________________
३६८
बृहत्कल्प-छेदसूत्रम् -१-१/६
वृषएव “पव्वजा सिक्खावय" इत्यादिकः क्रमःशुद्धपरिहारिके यथालन्दिके चमन्तव्यः। नवरं परिहारकल्पविषयंनानात्वं 'जिनेभ्यः' जिनकल्पिकेभ्यः सकाशात्, किम्? इत्याह-प्रतिपद्यते “गच्छ गच्छो य" त्ति गच्छद्वयं चशब्दात् तृतीयश्च गच्छ:, त्रयो गच्छा जघन्यतोऽप्यमुं कल्पं प्रतिपद्यन्त इत्यर्थः । [भा.१४२६] तवभावननाणतं, करंति आयंबिलेण परिकम्मं ।
इत्तिरिय थेरकप्पे, जिनकप्पे आवकहियाओ। वृ-तपोभावनायांनानात्वं-विशेषः, किम्? इत्याह-कुर्वन्त्यायामाम्लेन ते भगवन्तः परिकर्म' अभ्यासम् ।तेच द्विविधाः-इत्वरायावत्कथिकाश्च । प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते इत्वराः, ये तु जिनकल्पं ते यावत्कथिकाः।। [भा.१४२७] पुन्ने जिनकपं वा, अइंति तं चेव वा पुनो कप्पं ।
गच्छंवा इंति पुनो, तिन्नि विहाणा सिं अविरुद्धा । वृ-'पूर्णे' शुद्धपरिहारकल्पेजिनकल्पंवाआयान्ति, तमेव वा परिहारविशुद्धिकंकल्पंपालयन्ति, गच्छं वा आगच्छन्ति पुनः । एवं त्रीण्यपि 'विधानानि प्रकाराः “सिं" तेषां परिहारविशुद्धिकानामविरुद्धानि ॥ [भा.१४२८] इत्तरियानुवसग्गा, आतंका वेदना य न भवति ।
आवकहियाण भइया, तहेव च ग्गामभागाउ॥ - इत्वराणां शुद्धपरिहारकाणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रभावादेव जीतमेतत् । यावत्कथिकानां तु भाज्या उपसर्गादयः, जिनकल्पस्थितानां तेषां तत्सम्भवात् । यथा च जिनकल्पिकानांषड्ग्रामभागा भिक्षाटनविषया उक्तास्तथैवामीषामपि । एवं सर्वाऽपि सामाचारी तथैव द्रष्टव्या। विशेषः पुनरयम्-नवपुरुषप्रमाणो गणस्तावदमुंकल्पं प्रतिपद्यते, तत्र चत्वारः परिहारिकाः, चत्वारःपुनरनुपरिहारिकाः, एकस्तुतेषां कल्पस्थितः, अनुपरिहारिकाणां कल्पस्थितस्य चैकः सम्भोगः, परिहारिकाणां पृथक् पृथगित्यादिका प्रक्रिया तावन्नेया यावत् षण्मासाः । ततः परिहारिकाअनुपरिहारिकीभवन्ति, अनुपरिहारिकाः परिहारिकत्वंप्रतिपद्यन्ते, कल्पस्थितस्तुप्राक्तन एवेत्येवमपि षण्मासाः।ततःकल्पस्थितोऽपिषण्मासान्यावत्परिहारिकत्वं प्रतिपद्यते, शेषास्तुयथायोगमनुपारिहारिकत्वं कल्पस्थितत्वंचेत्यष्टादशभिर्मासरयंकल्पः समाप्यत इत्यलं प्रसङ्गेन । एतेषां हि स्वरूपमिहैव षष्ठोद्देशके भाष्यकृतैव न्यक्षेण वक्ष्यते ॥ अमीषामेव स्थितिनानात्वमभिधित्सुः प्राक्तनमेव द्वारगाथाद्वयमाह[भा.१४२९] खेते काल चरित्ते, तित्थे परियाय आगमे वेए।
कप्पे लिंगे लेसा, झाणे गणना अभिगहा य ।। [भा.१४३०] पव्वावण मुंडावण, मनसाऽऽवन्ने वि से अनुग्घाया।
कारण निप्पडिकम्मा, भत्तं पंथो य तइयाए। वृ-अस्य समासार्थो व्यासार्थश्च जिनकल्पिकद्वार इवावगन्तव्यः ।। - यस्तु यत्र विशेषस्तत्र तमुपदर्शयति[भा.१४३१] खेत्ते भरहेरवएसु होति साहरणवजिया नियमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org