________________
३४८
बृहत्कल्प-छेदसूत्रम् -१-१/६ अभिमानाभिनिवेसा, वागरियं आसुरं कुणइ ।। -'त्रिविधम' अतीतादिकालत्रयविषयं यत्पूर्वमिहैवाभियोगिकभावनायांवर्णितंतद् एकैकं 'षड्विधं लाभा-ऽलाभ-सुख-दुःख-जीवित-मरणविषयभेदात् षटप्रकारम्। आह आभियोगिकभवनानिबन्धनतया पूर्वमिदमुक्तम्अतः कथमिदमिहाभिधीयते? इत्याह-'अभिमानाभिनिवेशाद् अहङ्कारतीव्रतया 'व्याकृतं प्रकटितमेतद् निमित्तमासुरीं भावनां करोति, अन्यथा त्वाभियोगिकीमिति ॥ निष्कृपमाह[मा.१३१९] चंकमणाई सत्तोस सुनिक्किवो थावराइसत्तेसु ।
काउंच नाणुतप्पइ, एरिसओ निक्लिवो होइ ।। वृ-स्थावरादिसत्त्वेषु चङ्कमणं-गमनं आदिशब्दात्स्थान-शयना-ऽऽसनादिकं सक्तः क्वचित् कार्यान्तरे व्यासक्तः सन् ‘सुनिष्कृपः' सुष्टुगतघृणो निशूकः करोतिती शेषः । कृत्वा च तेषु चङ्क्रमणादिकं नानुतप्यते, केनचिनोदितः सन् पश्चात्तपपुरस्सरंमिथ्यादुष्कृतं न ददातीत्यर्थः। ईशो निष्कृपो भवति, इदं निष्कृपस्य लक्षणमिति भावः ।।
निरनुकम्पमाह[भा.१३२०] जो उ परं कंपंतं, दह्ण न कंपए कढिनभावो ।
एसो उ निरनुकंपो, अणुपच्छाभावजोएणं ॥ वृ-यस्तु परं कृपास्पदं कुतश्चि भयात् कम्पमानमपिदृष्ट्वा कठिनभावः सन्न कम्पते एष निरनुकम्पः । कुतः ? इत्याह-अनुशब्देन पश्चाद्भाववाचकेन यो योगः-समबन्धस्तेन, किमुक्तं भवति ?-अनु-पश्चाद् दुःखितसत्त्वकम्पनादनन्तरं यत् कम्पनं सा अनुकम्पा, निर्गता अनुकम्पा अस्मादिति निरनुकम्प उच्यते ॥ उक्ता आसुरी भावना । सम्प्रति साम्मोहीमाह[भा.१३२१] उम्मग्गदेसणा १ मग्गदूसणा २ मग्गविप्पडीवत्ती ३।
मोहेण य ४ मोहित्ता ५, सम्मोहं भावनं कुणइ ।। वृ-उन्मार्गदेशना १ मार्गदूषणा २ मार्गविप्रतिपत्तिश्च ३ यस्य भवतीति वाक्यशेषः, मोहेन च यः स्वयंमुह्यति४, एवं कृत्वा परंचमोहयित्वा ५ साम्मोहींभावनांकरोतीति नियुक्तिगाथासमासार्थः॥
अथैनामेव विवरीषुराह[भा.१३२२] नाणाइ अदूसिंतो, तव्विवरीयं तु उवदिसइ मग्गं ।
उम्मग्गदेसओ एस आय अहिओ परेसिं च ।। वृ. 'ज्ञानादीनि' पारमार्थिकमार्गरूपाण्यदूषयन् 'तद्विपरीतं' ज्ञानादिविपरीतमेवोपदिशति 'मार्ग' धर्मसम्बन्धिनम्, एष उन्मार्गदेशकः । अयं चात्मनः परेषां च बोधिबीजोपघातादिना 'अहितः' प्रतिकूल इत्येषा उन्मार्गदेशना || अथ मार्गदूषणामाह[भा.१३२३] नाणादि तिहा मग्गं, दूसयए जे य मग्गपडिवन्ना ।
अबुहो पंडियमाणी, समुट्ठितो तस्स घायाए । वृ-ज्ञानादिकं त्रिधा' त्रिविधं पारमार्थिक मार्ग स्वमनीषिकाकल्पितैर्जातिदूषणैर्दूषयति, ये चतस्मिन् मार्गेप्रतिपन्नाः साध्वादयस्तानपि दूषयति, 'अबुधः' तत्त्वपरिज्ञानविकलः, पण्डितमानी'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org