________________
उद्देशक : १, मूलं-६, [भा. १०९२]
२९३
तथा घोषस्तु' गोकुलमभिधीयते । ‘अंशिका तु यत्र ग्रामस्यार्धम् आदिशब्दात् त्रिभागो वा चतुर्भागो वा गत्वा स्थितः सा ग्रामस्यांश एवांशिका।। [भा.१०९३] नाणादिसागयाणं, भिजति पुडा उ जत्थ भंडाणं। .
पुडभेयणं तगं संकरो य केसिंचि कायब्बो।। वृ-नानाप्रकाराभ्यो दिग्भ्य आगतानां भाण्डानां कुडमादीनांपुटा यत्रविक्रयार्थ भिद्यन्ते तत् पुटभेदनमुच्यते । केषाञ्चिदाचार्याणां मतेन सङ्करश्च कर्त्तव्यः, “संकरंसिवा" इत्यधिकं पदं पठितव्यमित्यर्थः । सङ्करो नाम-किञ्चिद् ग्रामोऽपिखेटमपि आश्रमोऽपीत्यादि।
एष सूत्रार्थ । अथ नियुक्ति विस्तरः । तत्र ग्रामपदनिक्षेपमाह[भा.१०९४] नामं ठवणागामो, दव्वग्गामो य भूतगामो य ।
आउजिंदियगा, पिउ-माऊ-भावगामो य॥ वृ-नामग्रामः स्थापनाग्रामो द्रव्यग्रामश्च भूतग्रामश्च आतोद्यनाम इन्द्रियग्रामः पितृग्रामो मातृग्रामोभावग्रामश्चेति गाथासमुदयार्थः । अथावयवार्थमभिधित्सुर्नाम-स्थापने क्षुण्णत्वादनाध्त्य द्रव्यग्रामं व्याचष्टे[भा.१०९५]जीवा-ऽजीवसमुदओ, गामो को कंनओ कहं इच्छे ।
आदिनयोऽमेगविहो,तिविकपो अंतिमनओ उ॥ वृ-जीवानां-गो-महिषी-मनुष्यादीनाम अजीवानां च-गृहादीनां यः समुदयः स द्रव्यग्राम उच्यते । इह च स्वज्ञोपज्ञप्रवचने प्रायः सर्वमपि सूत्रमर्थश्च नयैर्विचार्यते । यत उक्तम्
___ नत्थि नएहि विहूणं, सुत्तं अस्थो य जिनमए किंचि।
आसज्ज उ सोयारं, नए नयविसारओ बूया। अत एषोऽपि द्रव्यग्रामो नयैर्विचार्यते-को नाम नयः कं द्रव्यग्रामं कथमिच्छति? इति, तत्र नयाः सामान्यतः सप्त नैगम-सङ्गह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतभेदात्; इह तु समभिरूद्वैवम्भूतयोः शब्दप्राधान्यम्युपगमपरतया शब्दनय एवान्तर्भावो विवक्ष्यते । ततश्च 'आदिनयः' नैगमः सोऽविशुद्ध विशुद्ध-विशुद्धरादिभेदाद् अनेकविधः। 'अनन्तिमनयस्तु' शब्दः सः 'त्रिवक्लपः' त्रिविधः शब्द-समभिरूद्वैवम्भूतभेदात् ।।
तत्रानेकविध गमानामन्योऽन्यनिरपेक्षाणियानि वक्तव्यानितानिनामग्राहं सङ्घ नाह[भा.१०९६] गावो तणाति सीमा, आरामुदपाणचेडरूवाणि ।
___ वाडी य वाणमंतर, उग्गह तत्तो य आहिपती ।। वृ-गावः १ "तणाइ"त्ति उपलक्षणत्वात्तृणहारकादयः२ सीमा ३आरामः ४'उदपानं' कूपः ५ चेडरूपाणि ६ 'वाटि' वृति ७ 'वानमन्तरं देवकुलं ८अवग्रहः ९ ततश्चाधिपति १० इति नियुक्तिगाथाक्षरार्थः ।। अथ भावार्थ उच्यते, प्रथमनैगमः प्राह-यावन्तं भूभागं गावश्चरितुं व्रजन्ति तावान् सर्वोऽपि ग्राम इति व्यपदेशं लभते १॥ ततो विशुद्धनैगमः प्रतिभणति[भा.१०९७] गावो वयंति दूरं, पिजंतु तण-कट्टहारगादीया ।
सूरुट्ठिए गता एंति अत्थमंते ततो गामो॥ परिस्थूरमते ! गावः 'दूरमपि' परग्राममपि चरितुं व्रजन्ति ततः किमेवं सोऽप्येक एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org