________________
उद्देशक : १, मूलं-१०, भा. २२०२]
- 'इति' एवं विचार्य 'ते' आभीरा धृतिमलभमाना गोभिरात्मना सार्द्ध सञ्जारिताभिः सह बहिनिर्गत्व ग्रामस्य द्वारं बद्धवा विवत्साः' वत्सरहिताः केवला एव गाः उपलक्षणत्वाद् महिषीश्च ग्रामस्य बहिः स्थापितवन्तः, ताश्रव तत्र स्थिताः स्ववत्सवियोजिता महता शब्देन सकलामपि रात्रि विस्वस्मारटितवस्यः, वसका अपिनामान्तः स्थितास्तथैव शब्दायितवन्तः। ततः किमभूत? इत्याह[भा.२२०३] वच्छग-गोणीसद्देण असुवणं भोइए अहनि पुच्छा।
सब्भावे परिकहिए, अन्नम्मि ठिओ निरुवरोहे ।। वृ-तेषां वत्सकानां गवां च यः शब्दः-विस्वरारटनलक्षणस्तेन भोगिकस्य 'अस्वपन' निद्रा न समायातेत्यर्थः । ततः 'अहनि' दिवसे उद्रते सति तेन पृच्छा कृता, यथा-किमेवं रात्रो गो-माहिषं विस्वरमारटत् ? तैराभीरैस्ततः सर्वोऽपि सद्भावः परिकथितः। ततोऽसौ भोगिकोऽन्यस्मिन् देवकुले 'निव्याघति गत्वा स्थित इति ।। अत्रोपनयमाह[भा.२२०४] एवं चिय निरविक्खा, वइणीण ठिया निओगपमुहम्मि ।
जा तासि विराधनया, निरोधमादी तमावजे ॥ वृ. 'एवमेव' भोगिकवत् केचिद् निरपेक्षाः संयता व्रतिनीनां सम्बन्धी यो नियोगः-ग्रामः क्षेत्रमित्यर्थः तस्य प्रमुखे-निर्गम-प्रवेशद्वारे स्थिताः तैर्या तासां निरोधादिका विराधना आदिशब्दादनागाढपरितापनादिका तामापद्यन्ते, तनिष्पन्नं तेषां प्रायश्चित्तं भवतीति भावः ।। [मा.२२०५] अहवण थेरा पत्ता, दटुं निकारणट्ठियं तं तु।
भोइयनायं काउं, आउट्टि विसोहि निच्छुभणा। वृ-“अहवण"त्तिअखण्डमव्ययपदमथवेत्सस्यार्थे । अथवा स्थविराः' कुलस्थविरादयस्तत्र क्षेत्रेप्राप्तास्तमाचार्यादिकं ग्रामद्वार एवस्थितं दृष्ट्वा पृच्छन्ति-आर्य! किमत्र संयतीक्षेत्रेभवानीशे प्रदेशे स्थितः ? इति । यदि निष्कारणिकस्ततो भोगिकज्ञातमनन्तरोक्तं कुर्वन्ति, यथा तेन महिलाजनेन महान् क्लेशराशिरनुबभूवे, एवमेतामिरपि संयतीभिर्भवता अत्र स्थितेन महद् दुःखमनुभवनीयम् । एवमुक्ते यदि 'आवृत्तः' प्रतिनिवृत्तस्ततो 'विशोधि' प्रायश्रिचत्तं दत्त्वा ततः क्षेत्रानिष्काशना कर्त्तव्या।। [भा.२२०६] एवंता दप्पेणं, पुट्ठो व भणिज्ज कारण ठिओ मि।
तहियं तु इसा जयणा, किं कजं का य जयणाओ। वृ-एवं तावद् ‘दर्पण' आकुट्टिकया स्थितानांदोपा उक्ताः । अथ कुलादिस्थविरैः पृष्टो भणेत्कारणे स्थितोऽस्यहम् । ततः पुष्टकारणसद्भावे न प्रायश्रिचत्तं न वा निष्काशना । तत्र तुकारणे स्थितानाम् ‘इयं वक्ष्यमाणा यतना। शिष्यः प्राह-किं पुनः 'कार्य कारणम् ? का वायतनाः ? |
उच्यते[मा.२२०७] अद्धाणनिग्गयाई, अग्गुजाणे भवे पवेसोय।
पुत्रो ऊनो व भवे, गमनं खमणं च सव्वासि ।। वृ-अध्वनो ये निर्गता वसिमं प्राप्तास्तेऽध्वनिर्गताः,आदिशब्दादशिवादिकारणेपुवर्तमानाः 1937
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org