________________
२८५
उद्देशक ः १, मूलं-५, [भा. १०६४] भक्तं लभ्यते तत्र साध्वीः स्थापयन्ति, स्वयं तु निर्मिश्रनलम्बक्षेत्रे तिष्ठन्ति । अथ सर्वेष्वपि क्षेत्रेषु निर्मिश्रप्रलम्बानि प्राप्यन्ते ततः “असइ''त्ति प्रलम्बमिश्रस्याभावे यत्र विधिभिन्नानि प्राप्यन्ते तत्र संयत्यः स्थापनीयाः, स्वयं पुनरभिन्ना-ऽविधिभिन्नक्षेत्रे तिष्ठन्ति । अथ सर्वेष्वपि क्षेत्रेष्वभिन्नान्यविधिभिन्नानि वा प्राप्यन्ते तत इयं यतना कर्तव्या ॥ तामेवाह[भा.१०६५]भिन्नाणि देह भित्तूण वा वि असति पुरतो सि भिदंति।
___ठाविति ताहे समणी, ता चेव जयंति तेसऽसती॥ वृ-यत्र क्षेत्रे संयतीः स्थापयितुकामास्तत् क्षेत्रंसाधवः पूर्वमेवेत्थं भावयन्ति-यदा गृहस्थैः प्रलम्बान्यानीतानि भवन्ति तदा साधवो भणन्ति-यानि भिन्नानि तान्यस्मभ्यं दत्त । अथ न सन्ति भिन्नानि, सन्तिवापरंस्तोकानि, तैश्च संस्तरणंन भवतीतिपरिभाव्य साधवोभणन्ति-अस्मभ्यमेतानि भित्त्वा प्रयच्छत, न कल्पन्तेऽस्माकमीशानीति । अथ ते गृहस्थाः यदि रोचते तत ईशान्येव गृहीत' इत्युक्त्वा अभिन्नान्येव प्रयच्छन्तिततः असति' अभावे "सिं" तितेषां गृहस्थानांपुरतस्तानि प्रलम्बानि भिन्दन्तिभित्त्वाच गृह्णन्ति । एवंविधीयमाने गृहस्थानांचेतसि गाढतरं निश्चय उत्पद्यते, यथा-नूनं न कल्पन्ते अमीषामभिन्नानीति, ततस्ते भिन्नान्येव प्रयच्छन्तीति । एवं यदा तत् क्षेत्रं भावितं भवत तदा तत्र श्रमणीः स्थापयन्ति । तेषां' संयतानाम् 'असति' अभावे व्यापृतेषु वा तेषु कापि प्रयोजनान्तरे 'ता एव' संयत्यो यास्तत्रस्थविरास्ता एवमेव यतन्ते ।। [भा.१०६६] भिन्नासति वेलातिक्कमे व गेण्हंति थेरिया भिन्ने ।
दारे भित्तु अतिंति व, ठाणासति भिंदती गणिणी ।। वृ-विधिना भिन्नानामसति, यावद् वा गृहस्थैर्भेदयन्ति आत्मना वा यावत् तत्र भिन्दन्ति तावबेलातिक्रमोभवति, ततोयाः स्थविरास्ताअभिन्नानिअविधिभिन्नानि वा यास्तु तरुण्यस्ता विधिभिन्नानि गृह्णन्ति । ततः प्रतिनिवृत्ताः स्थविरा अभिना-ऽविधिभिन्नान्युपाश्रयद्वारे भित्त्वा विधिभिन्नानि कृत्वा वसतिम् ‘अतियान्ति प्रविशन्तीत्यर्थः । अथ बहिस्थानं नास्तिततः स्थानस्य 'असति' अभावे 'गणिनी' प्रवर्तिनी तस्यास्तानि समर्प्यन्ते, ततः सा गणिनी तानि 'मिनत्ति' विधिभिन्नानि करोतीत्यर्थः, कृत्वा च तरुणीनां समुद्देष्टुं ददाति । आह किं कारणं तरुणीनां प्रतिग्रहीतुं समुद्देष्टुं वा अभिन्ना-ऽविधिभिन्नानि न दीयन्ते? उच्यते[भा.१०६७] कक्खंतरुक्खवेगच्छियाइसूमा हुनूमए तरुणी।
तभिन्नं छुभति पङग्गहेसुन य दिज्जए सयलं ॥ वृ-कक्षायाअन्तरं कक्षान्तरम्, “उक्खो"त्ति परिधास्त्रैकदेशः, आहच निशीतचूर्णिकृत्परिधरणवत्थस्स अमितरचूलाए उवरिकण्णो नाभिहेट्ठा उक्खो भण्णइ ।। वैकक्षिकी-संयतीनामुपकरणविशेषः, एतेषु आदिशब्दादन्यस्मिन्नपि वस्त्रान्तरेतरुणी “मानूमए"त्ति “छदेणेर्नुमनूम०" इतिप्राकृतलक्षणामाच्छादयेत् । ततोभिक्षाग्रहणकाले तस्याः प्रतिग्रहेषु भिन्न प्रक्षिप्यते, न च 'सकलम्' अभिन्नमविधिभिन्नं वा तस्या भोजनकाले दीयते॥ [भा.१०६८] एवं एसा जयणा, अपरिगहिएसु होइ खेत्तेसु !
तिविहेहि परिग्गहिए, इमा उ जयणा तहिं होइ॥ वृ-एवम् ‘एषा' अनन्तरोक्ता यतना अपरिगृहीतेषु क्षेत्रेषु कर्त्तव्या भवति । 'त्रिविधैः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org