________________
४१
उद्देशक : १, मूल-१०, [भा. २२४५ वापरस्परं दृष्ट्वा 'किमेष मामभिधारयति?' इति शङ्का वा कुर्यात्, स्मृतिकरणं वा भुक्तभोगिनाम्, चारित्रस्यवाभ्रंशना ब्रह्मव्रतविराधनया भवेत्, “चयइ"त्ति सर्वथैव वासंयमंत्यजति, अवधावनं कुर्यादित्यर्थः । इदमेवोच्च-नीचपदद्वयं व्याचष्टे[भा.२२४६] माले सभावओ वा, उच्चम्मि ठिओ निरिक्खई हेढें ।
बेट्ठो व निवन्नो वा, तत्थ इमं होइ पच्छित्तं ।। वृ-कदाचित्ते संयताः माले द्वितीयभूमिकादौ स्वभावतो वा उच्चे देवकुलादौ स्थिता भवेयुः, संयत्यस्तु तद्विपरीते नीचे, ततोऽसौ तत्रोर्द्धवस्थित उपविष्टो वा 'निपन्नो या' त्वग्वर्तित इत्यर्थः यदि संयतीमधस्ताद् निरीक्षते, तत्रेदं प्रायश्चित्तं भवति ।। [भा.२२४७) संतर निरंतरं वा, निरिक्खमाणे सई पकामं वा ।
काल-तवेहि विसिट्ठो, भिन्नो मासो तुयट्टम्मि ।। वृ- ‘सान्तरं नाम' यद् विण्टिकया हस्तादिना वा उच्चो भूत्वा शिरः शरीरं वा उच्चैस्तरं कृत्वा पश्यति । 'निरन्तरं नाम' विण्टिकादिकं विना स्वभावस्थ एव प्रेक्षते । तत्र त्वग्वर्तितः सन् निरन्तरं 'सकृद्' एकवारं संयती पश्यति भिन्नमासो द्वाभ्यामपितपः-कालाभ्यां लघुः । त्वग्वर्तित एव निरन्तरं प्रक्रामम्' असकृत्प्रेक्षतेभिन्नो मासः कालगुरुस्तपोलघुः ।अथस्वभावस्थः प्रेक्षमाणस्तां नपश्यतिततः 'सान्तर विण्टिकामन्यद्वा किञ्चिदुच्छीर्षके कृत्वा सकृत्पश्यतिभिन्नोमासस्तपोगुरु काललघुः । सान्तरमेवप्रक्रामंप्रेक्षते भिन्नोमासो द्वाभ्यामपि तपःकालाभ्यागुरुकः । एवं त्वग्वर्त्तनं कुर्वाणस्य भणितम्॥ [भा.२२४८] एसेव गुरु निविटे, ट्ठियम्मि मासो लहू उ भिक्खुस्स ।
एकेक ठाण वुड्डी, चउगुरुअंतं च आयरिए । वृ-निविष्टो नाम-निषण्णस्तस्यापि प्रेक्षमाणस्य एष एव निरन्तर-सान्तरादिकोऽभिलापो वक्तव्यः, नवरं प्रायश्चित्तं स एव भिन्नमासो गुरुकश्चतुर्ध्वपि स्थानेषु तपः कालविशेषितस्तथैव कार्य।स्थितो नाम-ऊर्द्धस्थस्तस्याप्येवमेवाभिलापः, नवरंप्रायश्चित्तं लघुमासस्तपः-कालविशेषितः। एवं भिक्षोः प्रायश्चित्तमुक्तम्, वृषभोपाध्यायाचार्याणां यथाक्रममेकैकस्थानवृद्धि कर्त्तव्या यावदाचार्यस्य चतुर्गुरुकम् । तद्यथा-वृषभस्य गुरुभिन्नमासादारब्धं गुरुमासे, उपाध्यायस्य मासलघुकादारब्धं चतुर्लधुके, आचार्यस्य गुरुमासिकादारब्धं चतुर्गुरुके निष्ठामुपयातीति ।।
एष प्रथम आदेशः ।अथ द्वितीयमाह[भा.२२४९] दोहि वि रिय सकाम, पकाम दोहिं पि पेक्खई जो उ।
चउरो य अनुग्धाया, दोहि वि चरिमस्स दोहि गुरु।। - "दोहि वि"त्ति द्वाभ्यामपि नयनाभ्यां यन्निरीक्षते तदरहितम्, रहितं तु यदेकेन लोचनेन निरीक्षते । एतदुभयमपि प्रत्येकं द्विधा-सकामं प्रकामं च । तत्र सकाममेकशः प्रकाममनेकशः । "दोहिं पि पेक्खई जो उ"त्ति द्वाभ्यामपि रहिता-ऽरहिताभ्यां सकाम-प्रकामाभ्यां वा यः प्रेक्षते तस्य चत्वारो मासा अनुद्धाताः 'द्वाभ्यामपि' तपः-कालाभ्यां विशेषिताःप्रायश्चित्तम्। 'चरमस्य' चतुर्थभङ्गवर्तिनः ‘द्वाभ्यामपि' तपः-कालाभ्यां गुरुकाः कर्त्तव्याः । एष नियुक्तिगाथासमासार्थः।। अथास्या एव भाष्यकृद् व्याख्यानमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org