________________
उद्देशक : १, मूलं- ६, [भा. १९४९ ]
४९१
क्रियते, यथा-यतीनां नोपरमते ततो धर्मकथा कर्तव्या । तथाप्यप्रतिपद्यमाने विद्या-मन्त्र- निमित्तानि 'तस्य' वैद्यस्यावर्जनार्थं प्रयुज्यन्ते, अन्यो वा तानि प्रयुज्य वशीक्रियते, ततस्तस्य वैद्यस्यासौ मञ्जनादिकं काराप्यते ॥
अथ धर्मकथापदं भावयति
[भा. १९५०] तह से कहिंति जह होइ संजओ सन्नि दानसड्डो वा । बहिया उ अण्हायंते, करिति खुड्डा इमं अंतो ।।
वृ- आक्षेपणीप्रभृतिभिर्धर्मकथाभिस्तस्य तथा धर्मं कथयन्ति यथाऽसौ संयतो भवति 'संज्ञी वा' गृहीतानुव्रतोऽविरतसम्यग्धष्टिर्वा 'दानश्राद्धो वा' मुधैव साधूनामारोग्यदाशीलो भवति । अथ धर्मकथालब्धिर्नास्ति ततो विद्या- मन्त्रादयः प्रयुज्यन्ते । तेषामभावे तस्य आमलकादीनि दीयन्ते, भण्यते चासौ बहिर्गत्वा तडागादिषु स्नानं कुरुत । अथ बहि स्नातुं नेच्छति ततो बहिरस्नाति तस्मिन् क्षुल्लकाः ‘इदं’ वक्ष्यमाणम् 'अन्तः प्रतिश्रयस्याभ्यन्तरे कुर्वन्ति ॥
किं तत् ? इत्याह[ भा. १९५१]
उसिणे संसट्टे वा, भूमी-फलगाइ भिक्ख चड्डाई । अनुसट्ठी धम्मकहा, विज-निमित्ते य अंतो बहिं ।।
वृ- 'उष्णोदकेन' प्रतीतेन 'संसृष्टेन' गोरसरसभावितेन अपरेण वा प्राशुकेन पानकेन क्षुल्लकास्तं स्नपयन्ति । शयनमाश्रित्य भूमौ फलके आदिशब्दात् पल्यङ्कादिषु वा स शाय्यते । भोजनं प्रतीत्य 'भैक्षं' भिक्षापर्यटनेन लब्धमानीय तस्य दातव्यम् । "चड्डाइ "त्ति 'चड्डे' कमढकमयं भाजनम् आदिग्रहणात् कांस्यपात्र्यादिपरिग्रहः, एतेषु भोजनमसौ कारयितव्यः । हिरण्यादिकं द्रविणजातं याचमानस्य ‘अन्तः' इति वास्तव्यवैद्यस्य 'बहि' इत्यागन्तुकवैद्यस्योभयस्याप्यनुशिष्टिधर्मकथाविद्या- निमित्तानि प्रयोक्तव्यानीति नियुक्तिगाथासमासार्थः ॥
अथैनामेव भावयन्नाह
[भा. १९५१] तेल्लुव्वट्टण ण्हावण, खुड्डाऽसति वसभ अन्नलिंगेणं । पट्टदुगादी भूमी, अणिच्छि जा तूलि -पल्लंके ॥
वृ- क्षुल्लकास्तं वैद्यं तैलेनाभ्यङ्गय कल्केनोद्वत्योर्षणोदकादिना प्राशुकेनैकान्ते स्नपयन्ति । अथ क्षुल्लका न सन्ति स्नपयितुं वा न जानते ततो ये ‘वृषभाः ' गच्छस्य शुभा ऽशुभकारणेषु भारोद्वहनसमर्थास्ते 'अन्यलिङ्गेन' गृहस्थादिसम्बन्धिना स्नानादिकं वैद्यस्य कुर्वन्ति । “पट्टदुगाई" इत्यादि, स वैद्यः शयितुकामः प्रथमतो भूमी संस्तारपट्टमुत्तरपट्टकं च प्रस्तीर्य शाय्यते । अथ नासौ पट्टद्वये स्वप्नुमिच्छति तत और्णिक-सौत्रिकौ कल्पौ प्रस्तीर्येते । तथापि यदि नेच्छति ततः काष्ठफलके संस्तारोत्तरपट्टकावास्तीर्य शयनं कार्यते । तथाप्यनिच्छति उत्तरोत्तरं तावन्नेतव्यं यावत् तूली पल्यङ्कावप्यानीय शाययितव्य इति ।।
अथ भैक्षपदं भावयति
[भा. १९५३] समुदानिओदनो मत्तओ वऽनिच्छंति वीसु तवणा वा ।
एवं पनिच्छमाणे, होइ अलंभे इमा जयणा ।।
वृ-समुदानं नाम-उच्चावचकुलेषु भिक्षाग्रहणम् तत्र लब्धः सामुदानिकः, “अध्यात्मादिभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org