________________
उद्देशकः ६, मूलं-२१४, [भा. ६३४१]
४०३ वृ.अध्वनि स्तेनानां सिंहादीनां वा भयादप्रेक्षमाण इतश्चेतश्च विलोकमानोऽपिव्रजेत् । यदि वाअध्वनि गच्छन् सार्थिकानाम् आयत्तिकानांवा सार्थचिन्तकानां धर्मं कथयति येनतेआवृत्ताः सन्तो भक्तपानाधुपग्रहं कुर्युः । अथवा विद्या काचिदभिनवगृहीता सा ‘मा विस्मरिष्यति' इति कृत्वा परिवर्तयन्ननुप्रेक्षमाणो वा गच्छेत् । 'आदिश्रुतं' पञ्चमङ्गलं तद्वा चौरादिभये परावर्तयन् व्रजेत् । खेदो नाम' परिश्रमः तेन आतुरीभूतो भयाद्वा सम्भ्रान्त ईर्यायामुपयुक्तो न भवेदपि । "अनाभोग"त्ति विस्मृतिवशात् सहसा वा नेर्यायामुपयोगं कुर्यात् ।। [भा.६३४२] संजोयणा पलंबातिगाण कप्पादिगोय अतिरेगो।
ओमादिए वि विहुरे, जोइजा जंजहिं कमति॥ वृ- अध्वनि गच्छन्नाहारादीनां संयोजनामपि कुर्यात् । प्रलम्बादीनां विकरणकरणाय पिष्पलकादिकमति रिक्तमप्युपधिं गृह्णीयाद् धारयेद्वा । अथवा परलिङ्गेन तानि ग्रहीतव्यानि ततः परलिङ्गमपि धारयेत् । कल्पाः-और्णिकादयस्तदादिकः आदिशब्दात् पात्रादिकश्च दुर्लभ उपधिरतिरिक्तोऽपि ग्रहीतव्यः । तदेवमध्वनि द्वितीयपदं भावितम् । एवम् अवमं-दुर्भिक्षं तत्र आदिशब्दाद् अशिवादिकारणेषु वा 'विधुरे' आत्यन्तिकायामापदि पञ्चविधं परिमन्थुमाकृत्य यद् यत्र द्वितीयपदं क्रमते तत्तत्र योजयेत् । एवं निदानपदं मुक्त्वा पञ्चस्वपि कौकुचिकादिषु परिमन्थुषु द्वितीयपदमुक्तम् ॥ आह-निदाने किमिति द्वितीयपदं नोक्तम् ? उच्यते-नास्ति । कुतः ? इति चेद् अत आह{भा.६३४३] जा सालंबणसेवा, तंबीयपदं वयंति गीयत्या।
आलंबनरहियंपुन, निसेवणं दप्पियं बेति॥ घृ. या 'सालम्बनसेवा' ज्ञानाधालम्बनयुक्ता प्रतिषेवा तां द्वितीयं पदं गीतार्था वदन्ति, आलम्बनरहितां पुनः 'निषेवणां' प्रतिषेवां दर्पिकांब्रुवते । तद्यालम्बनं निदानकरणे किमपिन विधते, “सव्वस्थ अनियाणया भगवयापसत्ये"ति वचनात् आह-भोगार्थ विधीयमानं निदानं तीव्रविपाकंभवतीति कृत्वामा क्रियताम, यत्पुनरमुनाप्रणिधानेनिदानं करोति-माममराजादिकुले उत्पन्नस्य भोगाभिष्वक्तस्य प्रव्रज्या न भविष्यतीत्यतो दरिद्रकुलेऽहमुत्पद्येयम्, तत्रोत्पन्नस्य भोगाभिष्वङ्गो न भविष्यति; एवं निदानकरणे को दोषः? सूरिराह[भा.६३४४] एवं सुनीहरो मे, होहिति अप्प त्ति तं परिहरति ।
हंदि! हुनेच्छंति भवं, भववोच्छित्तिं विमग्गंता ॥ कृ'एवम् अवधारणे।किमवधारयति? दरिद्रकुले उत्पत्रस्य मे ममात्माऽसंयमात् 'सुनिहरः' सुनिर्गमो भविष्यति, सुखेनैव संयममङ्गीकरिष्यामि इत्यर्थः; 'इति' ईशमपि यद् निदानं तदपि साधवः परिहरन्ते । कुतः ? इत्याह-'हन्दि!" इति नोदकामन्त्रणे।हुः इति यस्मादर्थे । हे सौम्य ! यस्माद् निदानकरणेन भवानां परिवृद्धिर्भवति, सर्वोऽपि च प्रव्रज्याप्रयत्नोऽस्माकं भवव्यवच्छित्तिनिमित्तम्, ततो भवव्यवच्छित्ति विविधैः प्रकारैर्गियन्तःसाधवो भवं नेच्छन्ति। अमुमेवार्थं एष्टान्तेन द्रढयति[भा.६३४५] जो रयणमणग्धेयं, विक्विजऽप्पेण तत्थ किं साहू।
दुग्गयभवमिच्छंते, एसोच्चिय होति दिलुतो।। वृ-यः 'अनर्यम्' इन्द्रनील-मरकतादिकरलम् अल्पेन स्वल्पमूल्येन काचादिना विक्रीणीयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org