________________
पीठिका -[भा. २४]
पञ्चविधंज्ञानम्-आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानंच। “दुग"त्ति अस्य व्याख्यानम्-'तद्' ज्ञानपञ्चकं द्विविधं प्रज्ञप्तम्, तद्यथा-प्रत्यक्षम् ‘इतरच' परोक्षम् ।।
सम्प्रति प्रत्यक्ष-परोक्षयोः स्वरूपमाह[भा.२५] जीवो अक्खोतं पइ, जं वट्टति तं तु होइ पञ्चक्खं ।
परतो पुन अक्खस्सा, वस॒तं होइ पारुखं ।। वृ-“अश् भोजने" अश्नाति-भुङ्क्ते यथायोगं सर्वानानिति अक्षः, यदि वा “अशौड् व्याप्तौ" अश्नुते-ज्ञानेन व्याप्नोति सर्वान् ज्ञेयानिति अक्षः-जीवः, उभयत्राऽप्यौणादिकः सक्प्रत्ययः, तं प्रत्यव्यवधानेन यद् वर्तते ज्ञानं भवति परोक्षम् । तथा द्रव्येन्द्रिय-मनांसि पुद्गलमयत्वात् पराणि, तेभ्यः पुनरक्षस्य वर्तमानं ज्ञानं भवति परोक्षम् । किमुक्तं भवति ?-यदिन्द्रियद्वारेण मनोद्वारेण वाऽऽत्मनो ज्ञानमुपजायते तत्परोक्षम, पृषोदरादित्वात् परशब्दात्परः सकारागमः। यदि वा परैर्द्रव्येन्द्रिय-मनोभिरक्षसम्बन्धो यस्मिंस्तत् परोक्षमिति व्युत्पत्ति ।।
अत्रैव मतान्तरं दूषयितुमाह[भा.२६] केसिंचि इंदियाई, अस्खाइं तदुवलद्धि पच्चक्खं ।
तंतु नजुज्जइ जम्हा, अग्गाहगर्मिदियं विसए । वृ-'केषाञ्चिद्' वैशेषिकादीनामक्षाणीन्द्रियाण्यभिप्रेतानि, तेषामुपलब्धि प्रत्यक्षम्, एवं च"चाक्षुषादिविज्ञानं प्रत्यक्षम्" इत्यापन्नम्। एतदूषयति-"तंतु" इत्यादि । 'तद्' वैशेषिकायुक्तं 'नयुज्यते' नघटामञ्चति, यस्मादि 'इन्द्रियं' चक्षुरादिपुद्गलमयत्वेनाचेतनत्वात्स्वरूपेणाग्राहकं 'विषयस्य' रूपादेः । ततः कथमुपपद्यते 'तदुपलब्धि प्रत्यक्षम् ? उपलब्धेरेवाभावात् ।।
तमेवोपलब्ध्यभावं भावयति[भा.२७] न वि इंदियाई उवलद्धिमंति विगतेसु विसयसंभरणा।
जह गेहगवक्खाई, जो अनुसरिया स उवलद्धा ।। वृ-नवैइन्द्रियाण्युपलब्धिमन्ति, तेषु विगतेष्वपितद्विषयस्यसंस्मरणात्, यथा गेहगवाक्षाः। किमुक्तंभवति? - यथा गेहगवाक्षरुपलब्धेष्वर्थेषुगेहगवाक्षाणामुपरमेऽपिपुरुषस्य संस्मरणभावान्न तेगवाक्षा उपलब्धारः, तथा विगतेष्वपीन्द्रियेषु तद्विषय उपलभ्यत आत्मनेति व्यापकविरुद्धोपलब्धि, 'तस्योपलम्भः' इतिव्यवस्था हि तस्य स्मरणेन व्याप्ता, अन्यथा तद्यवस्थायाः कर्तुमशक्यत्वात्, तद्विरुद्धं चात्रान्यस्य स्मरणमुपलभ्यत इति । कथम्? कस्तत्रोपलब्धा? इति चेत्, अतआह-योऽनुस्मर्तास तत्रोपलब्धा, आत्मा उपलब्धा इत्यर्थः । तथाच प्रयोगः-येषु विगतेष्वपि यद्विषयो येन स्मर्यते स तत्रोपलब्धा, यथा गेहगवाक्षेषु पुरुषः, विगतेष्वपि चेन्द्रियेषु तद्विषयः स्मर्यत आत्मना । स्मरणं हि प्रतिनियतत्वन्निमितवत्त्वेन संव्याप्तम्, न चोपलम्भादन्यनिमित्तमस्ति, ततो विपक्षाद् व्यापकानुपलब्ध्या निवर्तमानमुपलम्भपूर्वकत्वेन व्याप्तत इति प्रतिबन्धसिद्धिः।। अन्यच्च[भा.२९] अपरायत्तं नाणं, पञ्चक्खं तिविहमोहिमाईयं ।
जं परतो आयत्तं, तं पारोक्खं हवइ सव्वं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org