________________
बृहत्कल्प-छेदसूत्रम् - १-१/६ 'उपचरति' पृच्छति को नु युष्माकं मध्ये “अतिन्नो ?" ग्लानो येनाहं तं प्रतिजागर्मि ? 1 अथवा 'उपचारमात्रं ' लोकोपचारमेव केवलमनुवर्त्तयितुं ग्लानसमीपम् 'एति' आगच्छति । यदि वा कार्यार्थी सत्रुपचरति । किमुक्तं भवति ? - कार्यं किमपि ज्ञान-दर्शनादिकं तत्समीपादीहमानः प्रतिजागर्ति । 'प्रायश्चित्तं वा मे भविष्यति यदि न गमिष्यामि इति विचिन्त्यागत्य च प्रायश्चित्तं विशोधयति । एष सर्वोऽप्युपचारो द्रष्टव्यः ॥
अथ श्रद्धावानिति द्वारमाह
[भा. १८७७]
४७४
सोऊण ऊ गिलाणं, तुरंतो आगओ दवदवस्स । संदिसह किं करेमी, कम्मि व अड्डे निउज्जामि ।।
[भा. १८७८ ] पडिचरिहामि गिलाणं, गेलने वावडाण वा काहं । तित्थानुसज्जणा खलु, भत्ती य कया हवइ एवं ॥
वृ- 'ग्लानं प्रतिजाग्रदहं महतीं निर्जरामासादयिष्यामि' इत्येवंविधया धर्मश्रद्धया युक्तः श्रद्धावानुच्यते । स च श्रुत्वा ग्लानं 'त्वरमाणः' श्रवणानन्तरं शेषकार्याणि विहाय पन्थानं प्रतिपत्रः सन् “दवदवस्स” त्ति द्रुतं द्रुतं गच्छन् झगिति ग्लानसमीपमागतस्ततो ग्लानप्रतिचारकानाचार्यान् वा गत्वा भणति सन्दिशत भगवन्तः ! किं करोम्यहं ? कस्मिन् वा 'अर्थे' ग्लानसम्बन्धिनि प्रयोजने युष्माभिरहं नियोज्ये ?, अहं तावदनेनाभिप्रायेणायातः, यथा प्रतिजागरिष्यामि ग्लानं ग्लानवैयावृत्त्ये वा व्यापृता ये साधवस्तेषां भक्त पानप्रदान- विश्रामणादिना वैयावृत्त्यं करिष्यामि । एवंकुर्वता तीर्थस्यानुसजना - अनुवर्त्तना कृता भवति, भक्तिश्च भगवतां तीर्थकृतां कृता भवति, “जे गिलाणं पडियर से ममं णाणेणं दंसणेणं चरित्तेणं पडिवज्जइ" इत्यादिभगवदाज्ञाऽऽराधनात् । इत्थं तेनोक्ते यदि ते स्वयमेव ग्लानवैयावृत्त्यं कर्तुं प्रभवन्ति ततो ब्रुवते-आर्य ! व्रजतु यथास्थानं भवान्, वयं ग्लानस्य सकलमपि वैयावृत्त्यं कुर्वाणाः स्म इति || अथ ते न प्रभवन्ति यदि वाऽसावेवंविधगुणोपेतो वर्त्तते[भा. १८७९] संजोगदिट्ठाढी, तेनुवलद्धा व दव्वसंजोगा । सत्यं व तेणऽधीय, वेजोवा सो पुरा आसि ।।
वृ- संयोगाः - औषधद्रव्यमीलनप्रयोगास्तद्विषयो दृष्टः पाठः-चिकित्साशास्त्वायवविशेषो येन स संयोगष्टपाठः, आर्षत्वाद् गाथायामिनप्रत्ययः, यदि वा तेन द्रव्यसंयोगाः कुतोऽपि सातिशयज्ञानविशेषादुपलब्धाः, 'शास्त्रं वा' चरक-सुश्रुतादिकं सकलमपि तेनाधीतम्, वैद्यो वा सः 'पुरा' पूर्वं गृहाश्रम आसीत्, ततो न विसर्जनीयः ॥
[भा. १८८०] अत्थि य से योगवाही, गेलन्नतिगिच्छणाए सो कुसलो । सीसे बावारेत्ता, तेगिच्छं तेण कायव्यं ॥
वृ- यदि 'तस्य' आघन्तुकस्य गच्छे योगवाहिनः सन्ति, सच स्वयं ग्लान्यचिकित्सायां कुशलः, ततः शिष्यान् सूत्रार्थपौरुषीप्रदानादौ व्यापार्य स्वयं तेन ग्लानस्य 'चैकित्स्य' चिकित्साकर्म कर्त्तव्यम् । उपलक्षणमिदम्, तेन कुल-गण-सङ्घप्रयोजनेषु गुरुकार्यप्रेषणे वस्त्र पात्राद्युत्पादने वा यो यत्र योग्यस्तं तत्र व्यापार्य सर्वप्रयत्नेन स्वयं ग्लानस्य चिकित्साकर्म कर्त्तव्यम् ॥
सूत्रार्थपौरुषी व्यापारणे विधिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org