________________
२४६
बृहत्कल्प-छेदसूत्रम् -१-१/१
काष्ठादिकं क्षिपन् 'तं कायं' वनस्पतिलक्षणं नियमादेव परित्यजति । स च लगुडादिरूरद्धं क्षिप्तः शाखादौ प्रतिस्खल्य निवृत्तस्तस्यैव सरीराभिमुखमापतति, तस्यापतने आत्मानंचपरित्यजतीति।। कथं पुनः पृथिव्यादिकायानां विराधको भवति ? इत्युच्यते[भा.९११] पावंते पत्तम्मिय, पुणोपइंते अ भूमिपत्ते ।
रय-वास-विजुयाई, वाय-फले मच्छिगाइ तसे ।। वृ-तत् काष्ठादिकं हस्तात् च्युतं सद् यावद् वृक्षेनाऽऽस्फलति तावत् प्राप्नुवद् भण्यते तस्मिन् प्राप्नुवति, तथा वृक्षं प्राप्ते पुनः पतति च भूमिप्राप्ते च षट्कायविराधना ज्ञातव्या । कथम् ? इति चेद् इत्याह-“रय" इत्यादि । आदिशब्दः प्रत्येकं सम्बध्यते, ततश्च रजःप्रभृतिकं पृथिवीकार्य वर्षोदकादिकमकायं विधुदारिकं तेजःकायं 'वातं च तत्रैव वातं फलानि तस्यैव वृक्षस्यसत्कानिउपलक्षणत्वात्पत्रादीन्यपि मक्षिकादींश्चत्रसान् विराधयति । इदमेव स्पष्टयन्नाह[मा.९१२] खोल्ल-तयाईसुरओ, महि-वासोस्साइ अग्गिदरदहे।
तत्थेवऽनिल वणस्सइ, तसा उ किमि-कीड-सउणाई॥ वृ“खोल्लं"तिदेशीशब्दत्वात्कोटरम्, त्वक्प्रतीता, तदादिषु स्थानेषुवृक्षे रजः सम्भवेत् ततः पृथिवीकायविराधना । महिकायां निपतन्त्यां वर्षे अवश्याये वा निपतति आदिग्रहणेन हरतनुकादिसम्भवेऽप्कायविराधना | वनदवादिना दरदग्धे वृक्षे उपलक्षणत्वाद् विधुति वाऽग्निकायविराधना । तत्रैवाग्नी नियमाद् ‘अनिलः' वायुः सम्भवतीति वायुकायविराधना। वनस्पतिसएवप्रलम्बलक्षणः पत्र-पुष्पादि। सास्तुकृमि-कीट-शकुनादिका विराध्यन्ते कृमयःविष्ठादिसमुद्भवाः, कीटकाः-घुणादयः, शकुनाः-काक-कपोतादयः, आदिग्रहणेनसरटादिपरिग्रहः। एवं वृक्षमप्राप्ते काष्ठादौ षट्कायविराधना । एवमेव प्राप्ते पुनः पतति भूमिप्राप्तेऽपि ज्ञातव्यम् ।। यत आह[भा.९१३] अप्पत्ते जो उगमो, सो चेव गमो पुनोपडतम्मि।
सो चेव य पडियम्मि वि, निक्पे चेव भोमाई॥ वृ-य एवाप्राप्ते 'गमः' प्रकारः स एव गमः पुनःपतति उपलक्षणत्वात् प्राप्तेऽपि, भूयो गमशब्दोच्चारणं षट्कायविराधनांप्रतीत्याऽऽत्यन्तिकतुल्यताख्यापनार्थम्,सएव भूमीपतितेऽपि काष्ठादौ प्रकारः प्रतिपत्तव्यः । केवलं "निकंपेचव भोमाइ"त्तितत्काष्ठादिकंमहता भारगौरवेण 'निष्कम्प' निस्सहं पृथिव्यां यद् निपतति तेन 'भौमादीनां' पृथिव्यादीनां महती विराधनेति चूर्णिकृदभिप्रायः । निशीथचूर्णिकाराभिप्रायेणतु"निकंपेचेवभूमीए" इति पाठः । अस्य व्याख्यायस्यां भूमौ स्थितः काष्ठादिक्षेपणाय विशिष्टं स्थानबन्धमध्यास्ते तत्रापि पादयोर्निष्कम्पत्वेन षण्णां कायानां विराधको भवति॥ [भा.९१४] एवं दवतो छण्हं, विराधओ भावओ उ इहरा वि।
चिजइ हु घणं कम्म, किरियग्गहणं भयनिमित्तं ॥ वृ- ‘एवम् एतेन प्रकारेण चतुष्प्यप्राप्तादिपदेषु द्रव्यतः षण्णां कायानां विराधकः प्रतिपत्तव्यः । भावतस्तु 'इतरथआऽपि' द्रव्यतो विराधनांविनाऽप्यसौषट्कायविराधको लभ्यते, संयमप्रति निरपेक्षतया तस्य भावतः प्राणातिपातसद्भावात्। भावप्राणातिपातेन च यथा 'घनं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org