________________
४३२
बृहत्कल्प-छेदसूत्रम् - १- १/६
'दशभिश्च' दशसङ्ख्याकैः स्थानैः 'स्वपदं' पाराञ्चिकं नित्यभक्तिकस्योक्तम्, तथा 'शेषेष्वपि ' चतुर्थभक्तिकादिषु 'यत्' तृतीयवारादिकं प्रायश्चित्तस्थानं युज्यते 'तत्र' तदारभ्य 'शोधेः' प्रायश्चित्तस्य विवृद्धिः कर्त्तव्या । तद्यथा चतुर्थभक्तिस्तृतीयं वारं भिक्षामवतरति मासलघु, चतुर्थ मासगुरु, पञ्चमं चतुर्लघु, षष्ठं चतुर्गुरु, सप्तमं षड्लघु, अष्टमं षड्गुरु, नवमं छेदः, दशमं मूलम्, एकादशमनवस्थाप्यम्, द्वादशं वारं पर्यटतः पाराञ्चिकम् । एवं षष्ठभक्तिकस्यापि द्वादशं वारमवतरतः पाराञ्चिकम् । यदाह चूर्णिकृत् - छडभत्तियस्स वि बारसहिं पावइ सपयं ति । अष्टमभक्तिकस्य तु चतुर्थवारादारभ्य त्रयोदशं वारं यावत् पर्यटतो लघुमासादिकं पाराञ्चिकान्तमिति ।
गतं प्रमाणद्वारम् । अथ कालद्वारम् - कस्मिन् काले भिक्षार्थं निर्गन्तव्यम् ? उच्यते यः क्षपको बाल वृद्धो वा पर्युषितेन प्रथमालिकां कर्तुकामः स सूत्रपौरुषीं कृत्वा निर्गच्छति । अथ तावतीं वेलां न प्रतिपालयितुं क्षमः ततोऽर्द्धपौरुष्यां निर्गच्छति । यद्यतिप्रभाते पर्यटति तदा मासलघु, भद्रक-प्रान्तकृताश्च दोषा भवन्ति । तत्र साधुरतिप्रभात एव कस्यापि गृहं गत्वा भिक्षां याचितवान्, स च गृहपतिर्भद्रकः सुप्ताविरतिकामुत्थापयेत् ततस्तस्यामुत्थितायामधिकरणं प्रवर्त्तितं भवेत् । यस्तु प्रान्तो भवति स ब्रूयात् किमुन्मत्तो वर्तसे यदेवमतिप्रभाते पर्यटसि ? सुखरात्रिकं वा प्रष्टुं समायासीः ? इति । यद्वा कोऽपि ग्रामान्तरं प्रस्थितः प्रथममेव तं साधुं दृष्टवा अपशकुनं मन्यमानः प्रद्वेषं यायात्, प्रद्विष्टश्चाहननादि कुर्यात् । अथैतद्दोषभयादतिक्रान्तायां वेलायामरति तदाऽपि मासलघु, "अकाले चरसी भिक्खु" इत्यादिगाथोक्ताश्च दोषाः । एवमुष्णस्यापि भक्तस्याप्राप्ते अतिक्रान्ते वा एत एव दोषा मन्तव्याः ॥
गतं कालद्वारम् । अथावश्यकद्वारम् - यद्यावश्यकम्रवृिशोध्य निर्गच्छति तदा मासलघु आज्ञादयश्च दोषा विराधना च प्रवचनादीनाम्। तद्यथा-भिक्षामटतः संज्ञा समागच्छेत् ततो यद्युइग्राहितपात्रकः पानकं वा विना व्युत्सृजति तदा प्रवचनविराधना - अहो ! अशुचयोऽमी । अथैतद्दोषभयान व्युत्सृजति तत आत्मविराधना । अथ प्रतिश्रयमागत्य पानकं गृहीत्वा संज्ञाभूमौ व्रजति ततो देश-काले स्फिटिते सति भिक्षामलभमान एषणां प्रेरयेत्, ततः संयमविराधना । यत एवमत आवश्यकं शोधयित्वा निर्गन्तव्यम् ।। गतमावश्यकद्वारम् ।
अथ सङ्घाटकद्वारं भाष्यकृदेव व्याख्यानयति[मा. १७०२]
गानियस्स दोसा, साणे इत्थी तहेव पडिनीए । भिक्खविसोहि महव्वय, तम्हा सबिइज्जए गमणं ।
- यद्येकाकी पर्यटति तदा मासलघु । एते च दोषाः स एकाकी यदि भिक्षां शोधयति तदा पृष्ठतः श्वानः समागत्य तं दशेत् । अथ श्वानमवलोकते तत एषणां न रक्षति । तमेकाकिनं दृष्टवा काचित् प्रोषितभर्तृका विधवा वा स्त्री बहिः प्रचारमलभमाना द्वारं पिधाय तं गृह्णीयात् । प्रत्यनीको वा तमेकाकिनं दृष्टवा प्रान्तापनादि कुर्यात् । 'भिक्षाविशोधि' इति एकाकी यदि त्रिषु गृहेषु भिक्षां दीयमानां गृह्णाति तत एषणायामशुद्धिर्भवति । अथैकत्रैव गृहे गृह्णाति तत इतरयोदयकयोः प्रद्वेषो भवेत् । द्वयोस्तु निर्गतयोरेक एकत्र भिक्षामाददान एवोपयोगं ददाति, द्वितीयस्तु शेषगृहद्वयादानीयमानं भिक्षाद्वयमपि सम्यगुपयुङ्क् । महाव्रतानि वा एकाकी विराधयेत् । तथाहि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International