________________
४९३
उद्देशक : १, मूलं-६, [भा. १९५६]
पुवकय असइ दाने, ठवणा लिंगेय कल्लाणे ।। -पूर्व-प्रथमंगृहिभि काष्टप्रक्षेपणादायुक्तः पूर्वायुक्तस्तस्मिन् 'पूर्वायुक्ते' पूर्वतप्तेऽबचुल्लके प्रथमं तन्दुलानुपस्करोति । तदभावे पूर्वतप्तायां चुल्लयाम् । अथ चुल्लयपि पूर्वतप्तान प्राप्यते तत ईशानिदारूणि प्रक्षिप्योपस्करोति, तद्यथा-"सुक्खघणमझुसिरमविद्धि"त्ति शुष्काणिवार्द्राणि घनानि-वंशवद् न रन्ध्रयुक्तानि अशुषिराणि-अस्फुटितानि त्वचारहितानि वा अविद्धानघुणैरकृतच्छिद्राणि।ईशानिदारूणि वक्ष्यमाणप्रमाणोपेतानि पूर्वकृतानिच ग्रहीतव्यानि । अथ पूर्वकृतानि न सन्ति ततः स्वयमपि तेषां प्रमाणोपेतत्वं कर्त्तव्यम् । तथा याचमानस्य वैद्यस्य "दाने"त्ति अर्थजातदानं कर्तव्यम् । कथम् ? इति अत आह-“ठवण"ति शैक्षेण प्रव्रजता यद् निकुआादिषु द्रविणजातस्थापितंतस्यदानकर्त्तव्यम् । “लिङ्गि"त्तिस्वलिङ्गेनपरलिङ्गेन गृहिलिङ्गेन वा अर्थजातमुत्पादनीयम् । "कल्लाणे"त्तिग्रुणीभूतस्य ग्लानस्यतातिचरकाणांच पञ्चक्याणकं दातव्यम् ॥
अथ प्रक्षिप्यमाणदारूणां प्रमाणादिकमाह[भा.१९५७] हत्थद्धमत्त दारुग, निच्छल्लिय अघुनिया अहाकडगा।
असईइ सयंकरणं, अघट्टणोवक्खड्महाउं ।। वृ-हस्तार्द्ध-द्वादशाङ्गुलानितन्मात्राणि-तावप्रमाणदैध्योपैतानि 'निच्छल्लिकानि' छल्लीरहितानि 'अघुणितानि' घुणैरविद्धानि दारूणि भवन्ति।ईशानिच यथाकृतानि ग्रहीतव्यानि । यथाकृतानाम् 'असति' अभावे ‘स्वयंकरणम्' आत्मनैव हस्तार्द्धप्रमाणानि क्रियन्ते छल्लिश्चापनीयते इत्यर्थः । उपस्कृते च भक्ते उल्मुकानां घट्टना न कर्तव्या किन्तु तेऽग्निजीवा यथायुष्कमनुपाल्य स्वयमेव विध्यायन्ति॥
अथ पानकयतनामाहभा (१९५८] कंजिय-चाउलउदए, उसिणे संसट्टमेतरे चेव ।
पहाण-पियणाइपाणग, पादासइ वार दद्दरए ।। वृ-पानीयंयाचतो वैद्यस्य काञ्जिकंदातव्यम् । यदि तद्नेच्छति ततः 'चाउलोदकं तन्दुलधावनम् । तदप्यनिच्छत्युष्णोकं वा संसृष्टपानकं वा । 'इतरं' ति प्राशुकमनिच्छति अप्राशुकमपि, यावत् कर्पूरवासितम् । एवं स्नान-पानादिषु कार्येषु पानकं तस्य दातव्यम् । तच्च प्रथमतः पात्रके स्थाप्यते । अथ नास्त्यतिरिक्तं पात्रकंन वाऽसौ तत्र स्थापयितुं ददाति ततो वारके स्थापयित्वा 'दर्दरयति' मुखे घनेन चीवरेण बध्नाति येन कीटिकादयः सत्त्वा नाभिपतन्ति॥
भावितं भैक्षप-दम् । अथ "चड्डादि" ति पदं भावयति[भा.१९५९] चड्डग सराव कंसिय, तंबक रयए सुक्न मणिसेले।
भोत्तुं स एव धोवइ, अनिच्छि किढि खुड्डु वसभा वा ॥ वृ-'चड्डकं कमढकंतवासी भोजनंकार्यते। अथ तत्र नेच्छतिभोक्तुंततः शरावे।तत्रानिच्छति कांस्यभाजने ताम्रभाजने वा । तत्राप्यनिच्छति रजतस्थाले सुवर्णस्थाले मणिशैलमये वा भाजने भोजयितव्यः । भुक्त्वा चासौ स्वयमेव तद्भाजनं धावति । अथ नेच्छति धावितुंततः 'किढी' स्थविरश्राविका सा प्रक्षालयति । तस्या अभावे क्षुल्लकाः । क्षुल्लकाणामभावे वृषभाः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org