________________
४१४
बृहत्कल्प-छेदसूत्रम् -१-१/६ वसती कारणे स्थिता आवश्यकं बहि कुर्वन्ति । अवधानं नाम यदि गृहस्थाः क्षेत्रादिषु गच्छन्तो भणन्ति-'अस्माकमपि गृहेषूपयोगो दातव्यः, अनुपस्थापितशैक्षैर्वा दापयन्ति । यत्र च 'कति जना वत्स्यथ ?' इति पुष्टे सति कारणतस्तिष्ठभि परिमाणनियमः कृतो यथा ‘एतावद्भिः स्थातव्यं नाधिकैः ततो यधन्येप्राघूर्णकाः समाच्छन्तितदातेषामवस्थापनाय भूयोऽप्यनुज्ञापनीयः सागारिकः, यद्यनुजानाति ततः सुन्दरमेव, अथ नानुजानाति ततोऽन्यस्यां वसतौ स्थापनीयास्ते प्राघूर्णका इति ।। भिक्षाचर्यादीनामवशिष्यमाणद्वाराणां विशेषमाह[भा.१६३३] नियताऽनियता भिक्खायरिया पानऽन्न लेवऽलेवाडं।
अंबिलमनंबिलं वा, पडिमा सव्वा वि अविरुद्धा ।। वृ-भिक्षाचर्या 'नियता' कदाचिदाभिग्रहिकी अनियता' कदाचिदनाभिग्रहिकी, असंसृष्टासंसृष्टाधन्यतमैषणाभिग्रहवती तद्वर्जिता वेति भावः । पानमनं च लेपकृतं वा भवेद् अलेपकृतं वा।द्राक्षा-चिञ्चापानकादितक्र-तीमनादिकंच लेपकृतम्, सौवीरादिकंवल्ल-चणकादिकंचालेपृतम्। आचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति । 'प्रतिमाश्च' मासिक्यादिका भद्रादिका वा सर्वा अप्यमीषामविरुद्धा इति ॥उक्तं सामाचारीद्वारम्।अथ स्थितिद्वारमभिधित्सुरिगाथाद्वयमाह[भा.१६३४] खित्ते काल चरित्ते, तित्थे परियाय आगमे वेए।
कप्पे लिंगे लेसा, झाणे गणना अभिगहा य ।। [भा. १६३५] पव्वावम मुंडावण, मनसाऽऽवन्ने उ नत्यि पच्छित्तं ।
कारण पडिकम्मम्मि उ, भत्तं पंथो य भयणाए। वृ-क्षेत्रे १ काले २ चारित्रे ३ तीर्थे ४ प्याये ५आगमे ६ वेदे ७ कल्पे ८ लिङ्गे ९ लेश्यायां १० ध्याने ११ गणनायां १२ एतेषु स्थितिर्वक्तव्या, अभिग्रहाश्चामीषामभिघातव्याः १३ । एवं प्रव्राजना १४मुण्डापना १५ मनसाऽऽपने त्वपराधेनास्तिप्रायश्चित्तं १६कारणं १७प्रतिकर्मणि च स्थिति १८ भक्तं पन्थाश्च भजनया १९ इति गाथाद्वयसमुदायार्थः ।।
अवयवार्थं तु प्रतिद्वारं बिभणिषुराह[भा.१६३६] पन्नरसकम्मभूमिसु, खेत्तऽद्धोसप्पिणीइ तिसु होला ।
तिसु दोसुय उस्सप्पे, चउरो पलिभाग साहरणे ॥ वृ-क्षेत्रद्वारे जन्मतः सद्भावतश्च स्थविरकल्पिकाः पञ्चदशस्वपि कर्मभूमिषु' भरतैरावतविदेहपञ्चकलक्षणासु भवन्ति।संहरणतः पञ्चदशानां कर्मभूमीनां त्रिंशतामकर्मभूमीनापन्यतरस्यां भूमौ भवेयुः। अद्धा' कालस्तमङ्गीकृत्यावसर्पिण्यां जन्मतः सद्भावतश्च 'त्रिषु तृतीय-चतुर्थपञ्चमारकेषु भवेयुः । “तिसु दोसु य उस्सप्पे"त्ति उत्सर्पिण्यां जन्मतः 'त्रिषु द्वितीय-तृतीयचतुर्थेष्वरकेषु सद्भावतस्तु 'द्वयोः' तृतीय-चतुर्थारकयोर्भवन्ति । नोअवसर्पिण्युत्सर्पिणीकाले जन्मतः सद्भावतश्च दुःषमसुषमाप्रतिभागेभवन्ति, संहरणतस्तु चत्वारोऽपि प्रतिभागा अमीषां विषयतया प्रतिपत्तव्याः, तद्यथा-सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुःषमाप्रतिभागः दुषमसुषमाप्रतिभागश्चेति ॥ [भा.१६३७] पढम-बिइएसुपडिवजमाण इयरे उ सब्वचरणेसु।
_ नियमा तित्थे जम्मऽह जहन्ने कोडि उक्कोसे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org