________________
उद्देशक : १, मूलं-६, {भा. १४७९]
३७९ वैरात्रिककालद्वयमपि गृह्णन्ति । ततः प्राभातिकं कालं गृहीत्वा द्वितीयदिने स्वाध्यायः कर्त्तव्यः । ततोऽर्धायां पौरुष्यामतिक्रान्तायां सङ्घाटको भिक्षामटति । एतदेवाह[भा.१४८०] वीयार भिक्खचरिया, वुच्छाणऽचिरुग्गयम्मि पडिलेहा।
चोयग भिक्खायरिया, कुलाइँ तहुवस्सयं चेव ॥ तृ-विचारभूमी प्रथममेवाऽपराह्ने प्रत्युपेक्षणीया । ततो रात्रावुषितानामचिरोद्गते सूर्ये अर्द्धपौरुष्यां भिक्षाचरयायाः प्रत्युपक्षणा भवति । अत्र नोदकः प्रश्नयति-किमिति प्रातरारभ्य भिक्षाचर्या विधीयते ? । सूरिरभिदधाति-एवं भिक्षाचर्यां कुर्वाणाः 'कुलानि' दानकुलादीनि तथोपाश्रयं च ज्ञास्यन्तीति समासार्थः ।। अथैतदेव व्याचष्टे[भा.१४८१] बाले वुड्ढे सेहे, आयरिय गिलाण खमग पाहुणए।
तित्रिय काले जहियं, भिक्खायरिया उ पाउग्गा ।। वृ-षष्ठी-सप्तम्योरर्थं प्रति अभेदाद् बालस्य वृद्धस्य शैक्षस्य आचार्यस्य ग्लानस्य क्षपकस्य प्राधूर्णकस्य च 'प्रायोग्या' तदनुकूलप्राप्यमाणभक्त-पाना त्रीनपि पूर्वाह्न-मध्याह्न-सायाह्नलक्षणान् कालान् यत्र भिक्षाचर्या भवति तत् क्षेत्रं गच्छस्य योग्यमिति गम्यते ॥
कथं पुनस्तत् प्रत्युपेक्ष्यते? इत्याह[भा.१४८२] खेत्तं तिहा करित्ता, दोसीणे नीणितम्मि उ वयंति ।
अन्नोत्रे बहुलद्धे, थोवं दल मा य रूसिज्जा ॥ वृ-क्षेत्रं त्रिधा' त्रीन् भागान् कृत्वा एकं विभागप्रत्युषसि पर्यटन्ति, द्वितीयं मध्याह्ने, तृतीयं सायाह्ने । तत्र यत्र प्रातरेव भोजनस्य देशकालस्तत्र प्रथमं पर्यटन्ति । अथ नास्ति प्रातःक्वापि देशकालस्ततः “दोसीणे" पर्युषिते आहारे निस्सारितेवदन्ति, यथा-अन्यान्येषु गृहेषुपर्यटद्भिः बहुः-प्रचुर आहारो लब्धस्तेनच भृतमिदं भाजनम् अतः स्तोकं देहि, ‘मा च रुषः' मा रोषं कार्षी 'यदेते न गृह्णन्ति' इति । एतच्चामी परीक्षार्थं कुर्वन्ति 'किमयं दानशीलो न वा?' इति ॥ [भा.१४८३] अहवन दोसीणं चिय, जायामो देहि ने दहि खीरं ।
खीरे घय गुल गोरस, थोवं थोवं च सव्वत्थ ॥ वृ-अथवा न वयं दोसीणमेव याचामः किन्तु देहि “ने" अस्मभ्यं दधि क्षीरं च । क्षीरे लब्धे सति घृतं गुडं गोरसं च याचित्वा सर्वत्र स्तोकं स्तोकमेव गृह्णन्ति । एवं तावत् प्रत्युषसि येषु भिक्षाया देशकालो यानि च भद्रककुलानि तानि सम्यगवधारयन्ति यथा बाल-वृद्ध-क्षपकादीनां प्रथम-द्वितीयपरिषहार्दितानां समाधिसन्धारणार्थं प्रातरेव तेषु पेयादीनि याचित्वोपनीयन्ते । एवमेकस्य पर्याप्तं गृहीत्वा वसतिमागम्यालोचनादिविधिपुरस्सरंसमुद्दिश्य मध्याह्ने द्वितीये विभागे भिक्षां पर्यटन्ति ।। कथम् ? इत्याह[भा.१४८४] मज्झण्हे पउर भिक्खं, परिताविय पेज जूस पय कढियं ।
ओभट्ठमनोभट्ट, लब्भइ जंजत्थ पाउग्गं । वृ-मध्याह्नेप्रचुरं भैक्षं तथा परितापितं परितलितंसुकुमारिकादि पक्वान्नं यद्वा परितापितं' कथितं कट्टरादिकमित्यर्थः ‘पेया' यवागूः 'यूषः' मुद्गरसःतथा पयः' दुग्धं क्वथित' तापितम्। एवमेव भाषितमनवभाषितं वा यद् यत्रप्रायोग्यमन्विष्यते तत् तत्र यदि लभ्यते तदा प्रशस्तंतत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org