SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४९ उद्देशक : १, मूलं-१, [भा. ९२३] [भा.९२३] एस उ पलंबहारी, सहोढ गहिओ पलंबठाणेसु। सेसाण विछाधाओ, सविहोढ विलंबिए होइ।। वृ येनाऽऽरामाधिपतिना स प्रलम्बानि गृह्णानो गृहीतः स तं रासभारोपितं शृङ्गाटकत्रिक-चतुष्कादिषु सर्वतः परिभ्रामयन्नेवमुद्धोषयति-'भो भोः पौराः! श्रूयतामस्य प्रव्रजितकस्य दुश्चरितम्-एषः 'प्रलम्बहारी' मदीयारामसत्कलम्बचौरः ‘सहोढः' सलोनो गृहीतो मया दुरात्मा 'प्रलम्बस्थानेषु' आरामप्रदेशेषु इत्यादिघोषणापुरस्सरमितश्चेतश्च नीयमानो महाजनेन सखेदमवलोक्यमानः स्वकृतेन कर्मणा विडम्ब्यते । ततश्च सविहोढं' सजुगुप्सनीयं यथा भवत्येवं विडम्बिते तस्मिन् शेषाणामपि साधूनां छायाघातः' 'सर्वेऽप्यमी एवंविधा एव' इति प्रभापरिभ्रंशो भवतीति॥व्याख्यातमुड्डारद्वारम्। तद्याख्यानेच समर्थिता "अन्नत्थ-तत्थगहणे" इत्यादिद्वारगाथा। अथ यदुक्तमधस्तात् “आणाऽणवत्थ मिच्छा, विराधना कस्सऽगीयत्थे" तदिदानीं प्राप्तावसरं व्याख्यायते । तत्र आज्ञेति द्वारम्-भगवता प्रतिषिद्धं यत् “प्रलम्बं न कल्पते" तद्ग्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति, तस्मिंश्चाज्ञाभङ्गे चतुर्गुरुकाः । अत्र परः प्राह[भा.९२४] अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किह नु ! आणाए चिय चरणं, तभंगे किं न भग्गंतु॥ वृ-'अपराधे' चारित्रातिचारे लघुतरो दण्डो भवद्भिपूर्वंभणितः; तथाहि-अचित्तेप्रलम्बे मासलघु, सचित्ते तु चतुर्लधु: इह पुनराज्ञाभङ्गे चतुर्गुरुकमिति गुरुतरो दण्डः 'कथं' कस्मात् ?, 'नुः' इति वित; अपिच अपराध जीवोपघातो इति लघुतर एवात्र भणितुमुचित इति।आचार्य प्राह-आज्ञायामेव भागवत्यां 'चरणं' चारित्रं व्यवस्थितम्, अतः 'तद्भङ्गे तस्याः-आज्ञाया भङ्गे 'किम्?' इति परिप्रश्ने आचार्यशिष्यं प्रश्नयति-किंतद्मूलोत्तरगुणादिकं वस्तु समस्ति यदाज्ञाभङ्गे न भग्नम् ? अपितु सर्वमपि मग्नमिति, अत आज्ञायां गुरुतरो दण्ड उच्यते ।। अस्यैवार्थस्य प्रसाधनार्थं धष्टान्तमाह[भा.९२५] सोऊण य घोसणयं, अपरिहरंता विणास जह पत्ता। एवं अपरिहरंता, हियसव्वस्सा उ संसारे ॥ वृ-राज्ञाकारितांघोषणां श्रुत्वा घोषणयाचनिवारितमर्थमपरिहरन्तोयथा द्रव्यापहारलक्षणं विनाशं प्राप्ताः, एवं तीर्थकरनिषिद्धं प्रलम्बग्रहणमपरिहरन्तः 'हृतसर्वस्वाः' अपहृतसंयमरूपसर्वसाराः संसारे दुःखमवाप्नुवन्ति । एषा श्रीभद्रबाहुस्वामिविरचिता गाथा ॥ अथास्या एव भाष्यकारो व्याख्यानं करोति[भा.९२६] छप्पुरिसा मज्झ पुरे, जो आसादेज ते अजाणतो । तं दंडेमि अकंडे, सुणेतु पउरा! जनवया ! य ।। [भा.९२७] आगमिय परिहरंता, निद्दोसा सेसगा न निद्दोसा। जिनआणागमचारि, अदोस इयरे भवे दंडो॥ वृ-जइ कोइ नरवई, सो छहिं पुरिसेहिं अन्नतरे कज्जे तोसितो इमेणऽत्येण घोसणं कारेइ'इमे छप्पुरिसामज्झ पुरेअप्पणोइच्छाएविहरमाणामहाजनेनं अदिट्ठपुव्वा अनुवलद्धविभवनेवत्था अच्छंति, जो ते छिवइ वा पीडेइ वा मारेइ वा तस्स उग्गं दंडं करेमि, हंदि सुगंतु एअंपउरा ! य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy