________________
१५६
बृहत्कल्प-छेदसूत्रम् -१सा निबिडजडिमजम्बालजालजटालानामस्माद्दशांजन्तूनांन तथाविधमव-बोधनिबन्धनमुपजायत इति परिभाव्य शब्दानुशासनादिविश्वविद्यामयज्योति पुञ्ज- परमाणुघटितमूर्तिभि श्रीमलयगिरिमुनीन्द्रर्षिपादैर्विवरणकरणमुपचक्रमे । तदपि कुतोऽपि हेतोरिदानी परिपूर्ण नावलोक्यत इति परिभाव्य मन्दमतिमौलिमणिनाऽपि मया गुरूपदेशं निश्रीकृत्य श्रीमलयगिरिविरचितविवरणादूर्द्ध विवरीतुमारभ्यते । कृतं विस्तरेण, प्रकृतं प्रस्तूयते
इहायं कल्प-व्यवहारयोरनुयोगः प्रक्रान्तः । स च कतिभिद्वारैः प्ररूपणीयः ? इति स्वरूपनिरूपणायामनुयोगवक्तव्यताप्रतिबद्धद्वारकलापसूचिका तावदियं मूलगाथा
निक्खेवेगट्ठ निरुत्ति विहि पवत्ती य केण वा कस्स।
तद्दार भेय लक्खण, तयरिह परिसा य सुत्तत्थो॥ अस्याश्च निक्षेपादीनि तदर्हपर्यन्तान्येकादश द्वाराणि व्याख्यातानि । सम्प्रति पर्षदिति द्वारमनुवर्तते । तत् चेदं द्वारश्लोकयुगलम्
बहुस्सुए चिरपव्वइए, कप्पिए अअचंचले। अवट्टिए अमेहावी, अपरिस्साई अजे विऊ ।।
पत्ते य अणुनाए, भावओ परिणामगे।
एयारिसे महाभागे, अनुओगं सोउमरिहइ । अत्रच बहुश्रुत-चिरप्रव्रजिते द्वारे व्याख्याते, कल्पिकद्वारं व्याख्यायमानमस्ति। सोऽपि कल्पिको द्वादशविधः, तद्यथा
सुत्ते अत्थे तदुभय, उवट्ठ वीयार लेव पिंडे य।
सिज्जा वत्थे पत्ते, उग्गहण विहारकप्पे य ।। तत्र सूत्रकल्पिकादयः शय्याकल्पिकान्ता भाविताः । साम्प्रतं वस्त्रकल्पिको भाव्यते । तत्रापि गाथाचतुष्टयं श्रीमलयगिरिणैव व्याख्यातम्, इतः प्रभृति विवियते । तत्र यदुक्तमनन्तरगाथायां “वोच्चत्थगहण-करणे, तत्थ वि सट्टाणपच्छित्तं"ति तदेतद् भावयति[भा.६०७] जोगमकाउमहागडे, जो गिण्हइ दोनि तेसु वा चरिमं ।
लहुगा उ तिन्नि मज्झम्मि मासिआ अंतिमे पंच ।। वृ. 'योग' व्यापारमुद्यममकृत्वा 'यथाकृते' यथाकृतवस्त्रविषयं यः साधुः 'द्वे' अल्पपरिकर्मसपरिकर्मणी गृह्णाति । तद्यथा-यथाकृतस्यार्थाय निर्गतस्तस्य योगमकृत्वा प्रथममेवाल्पपरिकर्म सपरिकर्म वा गृह्णाति । यथाकृतालाभे वा अल्पपरिकर्मणो योगमकृत्वा परथमत एव तयोः' अल्पपरिकर्म-सपरिकर्मणोर्मध्ये 'चरमम्' अन्त्यं सपरिकर्म गृह्णाति । तस्यैतेषु त्रिषुस्थानेषूत्कृष्ट-मध्यम-जघन्यान्यधिकृत्य यथाक्रमंप्रायश्चित्तम।तद्यथा-उत्कृष्टे त्रिषुस्थानकेषु त्रयश्चुर्लघवः, मध्यमे त्रीणि मासिकानि, 'अन्तिमे' जघन्ये त्रीणि पञ्चरात्रिन्दिवानि । अत्र च भावना पूर्वगाथायां कृतेति न भूयो भाव्यते । उक्तं यथाकृतादिविपर्यासग्रहणे प्रायश्चित्तम् । सम्प्रत्युत्कृष्टादिविषये विपर्यासेन ग्रहणे करणे च तदाह[भा.६०८] एगयरनिग्गो वा, अन्नं गिव्हिज्ज तत्थ सट्ठाणं ।
छित्तूण सिव्विऊण व, जं कुणइ तगंन जं छिंदे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org