________________
१८२
बृहत्कल्प-छेदसूत्रम् -१. यपरिस्थूरतरशरीरतया गमनादिव्यापारकर्तुन शक्नोति।अपचयद्रव्यमन्दस्तुयः कृशरीररतया मपि प्रयास न कर्तुमीष्टे । उपचयभावमन्दः पुनर्यो बुद्धरुपचयेन यतस्ततः कार्यं कर्तुनोत्सहते। अपचयभावमन्दस्तुयो निजसहजबुद्धेरभावेनान्यदीयाया बुद्धरनुपजीवनेन हिताऽहितप्रवृत्तिनिवृत्ती न कर्तुमीशः स बुद्धेरपचयेन भावतो मन्दत्वादपचयभावमन्दः । अत्र चानेनैव भावतोऽपचयमन्देन प्रकृतम्, शेषास्तु शिष्यमतिविकाशनार्थं प्ररूपिताः । अथवा तलिना' सूक्ष्मा कुशाग्रीया बुद्धि श्रेष्ठा, ततःसा सूक्ष्मतन्तुव्यूतपटीवद्अन्तःसारवत्वेन पचितेति कृत्वा यः कुशाग्रीयमति स उपचयभावमन्दः । यस्तु परिस्थूरमति सबुद्धेः स्थूलसूत्रतया स्थूलशाटिकाया इव अन्तर्निसारतालक्षणमपचयमधिकृत्यापचयभावमन्द इति । अतः केचिदाचार्या उभयमप्यपचयमन्दमिच्छन्ति, प्रथमव्याख्यानापेक्षया निर्बुद्धिकं द्वितीयव्याख्यानपक्षेतुपरिस्थूरबुद्धिकमपचयभावमन्दमत्र प्रस्तावे गृह्णन्तीति भावः ॥ अथ यदुक्तं नियुक्तिगाथायाम् “होहिइ वोसट्टतिट्ठाणो"त्ति तत्र कानि पुनस्तानि त्रीणि स्थानानि यानि तेन परित्यक्तानि? उच्यते[भा.६९८] नाणाई तिहाणा, अहवण चरणऽप्पओ पवयणंच ।
सुत्त-उत्थ-तदुभयाणि व, उग्गम उप्पायणाओवा।। वृ- एकाकी ‘ज्ञानादीनि' ज्ञान-दर्शन-चारित्राणि त्रीणि स्थानानि वक्ष्यमाणनीत्या परित्यजतीति । “अहवण"त्ति अखण्डमव्ययमथवार्थे, चरणमात्मा प्रवचनं चेति वा त्रीणि स्थानानि, तत्रागीतार्थतयाऽसौ षटकायविराधनया चरणम्, अतिप्रचुराहारभक्षणादिना ग्लानत्वाद्यापत्तावात्मानम, अयतनया संज्ञाव्युत्सर्गादिनाप्रवचनंच परित्यजति अथवा सूत्राऽर्थ-तदुभयानि त्रीणि स्थानानि, तत्रासावेकाकितया कदाचित् सूत्रं विस्मारयति । कदाचिदर्थं कदाचित् तदुभयम् । यद्वा उद्गमो त्पादना वाशब्दादेषणा चेति त्रीणि स्थानानि, तानि च निरङ्कुशत्वादेकाकी परित्यजतीति प्रकटमेव ।।
अथ यथाऽसौ ज्ञान-दर्शन-चारित्राणि परिहरति तथाऽभिधिसुराह[मा.६९९] अपुब्वस्सअगहणं, न य संकिय पुच्छणा न सारणया।
गुणयंते अअदटुं, सीदइ एगस्स उच्छाहो ॥ वृ-अपूर्वस्य श्रुतस्याग्रहणम्, एकाकितया पाठयितुरभावात् । न च शक्तेि सूत्रेऽर्थे वा कस्यापिपार्श्वेप्रच्छनम् । नवा सूत्रमर्थवाविकुट्टयतः 'सारणा' शिक्षणा मैवंपाठीः' इत्यादिका भवति तथाऽपरान्साधून 'गुणयतः परावर्तयतोऽदृष्टवा सीदति परिहीयते एकस्य एकाकिनः 'उत्साहः' सूत्रा-ऽर्थपरावर्तनायामभियोग इति ।
उक्तो ज्ञानपरिहारः । सम्प्रति दर्शन-चरणयोः परिहारमाह[भा.७००] चरगाई वुग्गाहण, न य वच्छल्लाइ दंसणे संका।
थी सोहि अणुनमया, निप्पग्गहया य चरणम्मि।। वृ-'चरकादिभिः कणाद-सौगत-साङ्घयप्रभृतिभिपाषण्डिभिःकुयुक्तियुक्ताभिःरुक्तिभिर्युद्राहणमगीतार्थतया तस्य भवेत्, न चासावेकाकितया साधर्मिकाणां वात्सल्यम्
आदिशब्दादुपबृहणं स्थिरीकरणं तीर्थप्रभावनां वा कुर्यात, शङ्कादयो वा दोषा देशतः सर्वतो वा तस्य भवेयुरिति, एवं दर्शनमसौ परिहरन्ति । तथा “थी" इति एकाकिनः स्त्रिया सम्भाषणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org