________________
पीठिका- [भा.७१३]
१८७
एनम् अनन्तरोदितं द्वादशविध सूत्रा-ऽर्थादिभिरिदिशप्रकारं कल्पं साधुसमाचारं 'जिनोपदिष्टं सर्वहरुक्तमिति,अनेनस्वमनीषिकाव्युदासमाह, यथोपदेशेन उपदेशाऽवैपरीत्येन 'ज्ञात्वा' अवबुध्य यः श्रद्धानमाचरणं च करोति । श्रद्धानं' नाम य एष कल्पः प्ररूपितः स निशङ्कमेवमेव नान्यथा, जिनोपदिष्टत्वात्; न खलु जिनोपदेशः कदाचिदपि विसंवादपदवीमासादयति। यत उक्तम्
रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम्।
यस्य तुनैते दोषास्तस्यानृतकारणं किं स्यात् ?।। तथा 'आचरणं' नाम यथावसरं द्वादशविधस्यापि कल्पस्यानुपालनम् । एते श्रद्धानाऽऽचरणे यः करोति ससिद्धिं गच्छतीति सण्टङ्गः ॥ कथम्भूतः ? इत्याह[भा.७१४] सो भविय सुलभबोही, परित्तसंसारिओ पयनुकम्मो ।
अचिरेण उ कालेणं, गच्छइ सिद्धिं धुयकिलेसो॥ वृ-'भव्यः' सिद्धिगमनयोग्यः, न खल्वभव्यस्यैवंविधकल्पविषयाणिसम्यग्ज्ञान श्रद्धानाऽऽचरणानि समुपजायन्ते । भव्योऽपि कदाचिद् दुर्लभबोधिकः स्यादित्याह-सुलभा-सुप्रापा बोधि-अर्हद्धर्मप्राप्तिर्यस्यासौसुलभदोधिकः।असावपि दीर्घसंसारी स्यादित्याह-परीत्तः-परिमितः संसारो यस्यासौ परीत्तसंसारिकः । अयमपि गुरुकर्मा भवेदित्याह-प्रकर्षेण तनु-प्रकृति-स्थितिप्रदेशा-ऽनुभावैरल्पीयः कर्मयस्यासी प्रतनुकर्मा' लघुकर्मेत्यर्थः । एवंविधोऽसौ इचिरेणैव कालेन' जघन्यतस्तेनैव भवग्रहणेनोत्कर्षतः सप्ताष्टभवग्रहणैः 'सिद्धिं' मोक्षं गच्छति धुतक्लेशः सन् । क्लिश्यन्ते-बाध्यन्ते शारीर-मानसर्दुखैःसंसारिणः सत्त्वा एभिरिति क्लेशाः-कर्माणि, धुताःअपनीताः क्लेशायेनासौ धुतक्लेशः' क्षीणाष्टकर्मेति भावः। तदेवं व्याख्यातं कल्पिकद्वारम्। अथाऽऽनुषङ्गिकमुत्सारकल्पिकद्वार-मभिधित्सुः प्रस्तावनामाह[भा.७१५] चोयग पुच्छा उस्सारकप्पिओ नत्थि तस्स किह नाम।
उस्सारे चउगुरुगा, तत्थ वि आणाइणो दोसा ।। वृ-कल्पिकद्वारे व्याख्याते सति लब्धावकाशो नोदकः पृच्छां करोति-भगवन् ! अमीषां कल्पिकानां मध्ये किमित्युत्सारकल्पिको नोपन्यस्तः ? । सूरिराह-नास्त्युत्सारकल्पिक इति । भूयोऽपिपरः प्राह-यधुत्सारकल्पिको नास्तिततः कथंतस्यनामश्रुयते? |गुरुराह-यद्यप्युत्सारकल्पो नाम्नाव्यवह्रियतेतथापिनकल्पतेउत्सारयितुम्, यद्युत्सारयति तदा चत्वारोगुरुकाः। तत्राप्याज्ञादयो दोषा द्रष्टव्याः ।। तानेवाह[भा.७१६] आणाऽणवत्थ मिच्छा, विराधना संजमे यजोगे य!
अप्पा परोपवयणं, जीवनिकाया परिच्चत्ता ।। वृ-आज्ञा भगवतां तीर्थकृतामुत्सारकल्पकृतान कृता भवति । तमाचार्यमुत्सारयन्तं दृष्ट्वा अन्येऽप्याचार्या उत्सारयिष्यन्ति, तदीया अन्यदीया वा शिष्या विवक्षितशिष्यस्पर्धानुबन्धादुत्सारापयिष्यन्ति चेत्यनवस्था । मिथ्यात्वं वाप्रतिपन्नाभिनवधर्माणः सत्त्वा व्रजेयुः । विराधना 'संयमे च' संयमविषया 'योगे च' योगविषया भवति । तथा तेनोत्सारकेण 'आत्मा' स्वजीवः 'परः' उत्सारकल्पविषयः शिष्यः प्रवचन' तीर्थ 'जीवनिकायाः' पृथिव्यादय एतानि परित्यक्तानि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only