SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उद्देश : १, मूलं -६, भा. १४८९ ] ३८१ गृहमुपागतेषु येषां तान्यप्रीतिकानि, एतानि कुलानि गीतार्था पर्यटन्तः सम्यग् जानन्ति ॥ उपाश्रयाँश्च जानन्ति । कथम् ? इत्याह [भा. १४९०] जेहि कया उ उवस्सय, समणाणं कारणा वसहिहेउं । परिपुच्छिया सदोसा, परिहरियव्वा पयत्तेणं ॥ वृ- इह मनाः पञ्चधा-तापसाः शाक्याः परिव्राजका आजीवका निर्ग्रन्थाश्च । तेषां पञ्चानां निर्ग्रन्थामेव वा 'कारणात् कारणमुद्दिस्येत्यर्थः कारणमेव व्यनक्ति वसति अवस्थानं तद्धेतोःतन्निमित्तम्, वैर्गृहिभिः कृता उपाश्रयास्तेषां समीपे भिक्षामटद्भिः ‘परिपृच्छय' उपाश्रयमूलोत्पत्तिं पर्यनुयुज्य 'सदोषाः ' सावद्यदोषदुष्टास्ते उपाश्रयाः प्रयलेन परिहर्त्तव्याः ॥ तथा [ भा. १४९१] जेहि कया उ उवस्सय, समणाणं कारणा वसहिहेउं । परिपुच्छिय निद्दोसा, परिभोत्तुं जे सुहं होइ (होति) || वृ- यैः कृता उपाश्रयाः 'श्रमणानां' निर्ग्रन्थवर्जानां शाक्यादीनां कारणाद् वसतिहेतोस्तान् परिपृच्छय 'निर्दोषाः' निरवद्यास्ते उपाश्रयाः परिभोक्तुं "जे" इति निपातः पादपूरणे 'सुखं भवन्ति' सुखेनैव संयमबाधामन्तरेण ते परिभुज्यन्त इत्यर्थः ॥1 [भा. १४९८] जेहि कया पाहुडिया, समणाणं कारणा वसहिहेउं । परिपुच्छिया सदोसा, परिहरियव्वा पयत्तेणं ॥ वृ-यैः कृता 'प्राभृतिका' उपाश्रयेषु उपलेपन-धवलनादिका 'श्रमणानां पञ्चानामपि साधूनामेव वा कारणाद् वसतिहेतोः तान् परिपृच्छय 'सदोषाः ' उत्तरगुणैरशुद्धत्वात् सावद्यास्ते उपाश्रयाः प्रयत्नेन परिहर्त्तव्याः ॥ [ भा. १४९३ ] जेहि कया पाहुडिया, समणाणं कारणा वसहिहेउं । परिपुच्छिय निद्दोसा, परिभोत्तुं जे सुहं होइ ( होंति) || वृ-यैः कृता प्राभृतिका 'श्रमणानां' साधुवर्जितानां तापसादीनां कारणाद् वसतिहेतोस्तान् परिपृच्छय निर्दोषा इति मत्वा परिभोक्तुं "जे" इति प्राग्वत् 'सुखं भवन्ति' सुखेनैव परिभुज्यन्त इत्यर्थः ॥ अथ की स्थाने वसतिरन्वेषणीया ? उच्यते- यावन्मात्रं क्षेत्रं वसिमाक्रान्तं भवति तावन्मानं पूर्वाभिमुखवामपार्श्वोपविष्टवृषभाकारं बुध्या परिकल्प्य प्रशस्तेषु स्थानेषु वसतिर्गृह्यते । अथ कुत्रावयवस्थाने गृह्यमाणा वसति किंफला भवति ? इत्युच्यते [भा. १४९४ ] सिंगक्खोडे कलहो, ठाणं पुण नत्थि होइ चलणेसु । अहिठाणे पुट्टरोगो, पुच्छम्मिय फेडणं जाणे !! 4 वृ- 'शृङ्गखोडे' शृङ्गप्रदेशे यदि वसतिं करोति तदा निरन्तरं साधूनां कलहो भवति । 'स्थानम्' अवस्थिति पुनर्नास्ति 'चरणेषु' पादप्रदेशेषु । 'अधिष्ठाने' अषानप्रदेशेषु “पुट्टे" ति उदरं तस्य रोगो भवति । 'पुच्छे' पुच्छप्रदेशे 'स्फेटनम्' अपनयनं वसतेर्जानीहि ।। [ भा. १४९५ ] मुहमूलम्मि उ चारी, सिरे अ कउहे अ पूअ सक्कारो । खंधे पट्ठीइ भरो, पुट्ठम्मि उ धायओ वसहो । वृ- मुखमूले यदि वसति तदा 'चारी' भोजनसम्पत्ति प्रशस्ता । 'शिरसि' शृङ्गयोर्मध्ये ककुदि च वसतिकरणे पूजा च वस्त्र - पात्रादिभि सत्कारश्चाभ्युत्थानादिना साधूनां भवति । स्कन्धप्रदेशे Jain Education International For Private & Personal Use Only www.jainelibrary.org -T
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy