________________
उद्देशकः ६, मूलं-२१५, [भा. ६४१९]
४१७ ततः 'आलोचित-प्रतिक्रान्तः' गुरूणामालोच्य प्रदत्तमिध्यादुष्कृतः संयतः शुद्धो भवति ॥ [भा.६४२०] छण्हं जीवनिकायाणं, अप्पज्झो उ विराहतो।
आलोइय-पडिक्कतो, मूलच्छेजंतु कारए। वृषण्णां जीवनिकायानां “अप्पज्झो"त्ति स्ववशो यदि दर्पणाऽऽकुट्टिकया वा विराधको भवति तत आलोचित-प्रतिक्रान्तं तं मूलच्छेद्यं प्रायश्चित्तं कारयेत् । वाशब्दोपादानाद् यदि तपोऽर्हप्रायश्चित्तमापन्नस्ततः तपोऽर्हमेव दद्यात्, तत्रापि यद्मासलघुकादिकमापनस्तदेव दद्यात्। अथ हीनादिकं ददाति ततो दोषा भवन्तीति दर्शयति[भा.६४२१] जंजो उ समावन्नो, जं पाउग्गं व जस्स वत्थुस्स।
तंतस्स उदायव्वं, असरिसदाने इमे दोसा॥ कृ'यत् तपोऽहं छेदार्ह वा प्रायश्चित्तं यः समापनः, यस्य वा वस्तुनः' आचायदिरसहिष्णु-प्रभृतेर्वा 'यत् प्रायश्चित्तं प्रायोग्यम् उचितंतत्तस्य दातव्यम्। अथासशम्-अनुचितंददातितत इमेदोषाः॥ [भा.६४२२], अपच्छित्ते य पच्छित्तं, पच्छित्ते अतिमत्तया।
धम्मस्साऽऽसायणा तिव्वा, मग्गस्स य विराधना ॥ वृ-'अप्रायश्चित्ते' अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति प्राप्ते वा प्रायश्चित्ते यः 'अतिमात्रम् अतिरिक्तप्रमाणंप्रायश्चित्तं ददाति सः 'धर्मस्य' श्रुतधर्मस्य तीव्रामाशातनांकरोति, 'मार्गस्य च' मुक्तिपथस्य सम्यग्दर्शनादेः विराधनां करोति । किञ्च[भा.६४२३] उस्सुत्तं ववहरंतो, कम्मं बंधति चिक्कणं ।
संसारंच पवड्डेति, मोहनिजं च कुव्वती ।। वृ-'उत्सूत्रं सूत्रोत्तीर्णं राग-द्वेषादिना 'व्यवहरन्' प्रायश्चित्तं प्रयच्छन् ‘चिक्कणं' गाढतरंकर्म बध्नाति, संसारं च 'प्रवर्द्धयति' प्रकर्षेण वृद्धिमन्तं करोति, 'मोहनीयं च' मिथ्यात्वमोहादिरूपं करोति ।। इदमेव सविशेषमाह[भा.६४२४] उम्मग्गदेसणाए य, मग्गं विप्पडिवातए।
परंमोहेन रंजिंतो, महामोहं पकुव्वती॥ वृ-'उन्मादिशनयाच सूत्रोत्तीर्णप्रायश्चित्तादिमाप्ररूपणया मार्ग' सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयति-व्यवच्छेदं प्रापयति । तत एवं परमपि मोहेन रजयन् महामोहं प्रकरोति। तथा च त्रिंशति महामोहस्थानेषु पठ्यते- “नेयाउयस्समग्गस्, अवगारम्भिवट्टई।" यतएवमतो न हीनाधिकं प्रायश्चित्तं दातव्यमिति ॥गतं ज्येष्ठद्वारम् । अथ प्रतिक्रमणद्वारमाह[भा.६४२५] सपडिक्कमणो धम्मो, पुरिमस्स इ पच्छिमस्स य जिनस्स।
मज्झिमयाण जिनानं, कारणजाए पडिक्कमणं॥ वृ-'सप्रतिक्रमणः' उभयकालं षड्विधावश्यककरणयुक्तोधर्मपूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थसाधूनांप्रमादबहुलत्वात् शठत्वाच्च। मध्यमानातुजिनानां तीर्थे कारणजाते' तथाविधेऽपराधे उत्पन्ने सति प्रतिक्रमणं भवति, तत्तीर्थसाधूनामशठत्वात् प्रमादरहितत्वाच ।।
अथास्या एव पूर्वार्द्ध व्याचष्टे[मा.६४२६] गमनाऽऽगमन वियारे, सायं पाओ य पुरिम-चरिमाणं । | 20/27]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org