________________
पीठिका - [भा. ३४]
पज्जातो इति। तदा सोऽवधिज्ञानिनः प्रत्यक्षः, पर्यायाणामपि कतिपयानामवधिज्ञानगोचरत्वात्। भावतोऽनन्तान् भावान् जानाति सर्वभावानामनन्तभागम् । शेषंतु वक्तव्यमावश्यकटीकातोऽवसातव्यम् ।। उक्तमवधिज्ञानम्, अधुना मनःपर्यवज्ञानमाह[भा.३५] तंमनपज्जवनाणं, जेन वियाणाइ सन्निजीवाणं ।
दर्दु मनिज्जमाणे, मनदव्वे मानसं भावं ॥ वृ- येन संज्ञिजीवानां मनोद्रव्याणि “मणिजमाणे" इति 'मन्यमानानि' मननेन व्यापार्यमाणानि दृष्टवा 'मानसं भावं जानाति' चिन्तितमर्थमवबुध्यते तन्मनः पर्यवज्ञानम् ॥
एतदेव सनिदर्शनं भावयति[भा.३६] जाणइय पिहुजणो विहु, फुडमागारेहिं मानसं भावं ।
एमेव य तस्सुवमा, मनदव्यपगासिए अत्थे ।। वृ- 'पृथग्जनोऽपि' लोकः 'हुः' निश्चितं स्फुटम् आकारैर्मानसं भावं जानाति, एवमेव 'तस्यापि' मनःपर्यवज्ञानिनो मनोद्रव्यप्रकाशितेऽर्थे उपमा द्रष्टव्या । किमुक्तं भवति ?-यथा प्राकृतो लोकः स्फुटमाकारैर्मानसं भावं जानाति तथा मनःपर्यवज्ञान्यपि मनोद्रव्यगतानाकारनवलोक्य तं तंमानसं भावं जानातीति । एतदपि द्रव्य-क्षेत्र-काल भावैर्यथा नन्धध्ययने तथा चिन्तनीयम् ।।गतं मनःपर्यवज्ञानम्, अधुना केवलज्ञानमाह[भा.३७] पंकसलिले पसाओ, जह होइ कमेण तह इमो जीवो।
आवरणे झिज्जंते, विसुज्झए केवलं जाव ।। वृ-यथा पङ्ककलुषितेसलिलेतकतकचूर्णयोगतः 'प्रसादः' प्रसन्नताक्रमेणभवति, तथाऽयं जीवोऽपूर्वकरणगुणस्थानकादारभ्य क्षपक श्रेणिमारूढो विशुद्ध-विशुद्धतराध्यवसायप्रभावतः क्षीयमाणे आवरणे तावद् विशुध्यति यावत् क्षीणकषायगुणस्थानकचरमसमये ज्ञानावरणपञ्चकाऽन्तरायपञ्चक-दर्शनावरणचतुष्टयक्षयं कृत्वाऽनन्तरसमये केवलज्ञानसामादयति ।।
कथम्भूतं यत्केवलम् ? इत्याह[भा.३८] दव्वादिकसिणविसयं, केवलमेगं तु केवलन्नाणं ।
अनिवारियवावारं, अनंतमविकप्पियं नियतं ।। वृ-केवलज्ञानं 'द्रव्यादिकृत्सविषयं द्रव्यादीनि कृत्सनानि-समस्तानि विषयो सस्य तत्तथा, 'केवलम्' असहायं मत्यादिज्ञाननिरपेक्षत्वाद्, “एकम्' असाधारणमन्यसशत्वात्, अनिवारितव्यापारंअविरहितोपयोगत्वात्, अनन्तं ज्ञेयानन्तत्वाद्, 'अविकल्पितं' विकल्परहितंभेदरहितमितयर्थः, प्रथमत एवाशेषतदावरणविगमात, 'नियतं सर्वकालभावि।।
उक्तं केवलज्ञानम्, अधुना परोक्षमाभिनोबोधिकज्ञानमभिधित्सुराह[भा.३९] पञ्चक्ख परोक्खं वा, जं अत्थं ऊहिऊण निद्दिसइ।
___ तंहोइ अभिनिबोह, अभिमुहमत्थं न विवरीयं ।। वृ-'प्रत्यक्षम्' इन्द्रियविषयं परोक्षम्' इन्द्रियविषयातिक्रान्तं यद् अर्थमूहित्वा निर्दिशति' निर्णयपुरस्सरंब्रूते एष एवंभूतोऽर्थ इति, तद्अर्थप्रति अभिमुखं यथार्थविषयंआभिनिबोधिकम्, 'न विपरीतं' नाऽनर्थाभिमुखम्, तस्यायथार्थतया मिथ्यारूपत्वात्।तच द्विधा-इन्द्रियनिश्रित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org