कं तु । छहं रच्छाण जहिं, पवहो तं चच्चरं बिंती ॥
[ भा. २३०० ]
वृ- शृङ्गाटकं नाम यत् 'त्रिकं' रध्यात्रयमीलनस्थानम् । क्वचित् तु सूत्रादर्शे “तियंसि वा" इत्यपि पदं दृश्यते, तत्रैवं व्याख्या- 'शृङ्गाटकं' सिङ्घाटकाकारं त्रिकोणं स्थानम्, 'त्रिकं' रथ्यात्रयमीलकः । चतुष्कं तु चतसृणां रथ्यानां समागमः । तथा यत्र षण्णां रथ्यानां 'प्रवहः' निर्गमस्तत् चत्वरं ब्रुवते तीर्थकर - गणधराः ॥
[भा. २३०१] अह अंतरावणी पुन, वीही सा एगओ व दुहओ वा । तत्थ हि अंतरावण, गिहं तु सयमावणो चेव ॥
वृ-'अथ' इत्यानन्तर्ये । अन्तरापणो नाम 'वीथी' हट्टमार्ग इत्यर्थः, सा 'एकतो वा' एकपार्श्वेन "दुहओ व "त्ति द्वाभ्यां वा पाश्र्वभ्यां भवेत् तत्र यद् गृहं तद् अन्तरापणगृहम् । यद् वा गृहं स्वयमेवापणस्तदन्तरापणः । किमुक्तं भवति ? यत्रैकेन द्वारेण द्वारेण व्यवह्रियते द्वितीयेन तु गृहं तदन्तरापणगृहम् । एतेषु प्रतिश्रयेषु संयतीनां न कल्पते स्थातुम् ॥
अथैतेष्वेव तिष्ठन्तीनां प्रायश्चित्तमाह[भा. २३०२ ]
आवण रच्छगिहे वा, तिगाइ सुन्नंतरावणुजाणे ।
चउगुरुगा छल्लहुगा, छग्गुरुगा छेय मूलं च ॥
वृ- आपणगृहे तिष्ठन्ति चतुर्गुरुकाः । रथ्यागृहे तिष्ठन्ति षड्लघवः । "तिगाइ"त्ति त्रिकचतुष्क- चत्वरेषु तिष्ठन्तीनां षड्गुरवः । "सुन्न”त्ति अपरिगृहीते शून्यगृहे अन्तरापणे वा च्छेदः । उद्यान तिष्ठन्तीनां मूलम् । एवं भिक्षुणीविषयमुक्तम् । गणावच्छेदिन्याः षड्लघुकादारब्धं नवमे तिष्ठति । प्रवर्त्तिन्याः षड्गुरुकादारब्धं प्रायश्चित्तं दशमे पर्यवस्यति । एतच्चापत्तिमङ्गीकृत्योक्तम्, अन्यथा सर्वासामपि मूलमेव भवति, परतः संयतीनां प्रायश्चित्तस्यैवाभावात् ॥ [भा. २३०३] सव्वेसु विचउगुरुगा, भिक्खुणिमाईण वा इमा सोही । चउगुरुविसेसिया खलु, गुरुगादि व छेदनिट्टवणा ।।
वृ- अथवा 'सर्वेष्वपि' आपणगृहादिषु स्थानेषु चतुर्गुरुका अविशेषितं प्रायश्चित्तम् । अयं च प्रकारः प्रागुक्तोऽपि सङ्ग्रहार्थमिह भूयोऽप्युक्त इति न पुनरुक्तता। यदि वा भिक्षुणीप्रभृतीनामियं शोधिर्द्रष्टव्या, तद्यथा- चतुर्गुरुकास्तपः- कालाभ्यां विशेषिताः । तत्र भिक्षुण्याश्चतुर्गुरुकमुभयलघु, अभिषेकायास्तदेव तपसा लघु कालेन गुरुकम्, गणावच्छेदिन्याः कालेन लघु तपसा गुरु, प्रवर्त्तिन्यास्तपसा कालेन च गुरुकम्। यदि वा चतुर्गुरुकादारभ्य च्छेदे निष्ठापना कर्त्तव्या, तद्यथाभिक्षुण्याः सर्वेष्वपि स्थानेषु चतुर्गुरुकम्, अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम्, प्रवर्त्तिन्याश्छेदः ॥ अथात्रैव दोषानुपदर्शयितुं द्वारगाथामाह
[भा. २३०४] तरुणे वेसित्थि विवाह रायमादीसु होइ सइकरणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org