________________
उद्देशक : ६, मूलं- २१४, [ भा. ६३३०]
४०१
वा कुर्वाणो व्रजति । यद्वा सामान्येन 'न च' नैवोपयुक्तः पथि व्रजति एष चक्षुर्तोल उच्यते ॥ अस्यैते दोषाः
[मा. ६३३१] छक्कायाण विराहण, संजमे आयाए कंटगादीया । आवडणे भाणभेदो, खद्धे उड्डाह परिहानी ।।
वृ- अनुपयुक्तस्य गच्छतः संयमे षट्कायानां विराना भवेत्। आत्मविराधनायां कण्टकादयः पदयोर्लगेयुः, विषमे वा प्रदेशे आपतनं भवेत् तत्र भाजनभेदः । 'खद्धेच' प्रचुरे भक्त पाने भूमौ छर्दिते उड्डाहो भवेत् अहो ! बहुभक्षका अमी इति । भाजने च भित्रे 'परिहानि' सूत्रार्थपरिमन्थो भाजनान्तरगवेषणे तत्परिकर्मणायां च भवति ॥ गतश्चक्षुर्लोलः । अथ तिन्तिणिकमाह
[भा. ६३३२] तिंतिणिए पुव्व भणिते, इच्छालोभे य उवहिमतिरेगे । लहुओ तिविहं व तहिं, अतिरेगे जे भणिय दोसा ॥
वृ- तिन्तिणिक आहारोपधि-शय्याविषयभेदात् त्रिविधः, स च 'पूर्वं' पीठिकायां सप्रपञ्चमुक्त इति नेहोच्यते । च सुन्दरमाहारादिकं गवेषयन्नेषणासमितेः परिमन्धुर्भवतीति । इच्छालोभस्तु स उच्यते यद् लोभाभिभूतत्वेनोपधिमतिरिक्तं गृह्णाति, तत्र लघुको मासः । त्रिविधं वा तत्र प्रायश्चित्तम् । तद्यथा- जघन्ये उपधौ प्रमाणेन गणनया वाऽतिरिक्ते धार्यमाणे पञ्चकम्, मध्यमे मासलघु, उत्कृष्टे चतुर्लघु । येचातिरिक्ते उपधौ दोषाः पूर्वं तृतीयोद्देशके भणितास्ते द्रष्टव्याः ।। अथ निदानकरणमाह[मा. ६३३३] अनियाणं निव्वाणं, काऊणमुवट्ठितो भवे लहुओ ।
पावति धुवमायातिं तम्हा अनियाणया सेया ।।
वृ- 'अनिदानं' निदानमन्तरेण साध्यं निर्वाणं भगवद्भिः प्रज्ञप्तम्, ततो यो निदानं करोति तस्य तत् कृत्वा पुनरकरणेनोपस्थितस्य लघुको मासः प्रायश्चित्तम् । अपि च यो निदानं करोति स यद्यपि तेनैव भवग्रहणेन सिद्धिं गन्तुकामस्तथापि 'ध्रुवम्' अवश्यम् 'आयातिं' पुनर्भवागमनं प्राप्नोति, तस्मादनिदानता श्रेयसी ।। इदमेव व्याचष्टे
[ भा. ६३३४] इह-परलोगनिमित्तं, अवि तित्थकरत्तचरिमदेहत्तं । सव्वत्थेसु भगवता, अनिदानत्तं पसत्यं तु ।।
कृ- इहलोकनिमित्तम्- 'इहैव मनुष्यलोकेऽस्य तपसः प्रभावेण चक्रवत्यादिभोगानहं प्राप्नुयाम्, इहैव वा भवे विपुलान् भोगानासादयेयम्' इतिरूपम् परलोकनिमित्तं मनुष्यापेक्षया देवभवादिकः परलोकस्तत्र 'महर्द्धिकइन्द्रसामानिकादिरहं भूयासम्' इत्यादिरूपं सर्वमपि निदानं प्रतिषिद्धम् । किंबहुना ? तीर्थकरत्वेन - आर्हन्त्येन युक्तं चरमदेहत्वं मे भवान्तरे भूयात् इत्येतदपि नासंशनीयम् । कुतः ? इत्याह- 'सर्वार्थेषु' सर्वेष्वपि ऐहिका ऽऽ मुष्मिकेषु प्रयोजनेषु नासंशनीयम् । कुतः ? इत्याह-'सर्वार्थेषु' सर्वेष्वपि - एहिका-ऽऽमुष्मिकेषु प्रयोजनेषु अभिष्वङ्गविषयेषु भगवताऽनिदानत्वमेव 'प्रशस्तं ' 'लाधितम् । तुशब्द एवकारार्थः, स च यथास्थानं योजितः । व्याख्याताः षडपि परिमन्थवः । साम्प्रतमेतेष्वेव द्वितीयपदमाह
[भा. ६३३५]
बिइयपदं गेलने, धाणे चेव तह य ओमम्मि ।
मोत्तूर्ण चरिमपदं, नायव्वं जं जहिं कमति ॥
वृ- द्वितीयपदं ग्लानत्वे अध्वनि तथा अवमे च भवति, तच 'चरमपदं' निदानकरणरूपं
2026
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org