________________
पीठिका- [भा. ७५४]
२०१
एवमिदं तु भविस्सइ, अदेसकालप्पलावी उ ।। वृ- 'कार्यविपत्ति' कार्यस्य विनाशं दृष्ट्वा कश्चिद् भणति, यथा-मया पूर्वमेव विज्ञातम् 'इदं कार्यमेवं भविष्यति' । यथा-केनचित्साधुना पात्रं लेपितम्, ततो रूढं सत्कुतोऽपिप्रमादतो भग्नम्, ततः कश्चिदात्मनो दक्षत्वं ख्यापयन् ब्रवीति-यदैवेदंपरिकर्मयितुमारब्धं तदैव मया ज्ञातम्, यथा-'इदं निष्पन्नमपि भङ्ख्यते' । एष एवंविधः अदेशकाले अनवसरे प्रलपनशीलोऽदेशकालप्रलापी ।। व्याख्यातश्चतुर्विधोऽपि भाषाचपलः । अथ भावचपलमाह[भा.७५५] जंजं सुयमत्थो, उद्दिढ तस्स पारमप्पत्तो।
अननसुयदुमाणं, पल्लवगाही उ भावचलो। वृ-यद्यद् आवश्यक-दशवैकालिकादेर्ग्रन्थस्य श्रुतं' सूत्रमर्थोवा 'उद्दिष्टं' प्रारब्धं तस्य' इत्यत्रापि वीप्सा गम्यते तस्य तस्य पारमप्राप्तः सन् ‘अन्यान्यश्रुतद्रुमाणाम्' आचारादिरूपापरारशास्त्रतरूणां पल्लवान्-तन्मध्यगतालापक-श्लोक-गाथारूपान् सूत्रार्थलवान् स्वरुच्या ग्रहीतुं शीलमस्येति पल्लवग्राही, 'तुः पुनरर्थे, य एवंविधः स पुनः 'भावचलः" भावचपलो मन्तव्यः ।। भवेत् कारणं येन चञ्चलत्वमपि कुर्यात् । किं पुनस्तत् ? इत्याह[भा.७५६] तेने सावय ओसह, खित्ताई वाइ सेहवोसिरणे ।
आयरिय-बालमाई, तदुभयछेए य बिइयपयं ॥ वृ-स्तेनभयेन श्वापदभयेन वा द्रुतमपि गच्छेद्, न दोषः । ग्लानो वा कश्चिदागाढस्तस्यौषधानयननिमित्तं शीघ्रमपि गच्छेद् न च प्रायश्चित्तमाप्नुयात् । “खित्ताइ"त्ति क्षिप्तचित्त आदिशब्दाद् हप्तचित्तो यक्षाविष्य उन्मादप्राप्तश्च एते स्थानचञ्चलत्वमपि कुड्यादिस्पर्शनहस्तभ्रामणादिकं कुर्यु न च प्रायश्चित्तमाप्नुयुः, अनात्मवशत्वाद् । "वाइ"त्ति वादिनो बुद्धिं परिभवितुमलीकमपिब्रूयात्, यथा-रोहगुप्तेन पोशालपरिव्राजकमतिव्यामोहनार्थंजीवा अजीवा नोजीवाश्चेति त्रयो राशयः स्थापिताः । तथा शैक्षस्य पण्डकादेव्युत्सर्जने विधेये तं निर्भर्सयन् असभ्यमपि भणेत्, येनोद्वेजितः स्वयमेव गणाद् निष्क्रम्य गच्छेत् । आचार्या वा कुतश्चित् प्रमादस्थानाद् नोपरमन्ते ततोऽदेशकालप्रलापित्वमपि कुर्यात्, यथा-क्षमाश्रमणाः ! अमुकः संयतोऽमुकश्च श्रावको ममपुरतइदं भणति, यथा-त्वदीया गुरवः इत्थम्भूतांप्रमादप्रतिसेवनामासेवमाना अचिरादेव पावस्थीभवन्तः सम्भाव्यन्ते; एतच्च मया पूर्वमपि विज्ञातमासीत्, यथा।
क्षमाश्रमणानामेवमाचरतापपवादो भविष्यति, ततइदानीमप्युपरमध्वं भगवन्तः! एतस्मात् प्रमादस्थानात्; एवमुक्ते तेऽश्लोकभयेनैवोपरमन्ते । बालो वा केलि-कन्दादिकं कुर्वाणो वार्यमाणोऽपि न निवर्त्तते ततोऽनूहितमपि यदपि तदपि भाषित्वा निवारणीयः, आदिग्रहणात् प्रत्यनीकादयो वा खर-परुषादिभाषमैरुपशमयितव्याः । तथा 'तदुभयच्छेदः' इति कस्याप्याचार्यस्यापूर्वं सूत्रमर्थो वा विद्यते तस्योभयस्यापितत्पादिनधीयमानस्य व्यवच्छेदो भवति अतः पूर्वारब्धं शास्त्रमर्धपठितमपि मुक्त्वा तत् तदुभयमध्येतव्यमिति यथाक्रमं गति-स्थान-भाषाभावचपलेषुचतुर्वपि द्वितीयपदमवसातव्यम्। एतद्गाथोक्तकारणायेगतिचपलादयस्तद्विपरीता ये गति-स्थान-भाषा-भावैश्चतुर्भिरप्यचपलास्तेऽस्य कल्पाध्ययनस्यानुयोगमहन्तीति ॥ गतमचञ्चलद्वारम् । अथावस्थितद्वारम् । तत्रानवस्थितं तावदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org